पादुकासहस्रम् सञ्चारपद्धतिः

पादुकासहस्रम् सञ्चारपद्धतिः अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् । इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम्।। 11.1 शरदः शतमम्ब ! पादुके ! स्यां समयाहूतपितामहस्तुतानि । मणिमण्टपिकासु रङ्गभर्तुः त्वदधीनानि गतागतानि पश्यन्।। 11.2 त्वदधीनपरिक्रमो मुकुन्दः तदधीनस्तव पादुके ! विहारः । इतरेतरपारतन्त्र्यमित्थं युवयोः सिद्धमनन्यतन्त्रभूम्नोः।। 11.3 रजसा तमसा च दुष्टसत्त्वे गहने चेतसि मामके मुकुन्दः । उचितं मृगयाविहारमिच्छन् भवतीमादृत पादुके ! पदाभ्याम्।। 11.4 क्षमया […]

पादुकासहस्रम् शृङ्गारपद्धतिः

पादुकासहस्रम् शृङ्गारपद्धतिः शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे । यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः।। 10.1 प्रणतत्रिदशेन्द्रमौळिमाला मकरन्दार्द्रपरागपङ्किलेन । अनुलिम्पति पादुके ! स्वयं त्वाम् अनुरूपेण पदेन रङ्गनाथः।। 10.2 अबदातहिमां शुकानुषक्तं पदरक्षे ! त्वयि रङ्गिणः कदाचित् । किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि।। 10.3 असहायगृहीतरङ्गनाथां अवरोधाङ्गणसीम्नि पादुके ! त्वाम् । सुदृशः स्वयम् अर्चयन्ति दूरात् अवतं सोत्पलवासितैरपाङ्गैः।। 10.4 निर्विश्यमानमपि नूतनसन्निवेशं […]

पादुकासहस्रम् वैताळिकपद्धतिः

पादुकासहस्रम् वैताळिकपद्धतिः नमस्ते पादुके ! पुं सां सं सारार्णवसेतवे । यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम्।। 9.1 उचितमुपचरिष्यन् रङ्गनाथ ! प्रभाते विधिशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् । चरणकमलसेवासौख्यसाम्राज्यभाजां प्रथमविहितभागां पादुकाम् आद्रियेथाः।। 9.2 पद्माजुष्टं भजतु चरणं पादुका लब्धवारा प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः । अर्धोन्मेषादधिकसुभगाम् अर्धनिद्रानुषङ्गां नाभीपद्मे तव नयनयोर्नाथ ! पश्यन्तु शोभाम्।। 9.3 उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं तदिह चरणरक्षा रङ्गनाथ त्वयैषा । मृदुपदमधिरूढा मञ्जुभिः […]

पादुकासहस्रम् निर्यातनापद्धतिः

पादुकासहस्रम् निर्यातनापद्धतिः अभिषेकोत्सवात् तस्मात् यस्या निर्यातनोत्सवः । अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम्।। 8.1 उपास्य वर्षाणि चतुर्दश त्वाम् उत्तारिकामुत्तरकोसलस्थाः । सनन्दनाद्यैरपि दुर्विगाहं सान्तानिकं लोकमवापुरग्र्यम्।। 8.2 पादावनि ! प्रत्ययितो हनूमान् सीतामिव त्वां चिरविप्रयुक्ताम् । प्रणम्य पौलस्त्यरिपोरुदन्तं विज्ञापयामास विनीतवेषः।। 8.3 तवाभिषेकान्मणिपादरक्षे ! मूले निषेकादिव वृद्धियोग्यात् । जहुस्तदैव त्रिदशाङ्गनानां प्रम्लानतां पत्रलताङ्कुराणि।। 8.4 सर्वतस्त्वदभिषेकवासरे सम्यगुद्धृतसमस्तकण्टके । राघवस्य विपिनेषु पादुके ! […]

पादुकासहस्रम् अभिषेकपद्धतिः

पादुकासहस्रम् अभिषेकपद्धतिः पाहि नः पादुके ! यस्याः विधास्यन् अभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम्।। 7.1 राघवस्य चरणौ पदावनि ! प्रेक्षितुं त्वदभिषेकमीषतुः । आभिषेचनिकभाण्डसन्निधौ यत् प्रदक्षिणगतिः शनैर्ययौ।। 7.2 मूर्धाभिषिक्तैर्नियमेन वाह्यौ विचिन्त्य नूनं रघुनाथपादौ । रत्नासनस्थां मणिपादुके ! त्वां रामानुजन्मा भरतोऽभ्यषिञ्चत्।। 7.3 भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् । रामानुजौ तौ ननु पारतन्त्र्यात् उभावुभाभ्यां भवती जिगाय।। 7.4 निवेश्य […]

पादुकासहस्रम् अधिकारपरिग्रहपद्धतिः

पादुकासहस्रम् अधिकारपरिग्रहपद्धतिः अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः । अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्।। 6.1 मोचितस्थिरचरान् अयत्नतः कोसलान् जनपदान् उपास्महे । येषु कां श्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका।। 6.2 साम्राज्यसम्पदिव दासजनोचिता त्वं रामेण सत्यवचसा भरताय दत्ता । स त्वां निवेश्य चरणावनि ! भद्रपीठे पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्।। 6.3 भोगान् अनन्यमनसां मणिपादुके ! त्वं पुष्णासि हन्त भजतामनुषङ्गसिद्धान् । […]

पादुकासहस्रम् प्रतिप्रस्थानपद्धतिः

पादुकासहस्रम् प्रतिप्रस्थानपद्धतिः प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे । आनृशं स्यं ययोरासीदाश्रितेष्वनवग्रहम्।। 5.1 भृशातुरसहोदरप्रणयखण्डनस्वैरिणा पदेन किमनेन मे वनमिहावनादिच्छता । इतीव परिहाय तन्निववृते स्वयं यत् पुरा पदत्रमिदमाद्रिये धृतजगत्त्रयं रङ्गिणः।। 5.2 दशवदनविनाशं वाञ्छतो यस्य चक्रे दशरथमनघोक्तिं दण्डकारण्ययात्रा । स च भरतविमर्दे सत्यसन्धस्त्वयासीत् रघुपतिपदरक्षे ! राजधानीं प्रयान्त्या।। 5.3 अभ्युपेतविनिवृत्तिसाहसा देवि ! रङ्गपतिरत्नपादुके । अत्यशेत भवती महीयसा पारतन्त्र्यविभवेन मैथिलीम्।। 5.4 अव्याहतां […]

पादुकासहस्रम् समर्पणपद्धतिः

पादुकासहस्रम् समर्पणपद्धतिः भजामः पादुके ! याभ्यां भरतस्याग्रजस्तदा । प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत्।। 4.1 राज्यं विहाय रघुवं शमहीपतीनां पौरां श्च पादरसिकान् पृथिवीं च रक्ताम् । त्वामेव हन्त चरणावनि ! सम्प्रयास्यन् आलम्बत प्रथममुत्तरकोसलेन्द्रः।। 4.2 प्राप्ते प्रयाणसमये मणिपादरक्षे ! पौरानवेक्ष्य भवती करुणप्रलापान् । मञ्जुप्रणादमुखरा विनिवर्तनार्थं रामं पदग्रहणपूर्वमयाचतेव।। 4.3 मत्वा तृणाय भरतो मणिपादरक्षे ! रामेण तां विरहितां रघुराजधानीम् । त्वामेव […]

पादुकासहस्रम् प्रभावपद्धतिः

पादुकासहस्रम् प्रभावपद्धतिः वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिः नतानां यत्र चोन्नतिः।। 3.1 निश्शेषमम्बरतलं यदि पत्रिका स्यात् सप्तार्णवी यदि समेत्य मषी भवित्री । वक्ता सहस्रवदनः पुरुषः स्वयं चेत् लिख्येत रङ्गपतिपादुकयोः प्रभावः।। 3.2 वेदोपबृं ह्मणकुतूहलिना निबद्धं विश्वम्भराश्रुतिभवेन महर्षिणा यत् । व्यासेन यच्च मधुसूदनपादरक्षे ! द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः।। 3.3 प्रत्यक्षयन्ति परिशुद्धधियो यथावत् रामायणे रघुपुरन्दरपादरक्षे ! । शश्वत्प्रपञ्चितमिदम् […]

पादुकासहस्रम् समाख्यापद्धतिः

पादुका-सहस्रम् समाख्यापद्धतिः वन्दे विष्णुपदासक्तं तमृषिं ताञ्च पादुकाम् । यथार्था शठजित्सं ज्ञा मच्चित्तविजयाद्ययोः।। 2.1 द्रमिडोपनिषन्निवेशशून्यान् अपि लक्ष्मीरमणाय रोचयिष्यन् । ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः।। 2.2 नियतं मणिपादुके ! दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंश- प्रतिपत्त्यै परमाततान रूपम्।। 2.3 मुनिना मणिपादुके ! त्वया च प्रथिताभ्यां शठकोपसं ज्ञयैव । द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः।। 2.4 आकर्ण्य कर्णामृतमात्मवन्तो […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.