पादुकासहस्रम् प्रस्तावपद्धतिः
श्रीमद्वेङ्कटनाथवेदान्तदेशिकस्वामिविरचितं श्रीरङ्गनाथ पादुकासहस्रम् । प्रस्तावपद्धतिः 1.1 सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ 1.2 भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ 1.3 वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्तीम् आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् । पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ 1.4 दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना पादन्यासं प्रथममनघा भारती यत्र चक्रे । योगक्षेमं […]