पादुकासहस्रम् समाख्यापद्धतिः
पादुका-सहस्रम् समाख्यापद्धतिः वन्दे विष्णुपदासक्तं तमृषिं ताञ्च पादुकाम् । यथार्था शठजित्सं ज्ञा मच्चित्तविजयाद्ययोः।। 2.1 द्रमिडोपनिषन्निवेशशून्यान् अपि लक्ष्मीरमणाय रोचयिष्यन् । ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः।। 2.2 नियतं मणिपादुके ! दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंश- प्रतिपत्त्यै परमाततान रूपम्।। 2.3 मुनिना मणिपादुके ! त्वया च प्रथिताभ्यां शठकोपसं ज्ञयैव । द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः।। 2.4 आकर्ण्य कर्णामृतमात्मवन्तो […]
पादुकासहस्रम् प्रस्तावपद्धतिः
श्रीमद्वेङ्कटनाथवेदान्तदेशिकस्वामिविरचितं श्रीरङ्गनाथ पादुकासहस्रम् । प्रस्तावपद्धतिः 1.1 सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः । जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥ 1.2 भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् । यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥ 1.3 वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्तीम् आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् । पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥ 1.4 दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना पादन्यासं प्रथममनघा भारती यत्र चक्रे । योगक्षेमं […]
श्रीयतिराजसप्ततिः
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीयतिराजसप्ततिः 1 कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता च्छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥ 2 सहधर्मचरीं शौरेः संमन्त्रितजगद्धिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥ 3 वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यद्वेत्रशिखरस्पन्दे विश्वमेतद्व्यवस्थितम् ॥ 4 यस्य सारस्वतं स्रोतो वकुलामोदवासितम् । श्रुतीनां विश्रमायालं शठारिं तमुपास्महे […]