छान्दोग्योपनिषत् अष्टमः प्रपाठकः
छान्दोग्योपनिषत् (सामवेदीयोपनिषत् ) अष्टमः प्रपाठकः [दहरविद्या] अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ।। १ ।। प्र. -दहरविद्या प्रस्तूयते अथ यदिदमस्मिन् इति । ‘विद्यान्तरारम्भ प्रदर्शनार्थोऽयम् अथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्त्वादिना च पुरशब्दिते अस्मिन् शरीरे पुण्डरीकाकारम् अल्पं हृदयाख्यं परस्य ब्रह्मण: वेश्म इत्यर्थः । दहरोऽस्मिन् अन्तराकाश इत्यादि । अस्मिन् वेश्मनि अन्तः दहरः – सूक्ष्मः […]
छान्दोग्योपनिषत् सप्तमः प्रपाठकः
छान्दोग्योपनिषत् सप्तमः प्रपाठक: प्रथमः खण्डः [भूमविद्या] अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तँ होवाच यद्वेत्थ, तेन मोपसीद । ततस्त ऊर्ध्वं वक्ष्यामीति ।। १ ।। प्र. – भूमविद्या प्रस्तूयते – अधीहि भगव इति इति । सनत्कुमारं योगीन्द्रं नारदऋषिः अधीहि भगव इति मन्त्रोच्चारणपूर्वकं विधिवदुपसन्नः इत्यर्थः । अधीहि अधीष्व इत्यर्थः । तँ होवाच – तम् – उपसन्नं नारदं […]
छान्दोग्योपनिषत् षष्ठः प्रपाठकः
छान्दोग्योपनिषत् षष्ठः प्रपाठकः प्रथमः खण्डः [सद्विद्योपदेशार्थम् आख्यायिका] श्वेतकेतुर्हारुणेय आस । तँ ह पितोवाच, ‘श्वेतकेतो वस ब्रह्मचर्यम् । न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति‘ इति ।। १।। प्र. – सद्विद्याम् उपदेष्टुम् आख्यायिकाम् आह – श्वेतकेतुर्हारुणेय आस । हः प्रसिद्ध्यर्थः । अरुणपुत्रस्य उद्दालकस्य पुत्र: श्वेतकेतुनामा बभूव इत्यर्थः । तँ ह पितोवाच इत्यादि । उद्दालकः पिता तम् – […]
छान्दोग्योपनिषत् पञ्चमः प्रपाठकः
छान्दोग्योपनिषत् पञ्चमः प्रपाठकः प्रथमः खण्डः [ज्यैष्ठ्यश्रेष्ठ्यगुणकमुख्यप्राणोपासनम् ] यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ।। १ ।। प्र. – प्राणविद्या प्रस्तूयते – यो ह……भवति । ज्येष्ठत्वश्रेष्ठत्वगुणकं प्राणं यो वेद, स तत्क्रतुन्यायेन स्वयमपि ज्येष्ठश्च श्रेष्ठश्च भवति इत्यर्थः । ज्येष्ठत्वं – ‘वृद्धत्वम् । ‘वृद्धस्य च’ (पा.सू.५-३-६२) इति वृद्धशब्दस्य […]
छान्दोग्योपनिषत् चतुर्थः प्रपाठकः
छान्दोग्योपनिषत् चतुर्थः प्रपाठकः प्रथमः खण्डः [विद्यास्तुत्यर्था रैक्वाख्यब्रह्मर्षेः आख्यायिका] ओं । जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथान् मापयाञ्चक्रे, सर्वत एव मेऽन्नमत्स्यन्तीति ।।१।। प्र. – संवर्गविद्या प्रस्तूयते – विद्यास्तुत्यर्था आख्यायिका जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । जनश्रुतस्य अपत्यं जानश्रुतिः । हशब्दः प्रसिद्धौ । पुत्रसंज्ञस्य पुत्र: पौत्र: तस्य अपत्यं पौत्रायण: श्रद्धापुरस्सरं […]
छान्दोग्योपनिषत् तृतीयः प्रपाठकः
छान्दोग्योपनिषत् तृतीयः प्रपाठकः प्रथमः खण्डः [आदित्ये मधुदृष्टिः] असौ वा आदित्यो देवमधु । तस्य द्यौरेव तिरश्चीनक्शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ।। १ ।। प्र.-मधुविद्या प्रस्तूयते – असौ वा आदित्यो देवमधु । असौ आदित्यो वस्वादीनां देवानां ‘मोदहेतुत्वात्’ मधु । अत्र मधुत्वदृष्टिः कर्तव्या इत्यर्थः । मधुत्वोपयोगीनि सम्पादयति। तस्य द्यौरेव तिरश्चीनवंशः । तस्य – आदित्याख्यमधुनः धुलोकः एव आधारभूतः तिर्यक्प्रसारितो वंशः […]
छान्दोग्योपनिषत् द्वितीयः प्रपाठकः
छान्दोग्योपनिषत् द्वितीयः प्रपाठकः प्रथमः खण्डः [समस्तसामोपासनम्] ओम् , समस्तस्य खलु साम्न उपासनम् , साधु । यत् खलु साथ, तत् सामेत्याचक्षते । यदसाधु, तदसामेति ।। १ ।। प्र. –सामावयवोपासन प्राङ्निर्दिश्य समस्तस्य साम्न: उपासनं प्रस्तौति समस्तस्य……साधु । समस्तस्य – पाञ्चविध्ययुक्तस्य साप्तविध्ययुक्तस्य वा समस्तस्य साम्न: साधुत्वेन उपासनं कार्यम् इत्यर्थः । तत्रोपपत्तिमाह – यत्……असामेति साध्वसाधुकर्मणी सामासामत्वेन व्यवहरन्ति इत्यर्थः […]
छान्दोग्योपनिषत् प्रथमः प्रपाठकः
छान्दोग्योपनिषत् [सामवेदीयोपनिषत्] शान्तिपाठः ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि, सर्वं ब्रह्मोपनिषदम्, माऽहं ब्रह्म निराकुर्यां, मा मा ब्रह्म निराकरोत् अनिराकरणमस्तु, अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु, ते मयि सन्तु ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। ** प्रथमः प्रपाठकः प्रथमः खण्डः [प्रणवोपासनस्य रसतमत्वकामाप्तिसमृद्धिगुणकत्वादिप्रकारवैशिष्ट्यम् | हरिः ओम् – ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति […]