कठोपनिषत् – षष्ठी वल्ली

कठोपनिषत् षष्ठी वल्ली ऊर्ध्वमूलो अवाक्शाख एषोऽश्वत्थस्सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिन् लोकाः श्रितास्सर्वे तदु नात्येति कश्चन ।। एतद्वै तत् ।।१।। षष्ठीवल्लीप्रकाशिका ऊर्ध्वमूलो अवाक्शाख एषोऽश्वत्थः सनातनः । अयं च मन्त्रखण्डः, ऊर्ध्वमूलम् अधश्शाखम्’ इति गीताव्याख्यानावसरे भगवता भाष्यकृता व्याख्यातः । इत्थं हि तत्र भाष्यम् – ‘यं संसाराख्यम् अश्वत्थम् ऊर्ध्वमूलम् अधश्शाखम् अव्ययं अश्वत्थं प्राहुः श्रुतयः – ‘ऊर्ध्वमूलो […]

कठोपनिषत् – पञ्चमी वल्ली

कठोपनिषत् पञ्चमी वल्ली पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।। एतद्वै तत् ।। १ ।। पञ्चमीवल्लीप्रकाशिका पुरम् इति । जननादिविक्रियारहितस्य ऋजुबुद्धेः विवेकिन आत्मनः, एकादशेन्द्रियलक्षणबहिर्निर्गमद्वारोपेतं शरीराख्यं पुरं भवति । पुरस्वामिनः यथा पुरं विविक्तं भवति; तथा शरीरमपि स्वात्मनो विविच्य ज्ञातं भवति । अविवेकिनस्तु देह आत्मैव भवतीति भावः । अनुष्ठाय न शोचति – विविच्य जानन्, देहानुबन्धिभिः दुःखैः, […]

कठोपनिषत् – चतुर्थी वल्ली

कठोपनिषत्  चतुर्थी वल्ली पराञ्चि खानि व्यतृणत् स्वयंभूः तस्मात् पराङ्पश्यन्ति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।। १ ।। चतुर्थीवल्लीप्रकाशिका ‘उत्तिष्ठत जाग्रत’ इति प्रोत्साहनेऽपि आत्मस्वरूपविमुखान् पश्यन् शोचति पराञ्चि इति । खानि – इन्द्रियाणि, पराञ्चि परान् अञ्चतीति पराञ्चि, परप्रकाशकानि, न तु आत्मप्रकाशकानि । तत्र हेतुं वदन् शोचति व्यतृणत्स्वयंभूः – स्वतन्त्र ईश्वरः इमानि खानि हिंसितवान् । ‘तृह्  हिंसायाम् (धा.पा.१४४७) इति […]

कठोपनिषत् – तृतीया वल्ली

कठोपनिषत्  तृतीया वल्ली ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धये । छायातपौ ब्रह्मविदो वदन्ति पंचाग्नयो ये च त्रिणाचिकेताः ।। १ ।। तृतीयावल्लीप्रकाशिका ‘क इत्था वेद यत्र सः’ इति अस्य दुर्ज्ञानत्वे, अत्र इत्थमास्ते’ इति अस्य अर्थस्य दुर्बोधत्वेन; न वयं तदुपासने शक्ताः? इति मन्यमानं प्रति उपास्योपासकयोः एकगुहानुप्रवेशेन परमात्मन: ‘सूपास्यत्वात् वयमपि उपासितुं शक्ता: द्वाभ्यां मन्त्राभ्यां दर्शयति – […]

कठोपनिषत् -द्वितीया वल्ली

कठोपनिषत् द्वितीया वल्ली अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँ सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थात् य उ प्रेयो वृणीते ।।१।। द्वितीयावल्ली प्रकाशिका एवं शिष्यं परीक्ष्य, तस्य मुमुक्षा स्थैर्यं निश्चित्य, तस्य उपदेशयोग्यतां मन्वानः मुमुक्षां स्तौति – अन्यच्छ्रेयः इति । अतिप्रशस्तं मोक्षवर्त्माऽपि अन्यत्; प्रियत्वास्पदं भोगवर्त्मापि अन्यत् । ते – श्रेय:प्रेयसी, परस्परविलक्षणप्रयोजने सती, पुरुषं सिनीतः – बध्नीतः […]

कठोपनिषत् – प्रथमा वल्ली

श्रीः श्रीमते रामानुजाय नमः कठोपनिषत् शान्तिमन्त्रः ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।। । ओं शान्तिः शान्तिः शान्तिः ।। प्रथमा वल्ली उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ।। १ ।। | प्रकाशिका | (श्रीरङ्गरामानुजमुनिविरचिता) अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.