छान्दोग्योपनिषत् द्वितीयः प्रपाठकः
छान्दोग्योपनिषत् द्वितीयः प्रपाठकः प्रथमः खण्डः [समस्तसामोपासनम्] ओम् , समस्तस्य खलु साम्न उपासनम् , साधु । यत् खलु साथ, तत् सामेत्याचक्षते । यदसाधु, तदसामेति ।। १ ।। प्र. –सामावयवोपासन प्राङ्निर्दिश्य समस्तस्य साम्न: उपासनं प्रस्तौति समस्तस्य……साधु । समस्तस्य – पाञ्चविध्ययुक्तस्य साप्तविध्ययुक्तस्य वा समस्तस्य साम्न: साधुत्वेन उपासनं कार्यम् इत्यर्थः । तत्रोपपत्तिमाह – यत्……असामेति साध्वसाधुकर्मणी सामासामत्वेन व्यवहरन्ति इत्यर्थः […]
छान्दोग्योपनिषत् प्रथमः प्रपाठकः
छान्दोग्योपनिषत् [सामवेदीयोपनिषत्] शान्तिपाठः ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि, सर्वं ब्रह्मोपनिषदम्, माऽहं ब्रह्म निराकुर्यां, मा मा ब्रह्म निराकरोत् अनिराकरणमस्तु, अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु, ते मयि सन्तु ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। ** प्रथमः प्रपाठकः प्रथमः खण्डः [प्रणवोपासनस्य रसतमत्वकामाप्तिसमृद्धिगुणकत्वादिप्रकारवैशिष्ट्यम् | हरिः ओम् – ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति […]
श्वेताश्वतरोपनिषत् प्रथमोऽध्यायः
।। श्रीः ।। कृष्णयजुर्वेदीया श्वेताश्वतरोपनिषत् [शान्तिपाठः] ओम् – पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः व्यशेम देवहितं यदायुः ।। सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। प्रथमोऽध्यायः हरिः ओम् । ब्रह्मवादिनो वदन्ति’ किं कारणं ब्रह्म कुत: स्म जाता: जीवाम […]
ऐतरेयोपनिषत्
ऐतरेयोपनिषत् शान्तिमन्त्रः वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एवि । वेदस्यम आणीस्थः । श्रुतं मे मा प्रहासीः। अनेनावीतेनाहोरात्रान् सन्दवामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः यथोक्ततत्त्वविद्याप्रतिपादकग्रन्थपाठे प्रवृत्ता मदीया वाक् सर्वदा मनसि प्रतिष्ठिता । मनसा […]
तैत्तिरीयोपनिषत् भृगुवल्ली
तैत्तिरीयोपनिषत् भृगुवल्ली [शान्तिपाठः] सह नाववतु । सहनौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ।। प्रथमोऽनुवाकः [ब्रह्मजिज्ञासा] भृगुर्वै वारुणि: । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तँ होवाच । यतो वा इमानि भूतानि जायन्ते । […]
तैत्तिरीयोपनिषत् आनन्दवल्ली
तैत्तिरीयोपनिषत् आनन्दवल्ली [गुरुशिष्यसंकल्पः] हरिः ओम् सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ।। १ ।। सह नाववतु इत्यादि । अधीतो मन्त्रः नौ – गुरुशिष्यौ सह रक्षतु। अन्यतरस्यापि दोषो मा भूत् इत्यर्थः । पुनरपि तदेव प्रार्थयते – सह नौ भुनक्तु इति। भुनक्तु – […]
तैत्तिरीयोपनिषत् शिक्षावल्ली
तैत्तिरीयोपनिषत् [तैत्तिरीयारण्यके पञ्चमः प्रश्नः] शिक्षावल्ली प्रथमोऽनुवाकः [उपक्रमशान्तिपाठः] शं नो मित्रश्शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारम् […]
माण्डूक्योपनिषत्-श्रीमद्रङ्गरामानुजमुनि
।। श्रीः ।। माण्डूक्योपनिषत् (अथर्ववेदीयोपनिषच्छान्तिपाठः) ओम् भद्रं कर्णेभिः शृणुयाम देवा: भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायु: ।। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ।।ओं शान्तिः शान्तिः शान्तिः ।। देवाः – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम्), कर्णेभिः – श्रोत्रैः शृणुयाम – श्रोतुं, समर्था […]
मुण्डकोपनिषत् तृतीयमुण्डके द्वितीयखण्डः
मुण्डकोपनिषत् तृतीयमुण्डके द्वितीयखण्डः [आत्मतत्त्वज्ञानात् मोक्षप्राप्तिः] स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।। १ ।। आत्मवित्पूजायाः मोक्षफलकत्वमाह – स वेदैतत् इति । यत्र – ब्रह्मणि, विश्वं – जीवजातम् निहितम् , शुभ्रम् – निर्मलं स्वप्रकाशं भाति, एतत् – ईदृशं सवकामास्पदतया धाम – शब्दितं परमं ब्रह्म – […]
मुण्डकोपनिषत् तृतीयमुण्डके प्रथमखण्डः
मुण्डकोपनिषत् तृतीयमुण्डके प्रथमखण्डः [जीवब्रह्मणोः वैलक्षण्यम् | ‘द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ।। १ ।। ननु एकस्यैव ब्रह्मणः सर्वदेहानुप्रवेशे तस्य सुखदुःखभोक्तृत्वप्रसङ्गः ‘इत्यत्राऽऽह – द्वा सुपर्णा इति । युज्यत इति युक् । युक्शब्दो गुणपरः । समानगुणकः सयुक् इति व्यासायैविवृतत्वात् । सयुजौ – समानगुणको अपहतपाप्मत्वादिगुणैः परस्परसमानौ, सखायौ – सहचरौ । द्वौ […]