वेदार्थसङ्ग्रह: Part II
वेदार्थसङ्ग्रह: (Continued) (सर्वस्य परमात्मनियाम्यत्वे विधिनिषेधयोः आनर्थक्यशङ्का, तत्परिहारश्च) ननु च सर्वस्य जन्तो: परमात्मान्तर्यामी तन्नियाम्यं च सर्वमेवेत्युक्तम् । एवं च सति विधिनिषेधशास्त्राणामधिकारी न दृश्यते । य: स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्त: स एवं कुर्यान्न कुर्यादिति विधिनिषेधयोग्य: । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरक: परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते एष एव साधु कर्म कारयति ते […]
वेदार्थसङ्ग्रह: Part I
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ श्रीभगवद्रामानुजविरचितः उपनिषदर्थसङ्ग्राहकः वेदार्थसङ्ग्रह: (मङ्गलाचरणम्) अशेषचिदचिद्वस्तुशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नम: ॥ १॥ परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत् परोपाध्यालीढं विवशमशुभस्यास्पदमिति । श्रुतिन्यायापेतं जगति विततं मोहनमिदं तमो येनापास्तं स हि विजयते यामुनमुनि: ॥२॥ (स्वसिद्धान्तार्थसारः) अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थ: जीवपरमात्मयाथात्म्यज्ञान-पूर्वकवर्णाश्रमधर्मेतिकर्तव्यताक परमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रिय: तत्प्राप्तिफल:। अस्य जीवात्मनोऽनाद्यविद्यासञ्चितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक् स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्म-स्वरूपतत्स्वभाव-तदन्तर्यामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वक- अनवधिकातिशयानन्द-ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वमसि (छा.उ.६.८.४) । […]