ईश्वरपरिच्छेदः
श्रीः श्रीमते रामानुजाय नमः ईश्वरपरिच्छेदः *ईश्वरलक्षणनिरूपणम्* अथ ईश्वरश्चिन्त्यते । सर्वेश्वरत्वम्, व्यापकत्वे सति चेतनत्वम्, सर्वशेषित्वम्, सर्वकर्मसमाराध्यत्वम्, सर्वफलप्रदत्वम्, सर्वाधारत्वम्, सर्वकार्योत्पादकत्वम्, स्वज्ञानस्वेतरसमस्तद्रव्यशरीरकत्वम्, स्वतस्सत्य-सङ्कल्पत्वादिकञ्च ईश्वरलक्षणम् । यत्तु जन्मादिसूत्रे जन्मादित्रितयसमाहारो लक्षणमुक्तम्; तत्र एकैकस्य लक्षणत्वे सम्भवत्यपि त्रयाणाम् त्रयः कर्तार इति कुमतिशङ्काव्यावर्तनाय तदिति मन्तव्यम् । सत्यादिवाक्येऽपि अनन्तपदेनैव सर्वव्यवच्छेदसिद्धौ शङ्कितक्रमेण व्यवच्छेदात् पूर्वविशेषणद्वयम् । एवमन्यत्रापि भाव्यम् ॥ *प्रधानादेरब्रह्मत्वनिरूपणम्* अद्वितीयसमाभ्यधिकदरिद्रत्वश्रवणादसावेकः । स एव ब्रह्म । […]
जीवपरिच्छेदः
॥श्रीः॥ श्रीमते रामानुजाय नमः जीवपरिच्छेदः श्रीन्यायसिद्धाञ्जने द्वितीयो जीवपरिच्छेदः ॥ *जीवस्य लक्षणम् देहव्यतिरेकश्च* अथ जीवः । अल्पपरिमाणत्वे सति ज्ञातृत्वम्, शेषत्वे सति ज्ञातृत्वम्, इत्यादि तल्लक्षणम् । स तावत् न देहः; प्रत्येकसमुदायचैतन्यादिविकल्पा-नुपपत्तेः, शरीरभेद इव अभिप्रायभेदप्रसङ्गात्, ममेति व्यतिरेकप्रत्ययात् सङ्घातत्वादिहेतुभिश्च । अवयविनश्च दूषितत्वात् । सिद्धावपि तद्गुणस्य कारणगुणपूर्वकत्वप्रसङ्गात् । पाकजगुणवत् परिणामविशेषाभ्युपगमेऽपि प्रत्यवयवम् चैतन्यप्रसङ्गो दुष्परिहरः । अत एव *तेभ्यः चैतन्यम् किण्वादिभ्यो मदशक्तिवत्* […]
जडद्रव्यपरिच्छेदः
न्यायसिद्धाञ्जनम् जडद्रव्यपरिच्छेदः ॥ श्रीः ॥ श्रीमते हयवदनपरब्रह्मणे नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमद्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥ श्रीमन्निगमान्तमहादेशिकैरनुगृहीतम् ॥ श्रीन्यायसिद्धाञ्जनम् ॥ ॥ जडद्रव्यपरिच्छेदः ॥ श्रीमद्वेङ्कटनायकः श्रुतिशिरस्तात्पर्यपर्याप्तधी- र्लब्धार्थो वरदार्यपादरसिकाद्रामानुजाचार्यतः । बालानामतिवेलमोहपटलावष्टम्भसीदद्द्दृशाम् सम्यक्तत्त्वनिरीक्षणाय तनुते सत्तर्कसिद्धाञ्जनम् ॥ सदसद्भूमिकाभेदैस्तत्तत्सिद्धान्तनाटकैः । उपप्लुतस्य तत्त्वस्य शुद्ध्यर्थोऽयमुपक्रमः ॥ यन्न्यायपरिशुद्ध्यन्ते सङ्ग्रहेण प्रदर्शितम् । पुनस्तद्विस्तरेणात्र प्रमेयमभिदध्महे […]
वचस्सुधाविचारः
॥ श्रियै नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥ पण्डितरत्नम् कुप्पण्णैय्यङ्गार्येण विरचितः वचस्सुधाविचारः अव्यादव्याजकारुण्यनिधिरम्बुजलोचनः । श्रीयादवाद्रिनिलयः श्रीमान्नारायणस्सदा ॥ श्रीभाष्यकारो जयतादपारकरुणानिधिः । यम् भागधेयम् भविनामवतीर्णम् प्रचक्षते ॥ यस्य सूक्तिसुधासार: पायम् पायम् बुधा भुवि । तुष्यन्ति तम् कृपासिन्धुम् भाष्यकारम् भजाम्यहम् ॥ श्रीशैललक्ष्मणमुनेः प्रणम्य चरणद्वयम् । वचस्सुधाविचारोऽयम् क्रियते विदुषाम् मुदे ॥ तत्र तावत् भगवता भाष्यकृता श्रीभाष्ये *पाराशर्यवचस्सुधाम्* इत्यादि […]
शरणागतिगद्यम्-श्रुतप्रकाशिकया समेतम्
॥ श्रीः ॥ श्रीमते रामानुजाय नमः लक्ष्मीपतेर्यतिपतेश्च ढ्यैकधाम्नो योऽसौ पुरा समजनिष्ट जगद्वितार्थम् । प्राप्यं प्रकाशयतु नः परमं रहस्यं संवाद एप शरणागतिमन्त्रसारः ॥ श्रीभगवद्रामानुज विरचितं || शरणागतिगद्यम् || श्रीमत्सुदर्शनसूरिविरचितया श्रुतप्रकाशिकया समेतम् ॥ श्रीमते रामानुजाय नमः ॥ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो रामानुजस्य चरणौ शरणम् प्रपद्ये ॥ भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकाति- शयासङ्ख्येय […]
பூகோளககோள விஷயம்
ஶ்ரீமதே ராமாநுஜாய நம: அஸ்மத்குருப்யோ நம: (மதுரமங்கலம் எம்பார் திருவேங்கட ராமாநுஜ ஜீயர் அருளிச்செய்தது) பூகோளககோள விஷயம் ஶ்ரிய:பதியாய் லீலாபோக ஸாதநங்களான விபூதித்வயநாயகனாய், அத்வாரக ஸத்வாரகங்களாலே ஸகல ஜகத்ஸர்கஸ்திதிஸம்ஹாரகர்தாவாய் , ஸர்வாந்தர்யாமியாய், ஸர்வவ்யாபகனாய் ஸர்வஜ்ஞத்வ ஸர்வஶக்தித்வாத்யநந்த கல்யாணகுணங்களுடையனாய் எழுந்தருளியிருக்கும் ஶ்ரீமன்நாராயணன், தந்நோடவிபக்தமாய்க்கிடந்த சித்விஶிஷ்டாசித்தை விபக்தமாக்கி, அண்டகாரணங்களான மஹதாதிகளாக பரிணமிப்பித்து, அண்டத்தைநிர்மித்து, அதில் பத்தாத்மஸமஷ்டி பூதநான ப்ரஹ்மாவைப்படைத்து, அவனுக்கு பூதங்களுடைய நாமரூபக்ருத்யங்களையறிவிக்கிற அநாதியான வேதங்களையுபதேஶித்து, ஸூர்யசந்த்ராதிகளையும், அவர்களுக்கு வாஸஸ்தாநங்களான சதுர்தஶ புவநங்களையும், பூர்வகல்பத்திலிருந்தபடி ஸ்ருஷ்டிக்கும்படி நியமிக்க, அந்நியமநப்படி […]
आनन्दतारतम्यखण्डनम्
श्रीः श्रीमते रामानुजाय नमः श्रीश्रीनिवासविरचितम् आनन्दतारतम्यखण्डनम् शेषाशेषाय निर्दोषगुणभूषाय शेषिणे । निर्मलानन्दनिर्माणधर्मिणे ब्रह्मणे नमः ॥ [आनन्दतारतम्ये युक्तिप्रदर्शनम्] इह केचिद्देवमनुष्यादीनाम् मुक्तानाम् परस्परमानन्दे तारतम्यम् आचक्षते । तद्धि साधनतारतम्यायत्तम् दुरपह्नवम् । मुक्तिसाधनम् हि ज्ञानम् । तत्तारतम्यम् च लोकत एवावगतम् । देवानाम् च ऋषीणाञ्च बहुतरतपश्चर्याप्रतिपादकपुराणावगतम् च प्रयत्नाधिक्यम्, फलाधिक्य-गमकम् । अन्यथा प्रयत्नानर्थक्यप्रसङ्गात् । फलवता नाम प्रयत्नेन भवितव्यम् । न च […]
शारीरकन्यायकलापसङ्ग्रहः
॥ श्रीः ॥ । श्रीमते रामानुजाय नमः । शारीरकन्यायकलापसङ्ग्रहः [श्रीसेनेश्वरार्यैः विरचितः] जगद्भार: सुविन्यस्त: सेनेशे यत्र विष्णुना । तस्यावतारमपरम् सेनानाथ गुरुम् भजे ॥ ॥ प्रथमोऽध्यायः – प्रथमः पादः ॥ शास्त्रावतारः [प्रतिज्ञा] प्रणम्य रामानुजसम्यमीश्वरम् प्रबोधहेतुम् हृदयाम्बुजन्मनः । करोमि तद्दर्शनमार्गगोचरम् शारीरकन्यायकलापसङ्ग्रहम् ॥१॥ [अध्यायचतुष्टयार्थः] प्रमाणता तत्प्रतियोगिभङ्गः सम्राधनम् तस्य फलोपभोगः । एतानि सम्यक् परिचिन्तितानि शास्त्रेत्विहाध्यायचतुष्टयेन ॥२॥ [प्रथमाध्यायीयपादचतुष्टयार्थाः] अस्पष्टतरमस्पष्टम् स्पष्टम् छायानुसारि […]
विषयवाक्यदीपिका जगद्व्यापारवर्जाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। जगद्व्यापारवर्जाधिकरणम् जगद्व्यापारवर्ज्जं प्रकरणादसन्निहितत्त्वाच्च (ब्र.सू.4.4.17)बृहदारण्यके तृतीयाध्याये चतुर्थब्राह्मणे ।।ब्रह्म वा इदमग्र आसीदेकमेव तदेकँ सन्नव्यभवत तच्छ्रेयोरूपमत्यसृजत क्षत्रम् ।।एकत्वादेव विवृद्धं नाभवत् ।तच्छ्रेयोरूपमत्यसृजत् ।।तच्छ्रेष्ठं शरीरमत्यसृजत क्षत्रम् ।।क्षत्रियाख्यं श्रेष्ठं शरीरमसृजत् ।।तदेव प्रपंचयति ।।यान्येतानि देवत्रा क्षत्राणींद्रो वरुणः ।।इत्यादि।।देवत्रा देवेषु । स्पष्टमन्यत् ।।इति जगद्व्यापारवर्जाधिकरणम् ।। क्षेमाय यःकरुणया क्षितिनिर्ज्जरणां भूमावजंृभयत भाष्यसुधामुदारः ।वामागमाध्वगवदावदतूलवातो […]
विषयवाक्यदीपिका कार्याधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कार्याधिकरणम् कार्यात्यये सहाध्यक्षेणातः परमभिधानात् (ब्र.सू.4.3.9)परामृतात्परिमुच्यंति सर्वे ।।परामृतं परमात्मानं प्राप्येति ल्यब्लोपे पंचमी ।।इति कार्याधिकरणम्