पूर्वविकल्पाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ पूर्वविकल्पाधिकरणम् ॥२०॥ पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् ॥३-३-४४॥     तत्र मनश्चितादयो विद्यामयाग्नयः क्रियामयक्रत्वङ्गतया क्रिया । एवम् एषाञ्च विहितानाम् फलाकाङ्क्षायाम् पूर्वत्र *असद्वा इदमग्र आसीदि*(तै.आन.७-१)तीष्टकचिताग्नेः  प्रस्तुतत्वात् तस्य च क्रत्वव्यभिचारित्वेन क्रतूपस्थापकत्वात् तेन च क्रतोस्सन्निहिततया सन्निहितेन क्रतुना एकवाक्यतैव कल्प्यते । न च तस्य क्रतोरिष्ट-कचिताग्न्यावरुद्धत्वात् कथम् तत्र विद्यामयस्य मनश्चितादेरग्नेस्समावेश इति वाच्यम् । […]

लिङ्गभूयस्त्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ लिङ्गभूयस्त्वाधिकरणम् ॥१९॥    सहस्रशीर्षमित्यस्यानुवाकस्य प्रकृतदहरविद्योपास्यनिश्चायकत्वमेव युक्तम् । न तु सर्वपर विद्योपास्यनिश्चायकत्वम् । कुतः *सहस्रशीर्षमि* (तै.महा.ना.११.अनु)त्यादिद्वितीयानिर्देशेन पूर्वानुवाकोदितो पासनासम्बन्धे *तस्मिन्यदन्तस्तदुपासितव्यमि*(तै.महा.ना.१०.अनु)ति उपासिगतेन कृत्प्रत्ययेन उपास्यस्य कर्मणोऽभिहितत्वादुपास्ये द्वितीयानुपपत्तेः । विश्वमेवेदम् पुरुषः*(तै.महा.ना.११.अनु) *तत्त्वम् नारायण*(तै.महा.ना. ११.अनु) इत्यादिप्रथमानिर्देशात् द्वितीयार्थाश्रयणे विद्यामुपासीतेति विधि-पदाध्याहारप्रसङ्गाच्च । *येनावृतम् खञ्चदिवम् महीम् च*( तै.महा.ना. १.अनु) इत्यादिवत् प्रथमार्थे द्वितीया आश्रयणीया । […]

प्रदानाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ प्रदानाधिकरणम् ॥ १८ ॥      तद्य इहात्मानमनुविद्य व्रजन्ती*(छान्.८-१-६)ति दहराकाशो-पासनमुक्त्वा *एताम्श्च सत्यान्कामान्*(छान्.८-१-६) इत्यपहतपाप्म-त्वादिगुणानामुपासनस्य पृथगभिधानाम्नानादपहतपाप्मत्वादिगुणो-पासनदशायाम् न धर्मिस्वरूपम् चिन्तनीयम् । ततश्च प्रथमम् दहरा-काशाख्यम् धर्मिस्वरूपमनुसन्धाय तस्यापहतपाप्मत्वविजरत्वविशोकत्व-सत्यकामत्वसत्यसङ्कल्पत्वरूपाः कामा इत्येव चिन्तनीयम् । न तु *अपहत पाप्मा विजरो विमृत्युरि* (छान्.८-१-५)ति गुणिनोऽपि चिन्तनमिति पूर्वपक्षे प्राप्त उच्यते – प्रदानवदेव तदुक्तम् ॥ ३-३-४२ ॥ यद्यपि […]

तन्निर्धारणानियमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ तन्निर्धारणानियमाधिकरणम् ॥१७॥    *ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादिना विहितानामङ्गावबद्धोपासनानामव्यभिचरितक्रतुसम्बन्धिजुहूपस्थापितक्रतुफलनिराकाङ्क्षपर्णतादिवत् अव्यभिचरितक्रतुसम्बन्ध्युद्गीथोपस्थापित-क्रतुफलेनैव नैराकाङ्क्ष्यात् *तदेव वीर्यवत्तरम् भवती*(छान्.१-१-१०)ति वीर्यवत्तरत्वादि श्रवणानामर्थवादत्वाद्व्रीहिप्रोक्षणपर्णतादिवदङ्गत्वात् उपासनानि क्रतौ नियमेनोपादेयानीति पूर्वपक्षे प्राप्ते उच्यते –   तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्॥ ३-३-४१ ॥   निर्धारणम् – निश्चयेन मनसोऽवस्थापनम् ध्यानमित्यर्थः । तस्यो-पासनस्यानियमः नियमेनाननुष्ठानम् । *तेनोभौ कुरुतो यश्चैतदेवम् वेद यश्च न वेदे*(छान्.१-१-१०)त्यनियमदर्शनात्, तस्योपासनस्य प्रबलकर्मा-प्रतिबन्धरूपवीर्यवत्तरत्वलक्षणफलान्तरवत्त्वेन कर्माङ्गत्वाभावादित्यर्थः […]

कामाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ कामाद्यधिकरणम् ॥ १६ ॥     *य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान*(बृह.४-१-१७) इति आकाशशयानत्ववशित्वादिगुण- विशिष्टतयोपास्यः छान्दोग्यदहरविद्याप्रतिपादितापहतपाप्मत्वादि-गुणाष्टकविशिष्टाकाशाद्भिन्नः । अतो रूपभेदाद्विद्याभेद इति पूर्वपक्षे प्राप्तेऽभिधीयते । कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३-३-३८ ॥ तत्र चेतरत्र च स्थलद्वयेऽपि कामादिविशिष्टम् ब्रह्मैवोपास्यम् । हृदयायतनत्व सेतुत्वविधरणत्वदिभिर्विद्यैक्यप्रत्यभिज्ञानात् वाजसनेयक-श्रुतवशित्वादीनाम् छान्दोग्यश्रुतसत्य सङ्कल्पत्वविततिरूपतया रूपभेदा-भावात्, *परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत* […]

अन्तरत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अन्तरत्वाधिकरणम् ॥१५॥ अन्तराभूतग्रामवत् स्वात्मनोऽन्यथाभेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३-३-३५ ॥     अन्तरशब्दाद्भावप्रधानात् *सुपाम् सुलगि*(अष्टा.७-१-३९)ति तृतीयैक-वचनस्याकारादेशेऽन्तरेति रूपम् । अन्तरा अन्तरत्वेनेत्यर्थः । अन्तरा-शब्दो मध्यवचनोऽप्यस्ति । तयोरेकशेषेण सूत्रेऽयमन्तरेति निर्देशः। ततश्चायमर्थः – उषस्तब्राह्मणे *एष त आत्मा सर्वान्तर*(बृह.५-४-१) इति सर्वान्तरत्वेन निर्देश: भूतग्रामवत् स्वात्मनः भूतग्रामवान्यः स्वात्मा भूतग्रामशब्दिताचेतनान्तर्यामी यः प्रत्यगात्मा तद्विषयकः । न तु […]

अक्षराध्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अक्षराध्यधिकरणम् ॥१४॥      *एतद्वै तदक्षरम् गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमि* (बृह.५-८-८)त्यादिनिर्दिष्टाः अक्षरसम्बन्धिनः अस्थूलत्वादयः प्रपञ्च-प्रत्यनीकतारूपाः सर्वकर्मत्वसर्वकामत्वादिवत् सर्वासु परविद्यासु नोप-सम्हर्तव्याः उपसम्हारे प्रमाणाभावात् । न च स्वरूपनिरूपकाणाम् सत्यत्वज्ञानत्वादिधर्माणाम् सर्वपरविद्योपसम्हारस्य *आनन्दादयः प्रधानस्ये*(ब्र.सू.३-३-११)त्यधिकरणसिद्धत्वात्तद्वेदेवास्थूलादिकम् किन्न स्यादिति चेन्न । सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुम-शक्यतया सत्यत्वादेस्सर्वविद्योपसम्हारेऽप्यस्थूलत्वादीनामभावरूपाणाम् *लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यत*  इति न्यायेन ब्रह्मप्रतीत्यनन्तरभाविप्रतीतिकानाम् ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपरविद्योपसम्हारे प्रमाणाभावादिति प्राप्त उच्यते […]

अनियमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अनियमाधिकरणम् ॥ १३ ॥      उपकोसलविद्यायाञ्चार्चिरादिगतेः पाठात् यस्याम् विद्यायामर्चि-रादिगतिः श्रूयते तन्निष्ठानामेवार्चिरादिगत्या ब्रह्मप्राप्तिः नान्येषाम् । न च *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते*(छान्.५-१०-१) *श्रद्धाम् सत्यमुपासत*(बृ.५-२-१५) इति सर्वब्रह्मविद्या-साधारण्यम् श्रुतमिति वाच्यम् । तथासत्युपकोसलविद्यायामर्चिरादिगति-श्रुतिवैयर्थ्यप्रसङ्गादिति पूर्वपक्षे प्राप्ते उच्यते – अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥३-३-३२॥ सर्वेषाम् सर्वोपासननिष्ठानामर्चिरादिमार्गेणैव गन्तव्यत्वात् एतद्विद्या-निष्ठानमेवेति नियमो नास्ति । तथा […]

साम्परायाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ साम्परायाधिकरणम् ॥ १२ ॥     कौषीतकिनामुपनिषदि – *स आगच्छति विरजानदीम् मनसात्येति तत्सुकृतदुष्कृते धूनुते*(कौषी. १-३-४) इति विरजानद्यतिक्रमणहेतुतया तदनन्तरभाविसुकृतदुष्कृतधूननश्रवणात् *अश्न इव रोमाणि विधूय पापम् चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतम् कृतात्मा ब्रह्मलोकमभिसम्भवानी*(छान्.८-१३-१)ति *तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्याम् द्विषन्तः पापकृत्यामि* ति श्रुत्योः विरोधे देहवियोग पुत्रदायसङ्क्रान्तिसमकाल एव सुकृतदुष्कृतहानसङ्क्रमण-श्रवणात् कर्मैकदेशस्य देहवियोगकाले […]

हान्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ हान्यधिकरणम् ॥ ११ ॥       छन्दोगा: *धूत्वा शरीरमि*(छान्.८-१३-२)ति पुण्यपापयोर्हानिम्, शाट्यायनिनः *सुहृदस्साधुकृत्याम्*(शप्यायिनः अथर्वणिकाः) इत्यादिना प्रियाप्रियेषु सङ्क्रमणम्, कौषीतकिनः *तत्सुकृतदुष्कृते धूनुते*(कौषी.२-४) इत्यादिना पुण्यपापयोर्हानिसङ्क्रमणे च प्रतिपादयन्ति । हान्युपाय-नोभयचिन्तनानाम् किम् वैकल्पिकत्वम् उत समुच्चय इति सम्शये पृथगाम्नानात् समुच्चयाङ्गीकारे तस्य कौषीतकिवाक्यसिद्धत्वेन शाखा-न्तराम्नानवैयर्थ्यप्रसङ्गाच्च वैकल्पिकत्वमेव । न चानेकशाखापाठस्या-ध्येतृभेदेन परिहरणीयता अविशेषपुनश्श्रवणाभावादिति पूर्वपक्षे प्राप्त उच्यते – […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.