तत्स्वाभाव्यापत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥ *यथैतमाकाशमाकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्.५-१०-५) त्यादावाकाशादिभावोऽपि देवमनुष्यादिभाववत्तच्छरीरकत्वलक्षण एवा-स्त्विति पूर्वपक्षे प्राप्त उच्यते – तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३-१-२२ ॥ तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिरित्यर्थ: । स्वभाव एव स्वाभाव्यम् । *वर्तमानसामीप्य*(अष्टा.३-३-१३१) इत्यादिवत् स्वार्थिकः ष्यङ् । अतः तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः । चन्द्रमण्डले शरीरारम्भकाणाम् भूतसूक्ष्माणाम् कर्मक्षये द्रवीभूतानामाकाशगतानाम् भेदकाकारप्रहाणेनाकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽप्याकाशसमा भवन्तीत्यर्थः । कुतः? उपपत्तेः […]
अनिष्टादिकार्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ अनिष्टादिकार्यधिकरणम् ॥३॥ अनिष्टादिकारिणामपि च श्रुतम् ॥३-१-१२॥ *ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती* (कौषी.१-२)त्यविशेषश्रवणात् इष्टादिकारिणामिव अनिष्टादिकारिणामपि चन्द्रप्राप्ति-रस्त्येवेत्यर्थः । तर्हि सुकृतकारिणाम् दुष्कृतकारिणाम् च चन्द्रप्राप्तिसत्वे को विशेष इत्यत्राह – सम्यमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥३-१-१३॥ तुशब्दशङ्काम् व्यावर्तयति । सम्यमने यमशासने सति इतरेषाम् अनिष्टादिकारिणाम् यमयातनाः अनुभूय चन्द्रारोहावरोहौ । […]
कृतात्ययाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ कृतात्ययाधिकरणम् ॥ २ ॥ *यावत्सम्पातमुषित्वे*(छान्.५-१०-५)ति सम्पातशब्दितसर्वकर्म-फलस्य तत्रैवोपभोक्तव्यत्व श्रवणात् *प्राप्यान्तम् कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्मान्ल्लोकात्पुनरेत्यस्मै लोकाय कर्मण* (बृह.६-४-६) इति बृहदारण्यके श्रवणात् सर्वम् कर्मफलम् भुक्त्वा निरनुशय एवावरोहति जीवः । अनुशयः भुक्तशिष्ठम् कर्म । एवम् प्राप्त उच्यते – कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्याम् यथेतमनेवञ्च ॥ ३-१-८ ॥ कृतस्य कर्मणोऽत्यये अवसाने अनुशयवानेव प्रत्यवरोहति […]
तदन्तरपप्रतिपत्तयधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ तदन्तरपप्रतिपत्तयधिकरणम् ॥ १ ॥ लोकान्तरम् गच्छतो जीवस्य देहारम्भकभूतसूक्ष्माणाम् तत्रैव सुलभतया न भूतसूक्ष्मपरिष्वक्तया गमनमिति प्राप्त उच्यते – तदन्तरप्रतिपत्तौ रम्हति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ ३-१-१ ॥ पूर्वत्र *सञ्ज्ञामूर्तिक्लृप्तिरि*(ब्र.सू.२-४-१७)ति सूत्रे मूर्तिशब्देन निर्दिष्टो देहस्तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ देहान्तरप्रति-पत्त्यर्थम् जीवो भूतसूक्ष्मैः परिष्वक्त एव रम्हति गच्छतीत्यर्थः । पञ्चाग्निविद्यायाम् *वेत्थ यथा […]
सञ्ज्ञामूतिक्लृप्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः (पे-२) सञ्ज्ञामूतिक्लृप्त्यधिकरणम् ॥ ८ ॥ *अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी*(छान्.६-३-२)ति स्वाम्शत्वेनात्मभूतस्य जीवस्यैवानुप्रवेशव्याकरणकर्तृत्वाभिधानात् परदेवतायाः स्वेन रूपेणानुप्रवेशानुक्तेः, हिरण्यगर्भस्य नामरूपव्याकर्तृ-त्वस्य पुराणादिषु प्रसिद्धत्वात्, परमात्माम्शभूतो हिरण्यगर्भ एव प्रवेशनामरूप व्याकरणयोः कर्ता । नचैवम् *व्याकरवाणी*(छान्.६-३-२) ति परमात्मनोऽभिसन्धिर्नोपपद्यत इति वाच्यम् । जीवसमष्ट्याश्रयस्य प्रवेशव्याकरणकर्तुर्हिरण्यगर्भस्य परमात्माम्शतयाऽत्यन्तभिन्नत्वाभावेन तद्गतनामरूपव्याकर्तृत्वस्य प्रवेशसमानाधिकरणस्य स्वनिष्ठतया परमात्मनोऽनुसन्धानोपपत्तेः प्रयोजककर्तृतयाऽपि *व्याकरवाणी*(छान्. ६-३-४) त्यभिसन्ध्युपपत्तेश्च । […]
इन्द्रियाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः इन्द्रियाद्यधिकरणम् ॥ ७ ॥ किम् सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात् प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्चेन्द्रियाणीति पूर्वपक्षे प्राप्त उच्यते – त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २-४-१५ ॥ त एव वागादय इन्द्रियाणि नतु श्रेष्ठप्राणः । ततः श्रेष्ठप्राणादन्यत्रैव इतरेष्वेव *इन्द्रियाणि दशैकञ्चे*(गी.१३-५)तीन्द्रियत्वव्यपदेशात् । किञ्च भेदश्रुतेः *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि […]
ज्योतिराद्यधिष्ठानाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥ जीवस्य यत्स्वभोगसाधनशरीराद्यधिष्ठातृत्वम् न तत्परमात्मायत्तमिति पूर्वपक्षे प्राप्त उच्यते – ज्योतिराद्यधिष्ठानम् तु तदामननात्प्राणवता शब्दात् ॥ २-४-१३ ॥ प्राणवता जीवेन सह ज्योतिरादीनाम् अग्न्यादिदेवतानाम् यत्प्राण-विषयमधिष्ठानम् जीवेनाग्न्यादिदेवताभिश्च क्रियमाणम् प्राणकर्मकाधि-ष्ठानम् यत् तत् तदामननात् तस्य परमात्मन आमननात्मसङ्कल्पादेव भवति । *योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरीरम् योऽग्निमन्तरो यमयति*(बृह.५-७-५) *य आत्मनि […]
श्रेष्ठाणुत्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः श्रेष्ठाणुत्वाधिकरणम् ॥ ५ ॥ अणुश्च ॥ २-४-१२ ॥ वाजसनेयके प्राणविद्यायाम् *यद्वाव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैस्समो अनेन सर्वेणे*(बृह.३-३-२२)ति श्रुत्या यथा घटमठीयप्रभा तावन्मात्रव्यापिनी प्रासाददीपप्रभा च प्रासाद-व्यापिनी एवम् मुख्यप्राणोऽपि ब्रह्मादिपिपीलिकान्तशरीरेषु तत्तच्छरीरानु रूपव्याप्तिमत्वेन विभुस्स्यादिति पूर्वः पक्षः । सिद्धान्तस्तु *तमुत्क्रामन्तम् प्राणोऽनूत्क्रामती*(बृह.६-४-२) ति इन्द्रियाणामिव मुख्यप्राणस्यापि उत्क्रान्ति-श्रवणादणुत्वमिति […]
वायुक्रियाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः वायुक्रियाधिकरणम् ॥ ४ ॥ मुख्यः प्राणः किम् वायुमात्रम् उत तदीयस्पन्दनक्रिया उत वायुरेव कञ्चिदवस्थाविशेषमापन्न इति विशये *य: प्राणस्स वायुरि*(बृह.५-१-५-३)ति श्रुतेः वायुमात्रम् प्राणः । अथवा उच्छ्वासनिश्वासात्मकवायु-क्रियाम् प्राणशब्दप्रसिद्धेः क्रिया वा स्यादिति पूर्वपक्षे प्राप्त उच्यते – न वायुक्रिये पृथगुपदेशात् ॥ २-४-८ ॥ *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खम् वायुर्ज्योतिराप* […]
प्राणाणुत्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तुरीयः पादः प्राणाणुत्वाधिकरणम् ॥ ३ ॥ *त ऐते सर्व एव समास्सर्वे अनन्ता*(बृह.३-५-१३) इत्यानन्त्यश्रव-णात् प्राणशब्दितानामिन्द्रियाणाम् विभुत्वमिति पूर्वपक्षे प्राप्त उच्यते – अणवश्च ॥ २-४-६ ॥ *तमुत्क्रामन्तम् प्राणोऽनूत्क्रामती*(बृह.६-४-२)त्यादिनोत्क्रान्ति-श्रवणात् परिमितत्वे सिद्धे उत्क्रान्त्यादौ पार्श्वस्थैरनुपलभ्यमानत्वा-दणवश्च प्राणा भवन्ति । *अथ यो हैताननन्तानुपास्त*(बृह.३-५-१३) इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यनन्तकार्यविशिष्ठतया तदुपासनविधि-परेति मन्तव्यम् । श्रेष्ठश्च ॥ २-४-७ ॥ *आनीदवातम् स्वधया तदेकमि*(ऋग्वेदः […]