प्रमिताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ प्रमिताधिकरणम् ॥६॥   शब्दादेव प्रमितः ॥१–३–२३॥   पूर्वत्र अणीयस्त्वरूपमल्पपरिमाणम् परस्मिन्नुपपादितम् । इदानीमङ्गुष्ठ-मात्रत्वमप्यल्पपरिमाणम् तस्य उपपद्यत इति सङ्गतिः ।   *अङ्गुष्ठमात्रः पुरुषो मद्ध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते*(कठ २-४-१२) । कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुषः उपा-सकशरीरमध्ये अङ्गुष्ठपरिमाणस्सन्नास्ते । ततो भूतभव्येशानत्वादेव वात्सल्या-तिशयाद्देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः । ननु अयम् […]

दहराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ दहराधिकरणम् ॥५॥   पूर्वाधिकरणे *परात्परम् पुरिशयम् पुरुषमीक्षत*(प्रश्न.५-५) इत्युक्तस्य पुरिशयस्य परमात्मत्वम् समर्थितम् इहापि तथैव पुरिशयस्य परमात्मत्वम् समर्थ्यत इति सङ्गतिः ।   छान्दोग्ये – *अथ यदिदमस्मिन् ब्रह्मपुरे दहरम् पुण्डरीकम् वेश्म दहरोऽ–स्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् तद्वाव विजिज्ञासितव्यमि*   (छान्.८-१-१)ति । विद्यान्तरारम्भनिदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्नि-हितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्त्वेन च पुरशब्दिते अस्मिन् […]

ईक्षतिकर्माधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ ईक्षतिकर्माधिकरणम् ॥४॥ प्रश्नोपनिषदि – *अथ हैनम् शैब्यस्सत्यकामः पप्रच्छ*(प्रश्न.५-१) स्पष्टोऽर्थः । *स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमम् वा व स तेन लोकम् जयती*(प्रश्न.५-१)ति, हे भगवान् योऽधिकारी मनुष्याणाम् मध्ये मरणान्तमोङ्कारमभिध्यायति सः कतमम् लोकम् तेन ओङ्कारेण आप्नोतीत्यर्थः । *तस्मै स होवाच एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः तस्मादिद्वाने […]

अक्षराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ अक्षराधिकरणम् ॥ ३ ॥      यथा जीवादूर्ध्वमुपदेशात् भूमा न जीवः, एवम् प्रधानादूर्ध्वमुप-देशादक्षरम् न प्रधानमिति समर्थ्यत इति सङ्गतिः । *वाजसनेयके गार्गिब्राह्मणे – *एतद्वै तदक्षरम् गार्गि*(बृह.५-८-८)। एतदधिकरणचिन्तोपयुक्तविषयाम्शो लिख्यते – *अहम् त्वा द्वाभ्याम् प्रश्नाभ्यामुपोदस्थाम्*(बृह.५-८-२) *गातिस्थे*(अष्टा.२-४-७७)ति सिचो लुक् । *तौ मे ब्रूहीति*(बृह.५-८-२) । याज्ञवल्क्य आह – *पृच्छ गार्गीति*(बृह.५-८-२) । […]

भूमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ भूमाधिकरणम् ॥२॥ मुण्डके परमात्मप्रकरणाविच्छेदेन परमात्मत्वम् साधितम् । तर्हि भूम विद्यायाम् जीवप्रकरणाविच्छेद इति शङ्कया उत्थिता सङ्गतिः । छान्दोग्ये एतदधिकरणविषयाणामर्थ उच्यते । *अधीहि भगव इति होप-ससाद सनत्कुमारम् नारदः । यद्वेत्थ तेन मोपसीदत तस्त ऊर्ध्वम् वक्ष्यामीति* (छान्.७-१-१) – ज्ञाताम्शमुक्त्वा मत्समीपे उपसीद ततश्श्रुत्वा अज्ञाताम्शम् ते वदिष्यामीत्युक्तवानित्यर्थः । *स होवाच […]

द्युभ्वाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ (पे–१) द्युभ्वाद्यधिकरणम् ॥१॥ *यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम् मनस्सह प्राणैश्च सर्वैस्तमेवैकम् जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः*(मुण्ड.२-२-५) यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनः प्राणादिकम् समवेतम्, तमेकमेव  स्वेतरसमस्तवस्तु- नियन्तृत्वेन व्यापकतया आत्मानम् जानीथ अनात्मविषया वाचस्सन्त्यजत । *अमृतस्यैष सेतुः*(मुण्ड.२-२-५) नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः, सम्सारार्णवपारभूतस्य अमृतस्यैष प्रतिलम्भक इत्यर्थः । *अरा इव रथनाभौ सम्हता यत्र नाड्यः स […]

वैश्वानराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ वैश्वानराधिकरणम् ॥६॥   त्रैलोक्यात्मकरूपोपन्यासात् अक्षरवद्वैश्वानरोऽपि परमात्मेति निर्णीयत इति सङ्गतिः ।   छान्दोग्ये *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति*(छान्.५-१८-१) अभिविमानम् – सर्वाभिव्याप्ततया विगतमानम् विश्वेषाम् नराणाम् नेतारम् एतमात्मानम् प्रादेश-मात्रम् – द्युलोकादिप्रदेशसम्बन्धिनी प्रादेशीमात्रा यस्य तम् प्रादेशमात्रम् । द्युप्रभृतिप्रदेश परिच्छिन्नम् य उपास्ते स सर्वलोकसर्वभूतसर्वात्मवृत्तिब्रह्म-रूपमन्नमत्ति । सर्वत्र […]

अदृश्यत्वादिगुणकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अदृश्यत्वादिगुणकाधिकरणम् ॥५॥   मुण्डकोपनिषदि – *शौनको ह वै महाशालोऽङ्गिरसम् विधिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदम् विज्ञातम् भवतीति*(मुण्ड.१-१-३) सर्वोपादानम् किमिति प्रश्नार्थः । *तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति*(मुण्ड.१-१-४) । अत्र प्राप्तुमित्यध्याहारः । अत्र यद्वस्तु प्राप्तुम् द्वे ज्ञाने उपादेये इति ह वेदाभिज्ञाः […]

अन्तर्याम्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अन्तर्याम्यधिकरणम् ॥४॥   *स्थानादिव्यपदेशाच्चे*(ब्र.सू.१-२-१४)तिसूत्रे *यश्चक्षुषि तिष्ठन्नि*(बृह.५-७-१८)त्यादिना उक्तम् चक्षुषि स्थितिनियमनादिकर्म परमात्मधर्म इति सिद्धव-त्कृत्वा अक्षिपुरुषस्य परमात्मधर्मत्वम् साधितम् । तदेवेदानीम् समर्थ्यत इति सङ्गतिः ।   अन्तर्यामिब्राह्मणमस्य विषयः । तत् सङ्गृहा लिख्यते – *अथ हैनमुद्दालक आरुणि: पप्रच्छ*(बृह-५-७-१) अरुणस्यापत्यमारुणिः *याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य गृहेषु यज्ञमधीयानाः*(बृह-५-७-१) । *गृहाः पुम्सि च भूम्न्येव*(अमर […]

अन्तराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अन्तराधिकरणम् ॥३॥   एतदधिकरणचिन्तोपयुक्तम् प्रकरणमेव लिख्यते –   *अथ हाग्नयस्समूदिरे तप्तो ब्रह्मचारी कुशलन्नः पर्यचारीत् हन्तास्मै ब्रह्मा-वोचामे*(छान्.४-१०-४)ति स्पष्टोऽर्थः । *तस्मै होचुः । प्राणो ब्रह्म कम् ब्रह्म खम् ब्रह्मेति । स होवाच विजानाम्यहम् यत् प्राणो ब्रह्म कञ्च तु खञ्च न विजानामीति* (छान्.४-१०-५) अस्यायमभिप्रायः मुमुक्षोर्मोक्षोपदेशाय प्रवृत्तैरग्निभिः ब्रह्मैवोपा- स्यमुपदिष्टम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.