नित्यतनियन्
अवतारत्तनियन् ‘ज्ञेशोपाये’ शकाब्दे विबुधवरहिते सर्वधार्याख्यवर्षे विष्ण्वृक्षे पूर्वपक्षे सवितरि च तुलां सादरं सेवमाने। श्रीमान् लोकार्यवर्यः शुभगुणजलधिः कृष्णपादार्यपुत्रो हस्त्यद्रीशावतार स्समजनि सकलाम्नायसंरक्षणार्थम्॥ :- तिरुमुडि अडैवु (यज्ञना) तुलायां श्रवणे जातं लोकार्यमहमाश्रये। श्रीकृष्णपादतनयं तत्पादाब्जसमाश्रयम्॥ :- तिरुमुडि अडैवु (कंदाडै) यस्य सारस्वतं शास्त्रं दिव्यं वचनभूषणम्। तस्मै हस्तिगिरीशाय श्रीजगद्गुरवे नमः॥ :- उत्तरसूरिचरितम् (संग्रहः) नित्यतनियन् लोकाचार्याय गुरवे कृष्णपादस्य सूनवे। संसारभोगिसंदष्ट जीवजीवातवे नमः॥ :- ईयुण्णि […]
यतिराजमङ्गलम्
यतिराजमङ्गलम् १. रामानुजमुनि र्जीया द्रामप्रियपिता गुरुः। इन्द्रनीलममूल्यं यो यादवाद्रौ व्यदर्शयत्॥ २. ओं नमो नारायणाये त्यनुसन्धानतत्परः। शेषोऽभूद्यो यतीन्द्राय तस्मै स्यान्नित्यमङ्गलम्॥ ३. कलिना तामसे लोके तमोनिर्वापणाय यः। जातो रामानुजब्रध्नः तस्मै स्यान्नित्यमङ्गलम्॥ ४. अहिशैलनिवासाय श्रीनिवासाय शार्ङ्गिणे। शङ्खचक्रप्रदात्रे स्याद्यतिराजाय मङ्गलम्॥ ५. शठारिमुनिवर्यस्य सूक्तिमाधुर्य मादरात्। आस्वाद्य तुष्टचित्ताय यतिराजाय मङ्गलम्॥ ६. सङ्कल्पं यामुनार्यस्य जगदुद्धरणाय यः। पूरयामास तस्मै स्या द्यतिराजाय मङ्गलम्॥ ७. […]
श्रीपादतीर्थश्लोकाः
श्रीमते रामानुजाय नमः श्रीमद्रामानुजाचार्याणां श्रीपादतीर्थश्लोकाः १. कृपामूर्तिस्स्वयं श्रीशकृपाकाङ्क्षी जगद्गुरुः। अस्मान्रामानुजश्श्रीमान्पुनातु स्वाङ्घ्रिवारिभिः॥ २. तमो विवस्वानिव मानसं तमो यः कालयत्यार्द्रमनाश्रितानाम्। जगद्गुरोस्तस्य यतीश्वरस्य पुनातु नः पादसरोरुहोदकम्॥ ३. यत्पादस्मरणान्मर्त्या स्त्यजन्ति भवसाध्वसम्। रामानुजस्य तस्य श्रीपादतीर्थं पुनातु नः॥ ४. यन्नामस्मरणान्नॄणां सर्वसिद्धिर्भवेदिह। पुनातु लक्ष्मणार्यस्य तस्य पादोदकं तु नः॥ ५. रामानुजमहीभृ छ्छ्रीपादप्रस्रुतनिर्झरः। स्नापयन्नात्मनः पापान्पुनातु जगतीतले॥ ६. विशिष्टाद्वैतसिद्धान्तदर्शनेन जनेक्षणम्। उन्मीलितवतस्तस्य पादतीर्थं पुनातु नः॥ ७. […]
श्री कूरेशविजयः
श्री कूरेशविजयः श्रीशैलेशदयापात्रं धीभक्त्यादि गुणार्णवम् । यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ श्रीपराशरभट्टायः श्रीरङ्गेशापुरोहितः । श्रीवत्साकसुतश्रीमान् श्रेयसे मेस्तु भूयसे ॥ श्रीवत्सचिह्नमिश्रेभ्यः नम उक्तिमधीमहे | यदुक्तस्त्रयीकण्ठेयान्ति मङ्गलसूत्रताम् ॥ अर्वाञ्चो यत्पदसरसिजद्वन्द्वभाश्रित्य पूर्च मूर्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः । सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्था घरसम्पन्धादमनुत कथं वर्ण्यते कूरनाथः ॥ : परोपन्यस्तपूर्वपक्ष श्लोका: गायत्री’बोधितत्वात् दशरथतनयस्थ पिताराधितत्वात् । शैरेः कैलासयात्रावतमुदिततयाऽभीष्टसन्तानदानात् । नेत्रेण वन […]
श्रीकूरनाथ पञ्चाशत्
श्रीमते रामानुजाय नमः श्री कूरनाथपञ्चाशत् श्रीशैललक्ष्मणमुने श्चरणाब्जयुग्मं श्रेयस्करं तनुभृता मखिलाघहन्तृ। नत्वा करोमि विबुधावलितुष्टयेऽहं कूराधिपस्तुतिमिमां कुशलप्रदात्रीम्।। -तोताद्रिमठस्थोऽयं श्रीशैल लक्ष्मणमुनिः १. जयजय यतिराज श्रीपदाम्भोजयुग्म प्रसृमरमकरन्दास्वाद लुब्धान्तरङ्ग। जयजय कुमतेभ व्रातहर्यक्ष विद्व न्मणिवर निगमान्ताकल्प कूराधिनाथ।। २. जयति जगति नैजोद्वेलमेधाविशेषा दधिगततमबोध व्यासवृत्त्यर्थजालः। जनित यतिवरेण्य स्वान्तनिस्सीममोदः श्रितजनपरिरक्षादीक्षितः कूरनाथः।। ३. जयति हरिपरत्व स्थापनोद्वेलमोदा दुपनिषदुपगूढा न्न्यायतोऽर्थान्विवृण्वन्। अधरित शिवपारम्यार्थि चोलाधिराजः शमितविमतवाद श्शान्तिमान्कूरनाथः।। ४. भवजलनिधिमग्नोत्तारणे […]
सिद्धान्ततूलिका
॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमते रम्यजामातृमनये नमः ॥ ॥ श्रीमन्महागुरवे नमः ॥ ॥ श्रीमद्वेङ्कटलक्ष्मणार्य सम्यमिने नमः ॥ श्रीमद्वेङ्कटलक्ष्मणार्यसम्यमीन्द्रैः अनुगृहीता सिद्धान्ततूलिका प्रथमः परिच्छेदः वरवरमुनिवरचरणो तरुणसरोजातजठरकमनीयौ । अपि मम शिरस्यकस्मात् करुणापरिणामदापितौ कलये ॥ मुमुक्षोः मोक्षार्थ प्रमाणसारेण प्रमेयसारनिर्णयः कर्तव्यः । तत्र धर्मज्ञसमय एव सारभूतम् प्रमाणम् । स्वतः प्रमाणस्य वेदस्यापि तत्सापेक्षत्वात् । तदुक्त-मापस्तम्बेन – *धर्मज्ञसमयः […]
मुक्तिपदशक्तिवादः
श्रीः श्रीमते रामानुजाय नमः श्रीमते रम्यजामातृमुनये नमः श्रीमद्वेङ्कटलक्ष्मणार्यसंयमिने नमः श्रीमद्वेङ्कटलक्ष्मणार्यसंयमीन्द्रैः अनुगृहीतः मुक्तिपदशक्तिवादः अञ्जनघनमदभञ्जनमपि च कयाचित्सुरञ्जितं कलया। अञ्जनविधुरदृगञ्जनमञ्जनगिरिरञ्जनं भजे भावुकम्।। (1) निजगळवकुळगळन्मधुललितकलालापनिगळितश्रीशम्। करकलितबोधमुद्रं किमपि विनिद्रं समाश्रये भद्रम्।। (2) निगमयुगलसारौ श्रावितौ येन धाम्ना परमपि परतन्त्रं पात्रमेवोपकल्प्य। तदिह निखिलरक्षादीक्षितं नौमि नत्वा वरवरयतिवर्येत्यादिनामाभिलापैः।। (3) कलशजलधिकन्याकान्तवीक्षामृतौघैः अनुकलमभिषिक्तामार्यगोष्ठी विभाव्य। विपुलमिह विचारं मुक्तिशब्दस्य शक्तेः कलयति कुतुकाच्छ्रीशैलयोगीशदासः ॥ (४) अत्र तावन्मुक्तिशब्दशक्तिः विचार्यते। […]
नित्यग्रन्थः-श्री गोविन्दार्य
श्रियै नमः श्रीमते रामानुजाय नमः श्रीमद्गोविन्दार्य महादेशिकाय नमः श्री ऎम्बाराख्यात गोविन्दार्यमहादेशिकविरचित नित्यग्रन्थः रामानुजपदच्छाया गोविन्दाह्वानपायनी। तदा यत्त स्वरूपा सा जीया न्मद्विश्रमस्थली॥ १. अथ वक्ष्ये प्रपन्नानां हरे राराधनक्रमम्। आदौ शौचविधिं कृत्वा स्नानं कृत्वा यथाविधि॥ २. तत्तन्मन्त्रेणोर्ध्वपुण्ड्रान् धारयित्वा विधानतः। नित्यकर्माणि कृत्वाऽथ यागभूमिं प्रविश्य च॥ ३. उपविश्यासने चाथ प्राणानायम्य च त्रिधा। रेचके प्रणवानष्टौ पूरके षोडश क्रमात्॥ ४. द्वात्रिंश त्कुम्भके […]
प्रपत्त्यनुपायत्व विचारः
श्रीमते रामानुजाय नमः श्रीमद्वेदमार्ग प्रतिष्टापनाचार्योभयवेदान्त प्रवर्तन धुरीणराय् . श्रीमत्परमहंस परिव्राजकाचार्य वर्यरान ऎम्बार् जीयर् स्वामि ऎन्नुम् . तिरुवेङ्गडरामानुजस्वामि अरुळिच्चॆय्त प्रपत्त्यनुपायत्व विचारः आत्मना मात्मरक्षार्थ मस्थानभयवारकः। अव्या दव्याजबन्धोर्न स्सेव्य स्सेव्येतरः करः॥ स्थितंताव दनालोचित विशेषाशेषलोकशरण्य श्श्रीनिधिरेव सकलजीव सञ्जीवनोपाय इति निखिल निगम तात्पर्य पर्यवसान भूमिरिति; अथ तन्निष्ठानां तच्चरणशरणवरणमधिकारि विशेषणमात्र मित्यभिधीयते। तदिद मगायि गीताचार्येण-([1]१ गी-१८-६६) “अहंत्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः” इति। अस्य […]
नित्याराधनविधि-श्रीवादिभीकरार्य
श्रियै नमः श्रीमते रामानुजाय नमः श्रीवादिभीकरार्य विरचिता नित्याराधनविधिः १. श्रीमत्त्रयीमकुटदेशिकपादपद्म- भृङ्गायमाणवरदार्यदयैकपात्रम्। तत्सूक्तिलेश विभवात्त समस्ततत्वं भक्त्या भजामि परवादिभयङ्करार्यम्॥ २. वेदान्तदेशिककटाक्ष विवृद्धबोधं कान्तोपयन्तृयमिनः करुणैकपात्रम्। वत्सान्ववाय मनवद्यगुणैरुपेतं भक्त्या भजामि परवादिभयङ्करार्यम्॥ १. प्रातस्स्नात्वा नित्यकर्म कृत्वा पादद्वयं करौ। प्रक्षाल्याचम्य पुरतो विष्णो र्गुरुपरम्पराम्॥ २. ध्यात्वानुमूलमन्त्रं च द्वयं च शरणागतिम्। प्रणम्य दक्षिणे पार्श्वे स्थित स्स्वाचार्यचोदितः॥ ३. आराधने प्रवृत्तोस्मी त्यनुसन्धाय सादरम्। कूर्मादीनिति यत्पद्यं […]