श्रीदशावतारस्तोत्रम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीदशावतारस्तोत्रम् देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ 1 ॥ निर्मग्न श्रुति जाल मार्गण दशा दत्त क्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्द गहनान् यौदन्वतीनामपाम् । निष्प्रत्यूह तरङ्ग रिङ्गण मिथः प्रत्यूढ पाथश्छटा- डोलारोह […]
श्रीहयग्रीवस्तोत्रम्
श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीहयग्रीवस्तोत्रम् ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।। स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैऱऩुविहितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ।। समाहारः साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।। प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा […]
சரமஶ்லோக ப்ரகரணம்
ஸ்ரீ: அழகிய மணவாளப் பெருமாள் நாயனார் அருளிச்செய்த அருளிச்செயல் ரஹஸ்யம் சரமஶ்லோக ப்ரகரணம் அவதாரிகை மூலமந்த்ர சரமஶ்லோக பௌர்வாபர்யம் திருமந்த்ரத்தை நரனுக்கு உபதேஶித்து ( நாச் திரு 2-1 ) நாமமாயிரமேத்த நின்ற நாராயணன் ( சிறிய திருமடல் 74 ) பாரோர் புகழும் வதரியில் நின்றும் ( சிறிய திருமடல் 74 ) வடமதுரையேற வந்து க்ருஷ்ணனான நிலையிலே நரனுடைய அம்ஶமாய். ( பெரியாழ் திரு 1-9-4 ) நம்பிசரணென்று ஶிஷ்யனான […]
திருமந்த்ர ப்ரகரணம்
ஆழ்வார் திருவடிகளே சரணம் எம்பெருமானார் திருவடிகளே சரணம் அழகிய மணவாளப் பெருமாள் நாயனார் திருவடிகளே சரணம் ஜீயர் திருவடிகளே சரணம் அழகியமணவாளப்பெருமாள் நாயனார் அருளிச்செய்த அருளிச்செயல் ரஹஸ்யம் தனியன்கள் த்ராவிடாம்நாயஹ்ருதயம் குருபர்வக்ரமாகதம் | ரம்யஜாமாத்ருதேவேந தர்ஶிதம் க்ருஷ்ணஸூநுநா || தலையானவெட்டெழுத்திற் பிறந்து சரணாகதித்தாய் முலையாரமுதில் வளர்ந்தபிரான் முடும்பைக்கதிபன் மலையார் திருப்புயத்தான் மணவாளன் மலரடிக்கே நிலையான நெஞ்சம் பெற்றேயும்பர் வாழ்வு நிலைபெற்றதே. திருமந்த்ர ப்ரகரணம் அவதாரிகை ஆத்மத்ரைவித்யம் ஒரு கடல்துறையிலே படுகிற முத்துமாணிக்கங்களிலே சில ஒளியை யுடையவாய். சில […]
श्रीमद् भूतपुरीमाहात्म्यम् Part 1
|| भूतपुरी दर्शनम् || Part 1 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) EMPERUMANAR (chithirai – thiruvadhirai) एम्बेरुमानार्, उडैयवर्, श्रीभाष्यकारः भगवद्रामानुजः दर्शनस्थापकाचार्यः–उभयवेदान्तप्रवर्तकाचार्यः उभयविभूतिसाम्राज्यप्रदायकाचार्यः–चतुस्सप्ततिपीठाढचः, पञ्चाचार्यपदाश्रयः मेषार्द्रासम्भवं विष्णोर् दर्शन-स्थापनोत्सवम्। तुण्डीरमण्डले शेष-मूर्तिम् रामानुजं भजे॥ அத்திகிரி அருளாளர் அடிபணிந்தோன் வாழியே அருட்கச்சி நம்பியுரை ஆறுபெற்றோன் வாழியே பத்தியுடன் பாடியத்தைப் பகர்ந்திட்டான் வாழியே பதின்மர்கலை உட்பொருளைப் பரிந்துகற்றான் வாழியே சுத்தமகிழ் மாறனடி தொழுதுய்ந்தோன் வாழியே தொல் பெரிய நம்பி சரண் தோன்றினான் வாழியே சித்திரையில் ஆதிரை நாள் சிறக்க வந்தோன் […]
यादवाद्रिदर्शनम् Part 9
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम् अथ नवमोऽध्यायः दत्तात्रेयकृत पाषण्डनिरसनम् मुनयः – आकर्णितो महाभाग वर्णितो भवता मुने । हरिभक्तापराधेषु परिहारोऽयमद्भुतः ।। (१) दत्तात्रेयो मुनिश्रेष्ठः कथं पापण्डदर्शनम् । निराचक्रे सहाम्नायैः पुरा नारायणाचले ।। (२) पुराणं वा कथं चक्रे तत्र पुण्यं पराशरः । उभयं चैतदाचक्ष्व महत्कौतूहलं हि नः ।। (३) नारदः – काणादशाक्यपाषण्डप्रमुखैर्दुष्टवादिभिः । नष्टं […]
यादवाद्रिदर्शनम् Part 8
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम् अथ षष्ठोऽध्यायः श्रीरामस्य नारायणमूर्तिलाभः मुनयः – उक्तं हि भवता सर्वं भगवन्मुनिपुङ्गव । अस्माकं कर्णयोरासीदमृतस्यन्दिसेचनम् ।। (१) तथाऽप्यस्माकमपरं वक्तुं त्वं किञ्चिदर्हसि । वासुदेवकथां वक्तुं त्वत्तः कोऽन्यो विशारदः ।। (२) नारदः – मुनयः पृच्छताशेषं यद्युष्माकं विवक्षितम् । अविवक्षितवक्तृत्वं विदुषां हि न युज्यते ।। (३) मुनयः – यद्रूपं ब्रह्मणे दत्तं […]
यादवाद्रिदर्शनम् Part 7
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीनारदपुराणान्तर्गत–श्रीमद्यादवागिरिमाहात्म्यम् प्रथमोऽध्यायः व्यासादीनां बदरीस्थ–नारायण–समीपगमनम् एकदा मुनयः सर्वेऽप्यैकान्त्येन व्यवस्थिताः । प्रापुर्नारायणं देवं नरनारायणाश्रमे ।। (१) व्यासो वसिष्ठः कपिलो मार्कण्डेयश्च काश्यपः । अत्रिर्दक्षो भरद्वाजः विश्वामित्रश्च शौनकः ।। (२) गौतमो जमदग्निश्च पुलस्त्यः कुम्भसम्भवः । वाल्मीकिर्वामदेवश्च वैशम्पायनभार्गवौ ।। (३) एते चान्ये च मुनयः सर्वे विष्णुपरायणाः । सर्वे वेदार्थतत्वानां निर्णेतारो युगे युगे […]
यादवाद्रिदर्शनम् Part 6
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीसात्त्वतसंहितान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम् * * * अतः परं प्रवक्ष्यामि भूलोकस्य च विस्तरम् । योजनानामियं पृथ्वी पञ्चाशत्कोटिसंमिता ।। (१) विस्तीर्णा सर्वतो दिक्षु तथा वै कोटियोजना । द्वीपानि सप्त सर्वत्र तावन्तस्तोयराशयः ।। (२) अङ्गुळीयकवत्सर्वे भूमेरुपरि वेष्टिताः । भूभागो मध्यतो जंबूद्वीपमानं कथञ्चन ।। (३) लक्षयोजनविस्तारं सर्वतस्तदनन्तरम् । विस्तारो वारिधेस्तावान् यावद्वीपमनन्तरम् ।। (४) उत्तरोत्तरमेकैकं […]
यादवाद्रिदर्शनम् Part 5
श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीपद्मपुराणान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम् * * * वसिष्ठः – शृणु राजन्प्रवक्ष्यामि प्रभावं माघमासजम् । यमाकर्ण्य नरो भक्त्या सर्वपापैः प्रमुच्यते ।। (१) पुरा राधन्तरे कल्पे वर्तमाने कृते युगे । कुत्सोऽभूत्समुनिः श्रीमान् ब्रह्मसूनुरकल्मषः ।। (२) स कर्दममुतां कन्याम् उपयेमे विधानतः । तस्याञ्च तस्य पुत्रोऽभूत् कौत्सो वंशविवर्धनः ।। (३) पश्चमेऽब्दे पिता तस्य कुत्सो ब्रह्मोपदिष्टवान् । […]