याज्ञवल्क्यस्मृतिः आचाराध्यायः ब्रह्मचारिप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः ब्रह्मचारिप्रकरणम् ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । । गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । । अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । । एवं एनः शमं याति बीजगर्भसमुद्भवम् […]

याज्ञवल्क्यस्मृतिः आचाराध्यायः उपोद्घातप्रकरणम्

याज्ञवल्क्यस्मृतिः आचाराध्यायः उपोद्घातप्रकरणम् योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः । । १.१ । । मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत । । १.२ । । पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३ । । मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४ । । […]

पराशरस्मृतिः द्वादशोध्यायः

पराशरस्मृतिः द्वादशोध्यायः दुःस्वप्नं यदि पश्येत्तु वान्ते तु क्षुरकर्मणि । मैथुने प्रेतधूमे च स्नानं एव विधीयते ।। १२.१ ।। अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टं एव च । पुनः संस्कारं अर्हन्ति त्रयो वर्णा द्विजातयः ।। १२.२ ।। अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च । निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ।। १२.३ ।। विण्मूत्रभोजी शुध्यर्थं प्राजापत्यं समाचरेत् । पञ्चगव्यं च कुर्वीत […]

पराशरस्मृतिः एकादशोध्यायः

पराशरस्मृतिः एकादशोध्यायः अमेध्यरेतो गोमांसं चण्डालान्नं अथापि वा । यदि भुक्तं तु विप्रेण कृच्छ्रं चान्द्रायणं चरेत् ।। ११.१ ।। तथैव क्षत्रियो वैश्योऽप्यर्धं चान्द्रायणं चरेत् । शूद्रोऽप्येवं यदा भुङ्क्ते प्राजापत्यं समाचरेत् ।। ११.२ ।। पञ्चगव्यं पिबेच्छूद्रो ब्रह्मकूर्चं पिबेद्द्विजः । एकद्वित्रिचतुर्गा वा दद्याद्विप्राद्यनुक्रमात् ।। ११.३ ।। शूद्रान्नं सूतकान्नं च अभोज्यस्यान्नं एव च । शङ्कितं प्रतिषिद्धान्नं पूर्वोच्छिष्टं तथैव च […]

पराशरस्मृतिः दशमोध्यायः

पराशरस्मृतिः दशमोध्यायः चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् । अगम्या गमने चैव शुद्ध्यै चान्द्रायणं चरेत् ।। १०.१ ।। एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत् । अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः ।। १०.२ ।। कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् । अन्याथा भावदोषेण न धर्मो न च शुध्यति ।। १०.३ ।। प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्रह्मणभोजनम् । गोद्वयं वस्त्रयुग्मं […]

पराशरस्मृतिः नवमोध्यायः

पराशरस्मृतिः नवमोध्यायः गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तद्वधं तु न तं विद्यात्कामाकामकृतं तथा ।। ९.१ ।। दण्डादूर्ध्वं यदन्येन प्रहाराद्यदि पातयेत् । प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ।। ९.२ ।। रोधबन्धनयोक्त्राणि घातश्चेति चतुर्विधम् । एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ।। ९.३ ।। योक्त्रेषु पादहीनं स्याच्चरेत्सर्वं निपातने । गोवाटे वा गृहे वापि दुर्गे वाप्यसमस्थले ।। […]

पराशरस्मृतिः अष्टमोध्यायः

पराशरस्मृतिः अष्टमोध्यायः गवां बन्धनयोक्त्रेषु भवेन्मृत्युरकामतः । अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ।। ८.१ ।। वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् । स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ।। ८.२ ।। सावित्र्याश्चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः । अज्ञानात्कृषिकर्तारो ब्राह्मणा नामधारकाः ।। ८.३ ।। अव्रतानां अमन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ।। ८.४ ।। यद्वदन्ति तमोमूढा मूर्खा धर्मं अतद्विदः । तत्पापं शतधा भूत्वा […]

पराशरस्मृतिः सप्तमोध्यायः

पराशरस्मृतिः सप्तमोध्यायः अथातो द्रव्यशुद्धिस्तु पराशरवचो यथा । दारवाणां पात्राणां तक्षणाच्छुद्धिरिष्यते ।। ७.१ ।। भस्मना शुध्यते कांस्यं ताम्रमम्लेन शुध्यति । रजसा शुध्यते नारी विकलं या न गच्छति ।। ७.२ ।। नदी वेगेन शुध्येत लोपो यदि न दृश्यते । वापीकूपतडागेषु दूषितेषु कथंचन ।। ७.३ ।। उद्धृत्य वै घटशतं पञ्चगव्येन शुध्यति । अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ।। […]

पराशरस्मृतिः षष्ठोध्यायः

पराशरस्मृतिः षष्ठोध्यायः अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । पराशरेन पूर्वोक्ता मन्वर्थेऽपि च विस्तृतां ।। ६.१ ।। क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम् । जालपादं च शरभं अहोरात्रेण शुध्यति ।। ६.२ ।। बलाकाटिट्टिभौ वापि शुकपारावतावपि । अहिनक्रविघाती च शुध्यते नक्तभोजनात् ।। ६.३ ।। वृककाककपोतानां शारितित्तिरिघातकः । अन्तर्जल उभे संध्ये प्राणायामेन शुध्यति ।। ६.४ ।। गृध्रश्येनशशादानां उलूकस्य च घातकः […]

पराशरस्मृतिः पञ्चमोध्यायः

पराशरस्मृतिः पञ्चमोध्यायः वृकश्वानसृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः । स्नात्वा जपेत्स गायत्रीं पवित्रां वेदमातरं ।। ५.१ ।। गवां शृङ्गोदकैः स्नानं महानद्योस्तु संगमे । समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ।। ५.२ ।। वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि । स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति ।। ५.३ ।। सव्रतस्तु शुना दष्टो यस्त्रिरात्रं उपावसेत् । घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ।। ५.४ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.