सिद्धधर्मविजयमङ्गलदीपिका

NOTE: This is unpublished till date and brought out from a manuscript, here Page # are kept the same as in the manuscript for easy checking. There are few missing words and words that are not clear in the original, kindly request learned community to highlight the same and write to me at ayeenarasimhan @ […]

111 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायामुत्तरकाण्डे एकादशोचरशततमः सर्गः वाल्मीकिना श्रीरामायणस्यवेदसमत्वोक्तिपूर्वकं तत्पठनादेः फलनिरूपणम् ॥ १ ॥ एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ १ ॥ अस्य काव्यस्य अपवर्गान्तसाधकतया कथाशेषानुवादपूर्वकं पठनश्रवणादिषु फलमुपदिश्यते – एतावदित्यादि । सोत्तरंउत्तरकाण्डसहितं । मुख्यं सर्वाख्यानेभ्यः प्रशस्तमेतदाख्यानं । एतावदेव समर्यादं एतावच्छ्लोकसर्गकाण्डसंख्याकमेव । न न्यूनं नाधिकं ॥ १ ॥   ततः प्रतिष्ठितो विष्णुः […]

110 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः श्री रामेण सकलजनैः सहस्वलोकगमनाय सरयूगमनम् ॥ १ ॥ तथा तत्रागतचतुर्मुखप्रार्थनया वैष्णवतेजःप्रवेशनम् ॥ २॥ तथा स्वान्वागतानांजनानां चतुर्मुखद्वारा सांतानिकलोकप्रापणम् ॥ ३ ॥ वानरादिभिश्चसह सरय्वामवगाहनेनस्वलोकगमनम् ॥ ४ ॥ अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ १ ॥ तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ २ ॥ […]

109 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः प्रभातेश्रीरामेण वसिष्ठेनमाहाप्रास्थानिकविधिविधापनपूर्वकं विमलसूक्ष्माम्बरधारिणा कुशपाणिना श्रीभूदेवीविभूषितपार्श्वयुगेन पुरुषवेषधारिभिर्वेदायुधाद्यभिमानिदेवैः ऋष्यादिभिश्चानुगम्यमानेन च सता नियमात्पादचारेण निजपरमपदजिगमिषयानिजगृहान्नि -र्गमनम् ॥ १ ॥ रामस्यमहाप्रस्थानसमयेसस्त्रीबालवृद्धैः सकलजनैः खगमृगनगतृणादिप्राणिगणै -रपि परमपदजिगमिषयाहर्षात्तदनुसरणम् ॥ २ ॥ प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥ अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः । वाजपेयातपत्रं च शोभमानं महापथे ॥ २ ॥ वाजपेयातपत्रं […]

108 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टोत्तरशततमः सर्गः दूतमुखापरलोकगमनोद्यमादिरामवृत्तान्तमवगतवताशत्रुघ्नेन पुत्रद्वयस्वराज्यद्वयेऽ -भिषेचनपूर्वकमयोध्यामेत्यरामंप्रति सप्रणामंस्वस्यानुगमनाभ्यनुज्ञानप्रार्थने रामेणतदनुज्ञानम् ॥ १ ॥ सुग्रीवेणाङ्गदस्य राज्येऽभिषेचनपूर्वकमृक्षवानरादिभिः सहाभिवादन पूर्वक रामंप्रतिसानुचरस्यस्वस्यतदनुगमनाङ्गीकरणप्रार्थनेतेनतदङ्गीकरणम् ॥ २ ॥ रामेण हनुमद्विभीषणौप्रति धरण्यामाचन्द्रार्कावस्थानचोदनपूर्वकं मैन्दद्विविदजाम्बवतां मे दिन्यांचिरावस्थानचोदना ।। ३ ।। ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं च नाध्वनि ॥ १ ॥ ते तुं त्रिभिरहोरात्रैः संप्राप्य मधुरामथ । शत्रुघ्नाय यथातत्वमाचख्युः सर्वमेव तत् […]

107 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तोत्तरशततमः सर्गः परिषदोमध्येऽद्यभरतं राज्येभिषिच्याहंवनंगच्छामीतिश्रीरामवचनम् ॥ १ ॥ तच्छ्रवणेन भरतेन राज्यगर्हणपूर्वकं कोशलेषुकुशं उत्तरकोसलेषुलवमभिषिच्यतामितिकथनम् ॥ २ ॥ ततोवसिष्ठवचनात्तथाकुशलवयोरभिषेकः ॥ ३ ॥ ततः शत्रुघ्नंप्रति श्रीरामेणदूतप्रेषणम् ॥ ४ ॥ विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांवेदमब्रवीत् ॥ १ ॥ अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ २ ॥ भरतमयोध्याधिपतिमभिषेक्ष्यामीति […]

106 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडुत्तरशततमः सर्गः सौमित्रिणा रामंप्रति स्वहननेनस्वप्रतिज्ञापालनकरणनिवेदने तेनतंप्रति त्यागस्यवध -प्रतिनिधित्वकथनेन तत्त्यागः ॥ १ ॥ सौमित्रिणा स्वगृहाप्रवेशेनैव सरयूनद्यामवगाहनेन स्वर्गगमनम् ॥ २ ॥ अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ १ ॥ आप्लुतं राहुग्रस्तं । हृष्ट इति । सुमन्त्रवाक्यतः पूर्वमेव रामेण स्वपरित्यागस्यावगतत्वाद -विषाद इत्यर्थः ॥ १ ॥ न संतापं महाबाहो मदर्थं […]

105 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः रामरुसंवादसमये रामदर्शनार्थं दुर्वाससः समागमे शापदानभीत्यारामेतदागमन निवेदनम् ॥ १ ॥ रुद्रविसर्जनपूर्वकं स्वदर्शनार्थमागतं रामंप्रति दुर्वाससा बुभुक्षापरिहारायअन्नयाचने तेनतस्मै तत्कालसिद्धान्नदानम् ॥ २ ॥ प्रतिगतेचदुर्वाससि रामेणरुद्रचोदनया स्वकृतप्रतिज्ञा -स्मरणेन दुःखाधिगमः ॥ ३ ॥ तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ १ ॥ सोभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मेऽर्थोतिवर्तते […]

104 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः रुद्रेण रामंप्रति तस्यजगत्सृष्ट्यादिकर्तृत्वगुणवर्णनपूर्वकं रामावतारप्रयोजनभूतरावणवध -स्य निर्वृत्तत्वोक्तिपूर्वकस्वावासप्रतिनिवर्तनप्रार्थनारूपचतुर्मुखसंदेशनिवेदने तेनतदभ्युपगमः ॥ १ ॥ शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितोस्मि महाबल ।। १ ॥ येन संदेशः कृतः स पितामह एवेत्याह – पितामहेनेति ॥ १ ॥   तवाहं पूर्वसद्भावे पुत्रः परपुरंजय । मायासंभावितो वीर कालः सर्वसमाहरः ॥ २ ॥ अहं च न तापसः […]

103 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः कदाचनतापसरूपिणारुद्रेण राममेत्य रहस्यवृत्तान्तकथनायस्वागमनस्यनिवेदने रामेण तच्चोदनयामन्त्रणसमये तच्छ्रोतुस्तयोर्निरीक्षमाणस्य च स्वेनहननप्रतिज्ञाकरणेन सौमित्रेर्द्वार -रक्षकत्वेनस्थापनपूर्वक तंप्रतिरहस्यकथनचोदना ॥ १ ॥ कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥ सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् । मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥ कालस्य कस्यचित् गमनानन्तरमिति शेषः ।। १-२ ।।   दूतोस्म्यतिबलस्याहं महर्षेरमितौजसः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.