77 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः अगस्त्येनरामंप्रतिस्वस्यदिव्याभरणलाभप्रकारकथनायश्वेतराजोपाख्यानकथनारंभः ॥ १ ॥ पुरा त्रेतायुगे राम ह्यरण्यं बहुविस्तरम् । समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥ पुरेत्यादि । पुरा त्रेतायुगे पूर्वचतुर्युगवर्तित्रेतायुगे । बहुविस्तरं बहुविस्तारम् । पक्षिवर्जितमिति । अरण्यं अभूदिति शेषः ॥ १ ॥ तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ।। २ ।। तस्मिन्नरण्ये तदेकदेशे । तपः कुर्वाणोऽहं […]
76 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्सप्ततितमः सर्गः सशरीरतया देवत्वप्राप्तयेतपस्यता शंबुकनाम्नाशूद्रेण रामंप्रति स्वीयवर्णविशेषस्य स्वीयतपः फलकामनायाश्चनिवेदने रामेण तच्छिरश्छेदनम् ॥ १ ॥ शंबुकवधहृष्टैरिन्द्रादिभिः राममेत्य सप्रशंसनं वरवरणचोदनेरामेण तान्प्रतिमृतब्राह्मणबालस्यपुनर्जीवितलाभवरणम् ॥ २ ॥ तैःरामंप्रतिशूद्रशिरश्छेदसमकालमेवविप्रबालस्य पुनर्जीवितलाभनिवेदनपूर्वक मगस्त्याश्रम -गमनम् ॥ ३ ॥ रामेणाप्यगस्त्याश्रममेत्य तत्प्रणामपूर्वकं तदीयातिथ्यस्वीकरणम् ॥ ४ ॥ अगस्त्येनरामप्रशंसनपूर्वकं तस्मै दिव्याभरणसमर्पणेरामेणतंप्र तितस्यतदाभरणलाभ -प्रकारप्रश्नः ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथा भूत्वा वाक्यमेतदुवाच […]
75 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः नारदवचन श्रवणहृष्टेनरामेण लक्ष्मणंप्रतिब्राह्मणबालककलेबरस्यतैलद्रोण्यांनिधापनेन -रक्षणचोदनपूर्वकं स्मरणमात्रसंनिहितपुष्पक विमानारोहणेनक्रमेण प्रतीच्यादिदिक्चतुष्टये दुष्कृतकारिणोऽन्वेषणं ॥ १ ॥ दक्षिणस्यांदिशि शैवलशैलोत्तरपार्श्ववर्तिसरस्तीरेअधोमूर्धतया -तपस्यतः कस्यचिदवलोकनम् ॥ २ ॥ तथातंप्रतितदीयवर्णस्य तदभिलषिततपः फलस्यचप्रश्नः ॥ ३ ॥ नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं तदा । प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ १ ॥ गच्छ सौम्य द्विज श्रेष्ठं समाश्वासय सुव्रतम् । बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय […]
74 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुःसप्ततितमः सर्गः मृतपुत्रकब्राह्मणरोदनरवश्राविणारामेणवसिष्ठाद्यानयनपूर्वकं तान्प्रतिबालमरणकारण -प्रश्नः ॥ १ ॥ तत्रनारदेनरामंप्रतियुगचतुष्टयसंबन्धिचातुर्वर्ण्यधर्मनिरूपणपूर्वकं येनकेनापिस्ववर्ण -विरुद्धधर्माचरणेतस्य एतादृशाकालमरणादि रूपानर्थहेतुत्वोत्या प्रकृते तादृशविरुद्धधर्मा -चरणरतस्यकस्याप्यन्वेषणेनतद्दण्डनेसतिमृतबालकस्य पुनरुज्जीवनोक्तिः ॥ २ ॥ तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ १ ॥ स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सहनैगमान् ॥ २ ॥ ततो द्विजा वसिष्ठेन […]
73 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमःसर्गः कदाचनकेनचिज्जनपदवासिनावृद्धद्विजेन मृतपुत्रादानेन राजद्वारमेत्य निजबालपुत्रमृतेः राजदोषमूलकत्वाक्रोशनपूर्वकं दुःखादुच्चैरोदनम् ॥ १ ॥ प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥ ततः कतिपयाहस्सु वृद्धो जानपदो द्विजः । मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥ अथ मृतबालकब्राह्मणस्य राजद्वारि विलापः- प्रस्थाप्येत्यादि ॥ १-२ ॥ रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः । असकृत्पुत्र […]
72 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमःसर्गः वाल्मीक्यभ्यनुज्ञयाऽयोध्यांगतेनशत्रुघ्नेन श्रीरामंप्रति साभिवादनं लवणमारणादिवि -षयकतदाज्ञापरिपालननिवेदनम् ॥ १ ॥ श्रीरामेण स्ववियोगासहिष्णुतया पुनर्मधुरागमनमन -भिरोचयमानस्यशत्रुघ्नस्य ससान्त्वनं पुनर्मधुरानगरप्रेषणम् ॥ २ ॥ तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा । चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ १ ॥ तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् । श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥ तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकक्रमम् । उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् […]
71 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकसप्ततितमः सर्गः श्रीरामदिदृक्षयाऽयोध्यांप्रतिप्रस्थितवताशत्रुघ्नेन मार्गवशाद्वाल्मीक्याश्रममेत्य तदभिवादनम् ॥ १ ॥ वाल्मीकिना तंप्रति लवणमारणप्रशंसनपूर्वकं तम्मूर्धाघ्राणनेन सपरिवारस्यतस्यातिथ्यकरणम् ॥ २ ॥ भुक्त्वा सुखोपविष्टेनसपरिवारेण शत्रुघ्नेनाश्रमान्तरे कुशलवकृताद्भुततर श्रीरामायणगानश्रवणम् ॥ ३ ॥ तच्छ्रवणविस्मितपरिजनैस्तत्तत्वजिज्ञासया वाल्मीकिंप्रति तत्प्रश्नंप्रार्थितेनशत्रुघ्नेन तान्प्रति तस्यानौचित्यकथनेन वाल्मीक्यनुज्ञया स्वावासगमनम् ॥ ४ ॥ ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥ ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । […]
70 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः शत्रुघ्नेन लवणासुरेहते देवैः शत्रुघ्नप्रशंसनपूर्वकं तस्मैवरदानेन स्वावासगमनम् ॥ १ ॥ मधुपुर्यांप्रजापालनंकृतवताशत्रुघ्नेन द्वादशेवर्षे श्रीरामदिदृक्षया अयोध्यागमननिर्धारणम् ॥ २ ॥ हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ १ ॥ दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ २ ॥ वरदास्तु महावाहो सर्व […]
69 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः शत्रुघ्नेन युद्धे लवणासुरवधः ॥ १ ॥ तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥ पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाप्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ २ ॥ तमाह्वयन्तं सौमित्रिर्लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥ न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया । तदद्य […]
68 Sarga उत्तरकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमःसर्गः लवणासुरे आहारसंपादनायनगराद्बहिर्गतेसति शत्रुघ्नेन धनुष्पाणिनासता नगरद्वार्यवस्थानम् ।। १ ।। आहारादानेन पुनरागतंलवणंमति युद्धायाह्वानम् ।। २ ।। लवणेनायुधा -नयनावधिविलंबयाचने शत्रुघ्नेन तदनङ्गीकारः ॥ ३ ॥ कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ १ ॥ ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ २ ॥ एतस्मिन्नन्तरे […]