तत्त्वमुक्ताकलापः अद्रव्यसरः
श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः ॥ अथ अद्रव्यसरः पञ्चमः ॥ ५ ॥) तत्तद्द्रव्येषु दृष्टं नियतिमदपृथक्सिद्धमद्रव्यजातं तद्वद्विश्वं परस्य व्यवधिनियमनान्न स्वरूपेऽस्य दोषः । इत्थं निर्धार्य भाव्ये भगवति विविधोदाहृतिव्यक्तिसिद्ध्यै निर्बाधान् द्रव्यधर्मान्निरनुगतिगलद्दुर्नयान्निर्णयामः ॥ १ ॥ व्याख्यातं द्रव्यषट्कं व्यतिभिदुरमथाद्रव्यचिन्ताऽस्य सत्ताधीभेदादेः पुरोक्ता निजगदुरनुपादानतां तस्य लक्ष्म । द्रव्यादत्यन्तभिन्नं त्विदमनुपधिकं तद्विशिंष्यात् स्वभावात् दृष्टे न ह्यस्त्ययुक्तं न कथमितरथा विश्वतत्त्वापलापः ॥ २ ॥ अद्रव्यं द्रव्यसिद्धौ तदुपहिततया तच्च लक्ष्येत […]
तत्त्वमुक्ताकलापः बुद्धिसरः
श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः ॥ अथ बुद्धिसरः चतुर्थः ॥ ४ ॥ धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धिलक्ष्मादिधीवद्यद्वा सर्वज्ञधीवन्न स मतियुगवान्नापि चैकोनवेदी । नो चेद्धारामतौ सा प्रथममपि सती नावबुद्धेति धीः स्यात् स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनीत्या ॥ १ ॥ स्मृत्या शब्दानुमानप्रभृतिभिरपि धीर्वेद्यते स्वप्रकाशा धीत्वादेस्तामवेद्यामनुपधि वदतः स्वोक्तिबाधादयः स्युः । वेद्यत्वे सा जडा स्यादिति च विहतिमद्व्याप्तिभङ्गश्च नो चेच्छिष्याचार्यादिसर्वव्यवहृतिविरहाज्जातमौनं जगत्स्यात् ॥ २ ॥ बुद्धेरर्थप्रकाशादनुमितिरिति चेत्तन्न साध्याविशेषात् साध्याद्भेदेऽपि […]
तत्त्वमुक्ताकलापः नायकसरः
श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः नायकसरः तृतीयः ॥ ३ ॥ व्याप्त्याद्यव्याकुलाभिः श्रुतिभिरधिगतो विश्वनेता स विश्वं क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् । रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः स्वेच्छा(यां)तस्सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥ अप्रत्यक्षः परात्मा तदिह न घटते धातुरध्यक्षबाधो योग्यादृष्टेरभावान्न खलु न भवता स्वीकृतः स्वेतरात्मा । तस्मिन्देहानपेक्षे श्रुतिभिर(धिगते)वसिते देहबाधान्न बाधो वेदेभ्यो नानुमानं न च पुरुषवचस्तिष्ठते बद्धवैरम् ॥ २ ॥ वाच्यत्वं वेद्यतां […]
तत्त्वमुक्ताकलापः जीवसरः
श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः जीवसरः द्वितीयः ॥ २ ॥ यो मे हस्तादिवर्ष्मेत्यवयवनिवहाद्भाति भिन्नस्स एकः प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जातः । तत्सङ्घातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात् सङ्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥ १ ॥ स्याद्वाऽसौ चर्मदृष्टेरयमहमिति धीर्देह एवात्मजुष्टे निष्टप्ते लोहपिण्डे हुतवहमतिवद्भेदकाख्यातिमूला । श्रुत्यर्थापत्तिभिश्च श्रुतिभिरपि च नस्सर्वदोषोज्झिताभिः देही देहान्तराप्तिक्षम इह विदितस्संविदानन्दरूपः ॥ २ ॥ बाह्याक्षेभ्योऽन्य आत्मा तदखिलविषयप्रत्यभिज्ञातुरैक्यात् कर्तुः स्मृत्यादिकार्ये […]
तत्त्वमुक्ताकलापः जडद्रव्यसरः
श्रीमन्निगमान्तमहादेशिकविरचितः तत्त्वमुक्ताकलापः जडद्रव्यसरः श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनालीकरि(ङ्ग)ङ्खन्मधुकरपटलीदत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुलसीदामसंजातभूमा कालिन्दीकान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥ नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्त्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥ २ ॥ प्रज्ञासूच्याऽनुविद्धः क्षतिमनधिगतः कर्कशात्तर्कशाणाच्छुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः । आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यो हेतुर्जयादेः स्वहृदि सहृदयैस्तत्त्वमुक्ताकलापः ॥ […]
सिद्धित्रये संवित्सिद्धिः
श्रीमते रामानुजाय नमः परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते, सिद्धित्रये संवित्सिद्धिः ( अद्वितीयश्रुत्यर्थविचारः ) 3.1 एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः । ब्रह्मणोऽन्यस्य सद्भावं ननु तत्प्रतिषेधति ।। 3.2 अत्र ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः । किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ।। ( परमते अत्र तत्पुरुषायोगः ) 3.3 पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते । पदार्थस्तत्र तद्ब्रह्म ततोऽन्यत्सदृशं तु वा ।। 3.4 तद्विरुद्धमथो वा स्यात्रिष्वप्यन्यन्न बाधते । अन्यत्वे सदृशत्वे […]
सिद्धित्रये ईश्वरसिद्धिः
श्रीमते रामानुजाय नमः परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते, सिद्धित्रये ईश्वरसिद्धिः 2.1 तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ।। (लाौकिकप्रत्यक्षस्येश्वरासाधकत्वं ) 2.2 व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ।। ( योगिप्रत्यक्षसामान्यस्यासाधकत्वम् ) 2.3 प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ।। ( तार्किकवादः) 2.4 नन्वेकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनारब्धत्वादरोगस्य शरीरवत् […]
सिद्धित्रये आत्मसिद्धिः
श्रीमते रामानुजाय नमः परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते, सिद्धित्रये आत्मसिद्धिः ।। यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।। प्रकृतिपुरुषकालव्यक्तमुक्ता: यदिच्छामनुविदधति नित्यं नित्यसिद्धैरनेकैः | स्वपरिचरणभोगैः श्रीमति प्रीयमाणे भवतु मम परस्मिन् पूरुषे भक्तिभूमा ।। विरुरु द्धमतयोऽनेकाः सन्त्यात्मपरमात्मनोः। अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ।। (जीवात्म निरूपणं ) देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः। नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ।। (देहातिरिक्तत्वसिद्धान्तः ) 1.4 अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः । न खल्वहमिदङ्कारावेकस्यैकत्र […]
नित्यग्रन्थ:-भगवद्रामानुज
नित्यग्रन्थ: श्रीमते रामानुजाय नम: तस्मै रामानुजार्याय नमः परमयोगिने | यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् || श्रीभगवद्रामानुजविरचित: नित्यग्रन्थ: (भगवदाराधनप्रयोगात्मकः) अथ परमैकान्तिनो भगवदाराधनं वक्ष्ये ॥ 1 || भगवत्कैङ्कर्यैकरति: परमैकान्ती भूत्वा, भगवानेव, स्वशेषभूतेन मया, स्वकीयैरेव कल्याणतमैरौपचारिकसांस्पर्शिकाभ्यवहारिकैः भोगैः, अखिलपरिजनपरिच्छदान्वितं स्वात्मानं प्रीतं कारयितुमुपक्रमते – इत्यनुसन्धाय, (स्नानादि) तीर्थं गत्वा, शुचौ देशे पादौ प्रक्षाल्य, आचम्य, तीरं संशोध्य, शुचौ देशे मूलमन्त्रेण मृदमादाय, द्विधा कृत्वा शोधिततीरे […]
मनुस्मृतिः द्वादशोऽध्यायः
मनुस्मृतिः अथ द्वादशोऽध्यायः (कर्मफलम्, जीवगतिः.मोक्षफलककर्मणि च) 12.1 चातुर्वर्ण्यस्य कृत्स्नो ‘अयम् उक्तो धर्मस् त्वयानघः । कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ।। 12.1 चातुर्वर्ण्यस्य कृत्स्नो ‘अयम् उक्तो धर्मस् त्वयानघः । कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ।। 12.2 स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ।। 12.2 स तान् उवाच […]