श्री भगवद् गुण दर्पण: 101-200
श्री भगवद् गुण दर्पण: 101-200(Continued) 11.101 अच्युतः *101 द्वितीयशतकप्रारंभः (320,557). तेभ्यः प्रपन्नेभ्यः न अपगतः अच्युतः । “यस्मात् न च्युतपूर्वोऽहम् अच्युतः तेन कर्मणा । ” “तस्याहं न प्रणश्यामि” (गीता. 6.30) “न त्यजेयं कथञ्चन” इति ।। (राम.यु,18.3) [नि.101. भक्तेभ्योऽच्युतपूर्वत्वात् अच्युतः परिकीर्तितः । आश्रितानां च्युतिः यस्मात् मास्ति सः अच्युत ईरितः ।।] 11.102 वृषाकपिः *102 अच्युतमेव […]
श्री भगवद् गुण दर्पण: 1-100
श्री भगवद् गुण दर्पण: (1-100) श्री विष्णुसहस्रनामभाष्ये प्रथमशतकप्रारंभ: अथ पञ्चसिद्धान्तनिष्ठानिर्णयेन पर-व्यूह-विभवविशेषेषु स्वनाम अर्थ प्रकरण- औचित्य- अपौनरुक्त्य- प्रभूतिभिः न्यायैः व्यवस्थाप्य, व्याकरण निरुक्त- आर्ष- निर्वचनप्रस्थानेन नामानि निरुच्यन्ते। 1.1 विश्वम् *1 1. तत्र पूर्वं सर्वतोमुखं भगवतः पूर्णत्वमाह– विश्वम् इति । विशति अवयवान् इत्यर्थे “अशुप्रुषि लटिकणि खटि विशिभ्यः क्वन्” इति क्वन् प्रत्ययः । (उणा.पा.-1.157) । यथा […]
श्रीरङ्गराजस्तवे उत्तरशतकम्
श्रीपराशरभट्टार्यरनुगृहीते ॥ श्रीरङ्गराजस्तवे उत्तरशतकम् ।। श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥ हर्तुं तमस्सदसती च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददाति । तेनावलोक्य कृतिनः परिभुञ्जते तं तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १ ॥ या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कृदृष्टयस्ताः । आगस्कृतां रङ्गनिधे ! त्वदध्वन्यन्धङ्करण्यः स्मृतवान् मनुस्तत् ॥ २ ॥ प्रत्यक्षप्रमथनपश्यतोहरत्वान्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म । दुस्तर्कप्रभवतया च वक्तृदोषस्पृष्ट्या च प्रजहति […]
श्रीरङ्गराजस्तवे पूर्वशतकम्
श्रीपराशरभट्टाचैरनुगृहीते ।। श्रीरङ्गराजस्तवे पूर्वशतकम् ।। श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १ ॥ रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी । तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २ ॥ रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः । कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३ ॥ विधाय वैदिकं मार्गमकौतस्कुतकण्टकम् । नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४ ॥ नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे । वैराग्यभगवत्तत्वज्ञानभक्त्यभिवर्षुकम् ॥ […]
अतिमानुषस्तवः
श्रीवत्सचिह्नमिश्रैरनुगृहीतः ।। अतिमानुषस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ अतिमानुषशीलवृत्तवेषैः अतिवृत्तामरविक्रमप्रतापैः । अतिलङ्घितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १ ॥ श्रेयः किरन्तु किरणाश्चरणारविन्दनिष्यन्दमानमकरन्दरसौघदेश्याः । तज्जाः श्रुतेर्मधुन उत्स इति प्रतीताः मङ्गल्यरङ्गनिलयस्य परस्य धाम्नः ॥ २ ॥ श्रीमत्पराङ्कुशमुनीन्द्रमनोनिवासात् तज्जानुरागरसमज्जनं अञ्जसाऽऽप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजं उन्नयामः ॥ ३ ॥ वज्रध्वजाङ्कुशसुधाकलशातपत्रपङ्केरुहाङ्कपरिकर्मपरीतमन्तः । आपादपङ्कजविशृङ्खलदीप्रमौलेः श्रीरङ्गिणश्चरणयोर्युगं आश्रयामः ॥ ४ ॥ श्रीरङ्गराजचरणौ प्रणुमो […]
सुन्दरबाहुस्तवः
श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥सुन्दरबाहुस्तवः॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ श्रीमन्तौ हरिचरणौ समाश्रितोऽहं श्रीरामावरजमुनीन्द्रलब्धबोधः । निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये तच्चरणविलोकनाभिलाषी ॥ १ ॥ सुन्दरायतभुजं भहामहे वृक्षषण्डमयमद्रिं आश्रितम् । यत्र सुप्रथितनूपुरापगातीर्थं अर्थितफलप्रदं विदुः ॥ २ ॥ क्वचित् त्वरितगामिनी क्वचन मन्दमन्दालसा क्वचित् स्खलितविह्वला क्वचन फेनिला सारवा । पतन्त्यपि किल क्वचित् व्रजति नूपुराह्वा नदी सुसुन्दरभुजाह्वयं मधु निपीय मत्ता […]
श्रीवैकुण्ठस्तवः
श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥ श्रीवैकुण्ठस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १ ॥ त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् । यद्वा शरण्यं अशरण्यजनस्य पुण्यं तत् संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ २ ॥ भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्थरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ ३ ॥ यन्मङ्गलाय महते जगतामुशन्ति त्रैविष्टपान्यपि […]
वरदराजस्तवः
श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥ वरदराजस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ स्वस्ति हस्तिगिरिमस्तशेखरः सन्तनोतु मयि सन्ततं हरिः । निस्समाभ्यधिकमभ्यधत्त यं देवमौपनिषदी सरस्वती ॥१॥ श्रीनिधिं निधिमपारमर्थिनां अर्थितार्थपरिदानदीक्षितम् । सर्वभूतसुहृदं दयानिधिं देवराजमधिराजमाश्रये ॥२॥ नित्यमिन्द्रियपथातिगं महो योगिनामपि सुदूरगं धियः । अप्यनुश्रवशिरस्सु दुर्ग्रहं प्रादुरस्ति करिशैलमस्तके ॥ ३ ॥ वल्लिका श्रुतिमतल्लिकामयी येन पल्लवितविश्वशाखया । स्वश्रिया करिगिरेरनुक्रियां वष्टि मृष्टवरदं तमाश्रये ॥ ४ […]
श्रीस्तवः
श्रीवत्सचिह्नमिश्रैरनुगृहीतः ॥ श्रीस्तवः ॥ श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थितीः स्वर्गं दुर्गतिमापवर्गिकपदं सर्वञ्च कुर्वन् हरिः । यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ १ ॥ हे श्रीर्देवि! समस्त लोकजननीं त्वां स्तोतुमीहामहे युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् । भक्तिं भन्दय नन्दयाश्रितमिमं दासं जनं तावकं लक्ष्यं लक्ष्मि! कटाक्षवीचिविसृतेस्ते […]
चतुश्श्लोकीभाष्यम्-श्रीमन्निगमान्त महादेशिकैरनुगृहीतं
॥ श्रीरस्तु॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ॥ श्रीमन्निगमान्त महादेशिकैरनुगृहीतं ॥ चतुश्श्लोकीभाष्यम् ॥ (भगवद्यामुनमुनिभिरनुगृहीता चतुःश्लोकी) 1स्वशेषाशेषार्थो निरवधिकनिर्वाधमहिमा फलानां दाता यः फलमपि च शारीरकमितः । श्रियं तत्सध्रीची तदुपसदनत्रासशमनीमभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ॥१॥ अत्र समन्वयाविरोधसाधनफलविषयशारीरकचतुरध्यायीसमधिगतस्य भगवतः सर्वप्रकारा–भिमतानुरूपसह(धर्मचारिणी)धर्मिणीविशिष्टतयाऽपि सर्वाधिकत्वं कश्श्रीश्श्रियः (स्तोत्ररत्ने […]