मुण्डकोपनिषत् तृतीयमुण्डके द्वितीयखण्डः

मुण्डकोपनिषत् तृतीयमुण्डके द्वितीयखण्डः [आत्मतत्त्वज्ञानात् मोक्षप्राप्तिः] स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।। १ ।। आत्मवित्पूजायाः मोक्षफलकत्वमाह – स वेदैतत् इति । यत्र – ब्रह्मणि, विश्वं – जीवजातम् निहितम् , शुभ्रम् – निर्मलं स्वप्रकाशं भाति, एतत् – ईदृशं सवकामास्पदतया धाम – शब्दितं परमं ब्रह्म – […]

मुण्डकोपनिषत् तृतीयमुण्डके प्रथमखण्डः

मुण्डकोपनिषत् तृतीयमुण्डके प्रथमखण्डः [जीवब्रह्मणोः वैलक्षण्यम् | ‘द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ।। १ ।। ननु एकस्यैव ब्रह्मणः सर्वदेहानुप्रवेशे तस्य सुखदुःखभोक्तृत्वप्रसङ्गः ‘इत्यत्राऽऽह – द्वा सुपर्णा इति । युज्यत इति युक् । युक्शब्दो गुणपरः । समानगुणकः सयुक् इति व्यासायैविवृतत्वात् । सयुजौ – समानगुणको अपहतपाप्मत्वादिगुणैः परस्परसमानौ, सखायौ – सहचरौ । द्वौ […]

मुण्डकोपनिषत् द्वितीयमुण्डके द्वितीय खण्डः

मुण्डकोपनिषत् द्वितीयमुण्डके द्वितीयखण्डः [सर्वाधारभूतं ब्रह्म] आवि: संनिहितं गुहाचरं नाम महत् पदम् अत्रैतत् समर्पितम् । एजत् प्राणन्निमिषञ्च यत् एतज्जानथ सदसद्वरेण्यं परं विज्ञानात् यद् वरिष्ठं प्रजानाम् ।।१।। आविः संनिहितं गुहाचरं नाम महत् पदमिति । आवि: इत्यव्ययम् । योगिनामपरोक्षम् । संनिहितं गुहाचरम् – हृदयगुहावर्तितया सन्निहितम् । नाम – दुर्विज्ञेयस्वरूपतया प्रसिद्धम् । सर्वतो महत् । पदं – प्राप्यभूतमित्यर्थः । […]

मुण्डकोपनिषत् द्वितीयमुण्डके प्रथम खण्डः

मुण्डकोपनिषत् द्वितीयमुण्डके प्रथमखण्डः [अक्षरात् जगत्सृष्टिः] तदेतत् सत्यम् ।। यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षरात् विविधाः सोम्य ! भावाः प्रजायन्ते तत्र चैवापियन्ति ।।१।। तदेतत् सत्यम् पूर्ववत् । यथा सुदीप्तात् पावकादिति । अयोगोलकादिगतात् हन्यमानाद्वा वेश्मादिषु सुदीप्ताद्वा पावकादनेकशः सरूपाः विस्फुलिङ्गाः यथोत्पद्यन्ते । एवमेव सूक्ष्म चिदचिच्छरीराद्ब्रह्मणः तत्सरूपाः – नानाविधस्थूलचिद चिद्रूपाः, भवन्तीतिभावाः – कार्यवर्गाः उत्पद्यन्ते । तत्रैव […]

मुण्डकोपनिषत् प्रथममुण्डके द्वितीय खण्डः

मुण्डकोपनिषत् प्रथममुण्डके द्वितीयखण्डः [परविद्याङ्गम् अपरविद्या] तदेतत् सत्यम् ।। मन्त्रेषु कर्माणि कवयः यान्यपश्यँस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामाः एष वः पन्थाः सुकृतस्य लोके ।। १ ।। तदेतत् सत्यम् इति । सत्यं – नित्यम् , उत्पत्तिविनाशादिषड्भावविकारशून्यम् इत्यर्थः । मन्त्रेषु कर्माणि कवयः यान्यपश्यन् इति । कवयः – अतीन्द्रियार्थसाक्षात्कारसमर्था वेदेषु यानि – अग्निहोत्रादिकर्माणि दृष्टवन्तः । तानि त्रेतायां ‘गार्हपत्यादि […]

मुण्डकोपनिषत् प्रथममुण्डके प्रथमः खण्डः

मुण्डकोपनिषत् (अथर्ववेदीयोपनिषच्छान्तिपाठः) ओम् भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिस्वस्ति नो बृहस्पतिर्दधातु ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। देवा: – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम् ), कर्णेभिः – श्रोत्रेः, शृणुयाम – श्रोतुं, समर्थाः भवेम । यजत्राः – […]

प्रश्नोपनिषत् षष्ठः प्रश्नः

प्रश्नोपनिषत् षष्ठः प्रश्नः [जीवस्य षोडशकलत्वं परमात्मोपासनं च] अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् ! हिरण्यनाभ: कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नम् अपृच्छत षोडशकलं भारद्वाज ! पुरुषं वेत्थ इति । तमहं कुमारम् अब्रुवम् नाहमिमं वेद । यद्यहमिमवेदिषम् कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति, योऽनृतमभिवदति । तस्मानार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा […]

प्रश्नोपनिषत् पञ्चमः प्रश्नः

प्रश्नोपनिषत्  पञ्चमः प्रश्नः [प्रणवोपासना] अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत, कतमं वाव स तेन लोकं जयतीति ।।१।। अथ हैनं शैब्यः इत्यादि । ह वै इति प्रसिद्ध्यतिशये । सः इति । अधिकारिसामान्यपरम् । ‘पूजार्ह ! यः अधिकारी मनुष्याणां मध्ये मरणान्तमोंकारम् अभिध्यायति, स कतमं लोकम् – तेन ओंकारेण प्राप्नोति इत्यर्थः […]

प्रश्नोपनिषत् चतुर्थः प्रश्नः

प्रश्नोपनिषत् चतुर्थः प्रश्नः [जीवस्य स्वप्नसुषुप्तिविषयकः प्रश्नः] अथ हैनं सौर्यायणी गार्ग्य: पप्रच्छ । भगवन् ! एतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एषः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्ति’ इति ।।१।। अथ हैनं सौर्यायणी इति स्पष्टोऽर्थः । भगवन् । एतस्मिन् पुरुषे कानि स्वपन्ति । पुरुषे सुप्ते सति इति शेषः […]

प्रश्नोपनिषत् तृतीयः प्रश्नः

प्रश्नोपनिषत् तृतीयः प्रश्नः [प्राणकार्यभेदाः] अथ हैनं कौसल्यश्चाऽऽश्वलायन: पप्रच्छ । भगवन् ! कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं ‘प्रतितिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ।।१।। अथ हैनं कौसल्यः इति । प्रतितिष्ठते – प्रतितिष्ठति इत्यर्थः । बाह्यमभिधत्ते – बाह्यरूपेण सन्निधत्ते इत्यर्थः । बाह्यमित्यस्य संनिधानक्रियाविशेषणत्वात् ।। तस्मै स होवाच – […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.