शतदूषणी जीवाज्ञानभङ्गवादः(40)

शतदूषणी ।। अथ जीवाज्ञानभङ्गवादः चत्वारिंशः ।।40।। अखिलचिदचिदन्तर्यामितां प्राप्य तिष्ठन् स्वयमखिलगुणाढ्यस्सूरिभिर्नित्यसेव्यः । निजचरणनिषेवावैभवेनापराधान् व्यपनयति नराणां व्यक्तमेनं भजामः ।। ये पुनः प्रसक्तं ब्रह्मणोऽविद्यादिरूपमसाध्यदोषं भिषज्यन्त इवाहुः – न ब्रह्मणि साक्षादज्ञान संसारादिगन्धः, अविद्यान्तः करणप्रतिबिम्बितस्य तस्य जीवत्वात्; जीवाश्रयत्वाच्चाज्ञानसंसारादेः । यद्यपि मूलबिम्बस्वरूपेण प्रतिबिम्बेनापि भवितव्यम्, तथापि यथा मणिकृपाणदर्पणादि प्रयुक्ताल्पत्वमलिनत्वतरलत्वादयो धर्माः प्रतिबिम्बैकवर्तिनो वस्तुतस्तदभिन्नेऽपि मुखे न सम्बध्यन्ते, नापि परस्परं संकीर्यन्ते, तथाऽत्रापि ब्रह्मप्रतिबिम्बभूतजीवगता दोषा ब्रह्मणि […]

शतदूषणी भावरूपाज्ञानभङ्गवादः(39)

शतदूषणी अथ भावरूपाज्ञानभङ्गवादः एकोनचत्वारिंशः । श्रुतिकिरीटनिरूपणनिर्भरप्रसरयैव धिया परिशोधिताम् । सुखिमलां पदवीमदवीयसीं भजत माधवभक्तिमयीमिमाम् ।। भावरूपं यदज्ञानं ये जनाः परिचक्षते । तच्चिते तत्तथाभूतं निश्चिन्वन्ति विपश्चितः ।। एवं ह्यज्ञानमुषिततत्त्वज्ञानैर्विज्ञातम् – प्रत्यक्षानुमानागमैर्भावरूपमज्ञानं प्रतीयते । तत्र प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यादिरूपं सर्वसम्मतम् । तत्किं भावरूपमज्ञानं विषयीकरोति उताभावरूपमिति विवेचनीयम् । न तावदभावरूपम्; अभावो हि प्रतियोगिनिरूपणाधीननिरूपणः; ततश्च ज्ञानभावप्रतीतिर्ज्ञानग्रहणमन्तरेण नोपपद्यते; ज्ञानं […]

शतदूषणी अखण्डवाक्यार्थखण्डनवादः(38)

शतदूषणी अथ अखण्डवाक्यार्थखण्डनवादः अष्टत्रिंशः । ज्ञानानन्दगुणोपेतं ज्ञानानन्दमयं महः । पायादपायाद्भवतो भवबन्धविधायकात् ।। सत्यज्ञानाजिभिर्वाक्यैरखण्डं बोध्यमिच्छताम् । अहङ्करोमि मूर्खाणामहङ्करणखण्डनम् ।। यत्तु जल्पन्ति – विगीतं वाक्यमखण्डार्थपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदेत्त इत्यादिवाक्यवदिति । अत्र किमिदमखण्डार्थपरत्वं? निवयवार्थपरत्वं वा? अच्छेद्यार्थपरत्वं वा? निर्विशेषणपरत्वं वा? विशेष्यमात्रपरत्वं वा? निर्भेदार्थपरत्वं वा? भावरूपविशेषणरहितपरत्वं वा? एकविशेष्यपरत्वं वा? अन्यद्वा किंचित्? इति । न प्रथमद्वितीयौ, सिद्धसाधनात्; दृष्टान्तस्य साध्यविकलत्वाच्च । न हि […]

शतदूषणी जीवेश्वरैक्यभङ्गवादः(37)

शतदूषणी अथ जीवेश्वरैक्यभङ्गवादः सप्तत्रिंशः । आत्मतत्वविदां पुंसां यद्दास्यं लास्यकारणम् । तद्वन्दे परमानन्दमिन्दिरामन्दिरं महः ।। यत्पुनर्महासाहसिका दृढतरनिरूढहेदात्ममोहमन्दधियः प्रत्यक्षादिविरोधमपि तिरस्कृत्य स्वात्मानमेवेश्वरमभिमन्यन्ते, तदपि भेदसामान्यस्य आत्मनानात्वस्य च समर्थनात् “”एको बहूना” मित्याद्युक्तैकानेकतादात्म्यायोगाच्च निरस्तप्रायमेव । विशेषतोपि पश्यामः । जीवस्येश्वरत्वं किं प्रत्यक्षबलादभ्युपगम्यते, उतो पपत्तिसामर्थ्यात्, यद्वा शास्त्रवैभवात्? अन्यतः कुतश्चित्र सम्भत्येव । नाद्यः, अनीश्वरतयैव स्वात्मन उपलम्भात् । अप्रतीत्तेश्वरस्य कथं तत्प्रतियोगिकानीश्वरत्वनिरूपणमिति चेन्न; – श्रुत्यादिभिः प्रमितेश्वरतत्वानां […]

शतदूषणी आत्माद्वैतभङ्गवादः(36)

शतदूषणी अथ आत्माद्वैतभङ्गवादः षट्त्रिंशः । नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने । ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ।। यदुच्यते तावदात्माद्वैतवादिभिरेक एवात्मा देहाद्युपाधिभेदेन बहुधा प्रतिभाति, तरङ्गचन्द्रवत्, सौभर्यादिवच्च । तथा च प्रयोगाः – विगीतानि शरीराणि मयैवात्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नमच्छरीरवत्; सर्वं जाग्रच्छरीरं मदविद्याकल्पितम्, शरीरत्वात्, कल्पितत्वाद्वा, स्वप्नदृष्टमच्छरीरवत; सर्वोप्यात्मा अहमेव, चेतनत्वात्, अहमिव; सर्वाणि सुखदुःखानि मयैव भुज्यन्ते, सुखदुःखत्वात्, मत्सुखदुःखवत्; विगीतानि शरीराणि देवदत्तात्मना आत्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नदेवदत्तशरीरवत्; एवं सहस्रशोनुमानानि विभज्य […]

शतदूषणी तिरोधानानुपपत्तिवादः(35)

    शतदूषणी अथ तिरोधानानुपपत्तिवादः पञ्चत्रिंशः  । यन्मायामोहितात्मनो यान्मायामोहितं विदुः । तत्प्रपद्य तदुक्तोयं तिरोधिरवधूयते ।। यदाहुर्ब्रह्मधातिनो ब्रह्मविदो ब्रह्मस्वरूपमविद्यातिरोहितमिति । तत्र किमिदन्तिरोधानम्? किमिन्द्रियसम्बन्धनिवारणम्, किमैन्द्रियकज्ञानस्य तद्विषत्तानिवर्तनम्, यद्वा सर्वेषामपि ज्ञानानां तद्विषयतापाकरणम्, अथवा स्वस्य स्वकर्मताव्यपोहः, स्वप्रकाशभङ्ग एव वा, विशदस्वरूपस्याप्यविशदस्वरूपत्वापादनं वा, ब्रह्मप्रकाश सामग्र्यनुप्रविष्टस्वभावनिरासो वा, अनिरूपणीयस्वरूपमन्यदेव वा किञ्चिदिति । नाद्यः, अशक्यत्वात् । तथाहि – सम्बन्धशब्देन किं सामान्यतस्सम्बन्धमात्रं विवक्षितम्, तद्विशेषो वा? आद्येत्विन्द्रियाणां […]

शतदूषणी उपदेशानुपपत्तिवादः(34)

शतदूषणी अथ उपदेशानुपपत्तिवादः चतुस्त्रिंशः । हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् । जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारधिः ।। अस्ति तावदासर्वेश्वरादस्मदादिपर्यन्तमासंसारमनुवर्तमानो दृष्टा दृष्टप्रयोजनः सर्वसैद्धान्तिक सम्मतश्शिष्याचार्यक्रमः । स एष निर्विशेषैकशेमुषीमात्रपरिशेषमुषितनिरवशेषभुवनस्य न कथञ्चिदपि सङ्गच्छते । तथाहि – आत्माद्वैतमुपदिशन्नाचार्यः किं शिष्यतया शिक्षणीयं कं चिदपि नोपलभते, उतोपलभते? आद्ये कस्मा उपदिशेत्? न कस्मैचिदितिचेत्? तर्हि नोपदिशेदेव, श्रोतृप्रतिपत्तिप्रयोजकत्वादुपदेशस्य । अन्यथाआरण्यकोपदेशस्य । […]

शतदूषणी संविदद्वैतभङ्गः वादः(33)

शतदूषणी ।।अथ संविदद्वैतभङ्गः वादः त्रयस्रिंशः।।33।। बहुविधभक्तिज्ञानप्रभावपूतैर्निषेवितं बहुभिः । प्रभयेव भानुमन्तं लक्ष्म्या सेव्यन्तु लक्षयामस्तम् । अत्र खलु महार्णवावर्तगर्तकुहरेषु आवर्तमानाः पुरुषा आवर्तयन्ति नियतमेतादृशानि वाक्यानि – एकैव संविदनेकज्ञातृज्ञेयतदवच्छिन्नज्ञप्तिरूपेण विवर्तन इत्येवमादीनि । तदसङ्गतम्, घटादि विषयैकैकधियांतथा विवक्षायां क्वचिदपि विदिताविदितविभागा भावप्रसङ्गात् । तत्तत्पूर्वोत्तरकालयोः प्रपञ्चानुपलब्धिप्रसङ्गाच्च । सैव संवित्तच्चातच्च वेद्यं क्रमेणोपसर्पतीति चेन्न; – घटादेरिव सुखादेरिव च संविदोप्युत्पत्तिविनाशादिप्रत्ययस्य निराबाधत्वात् । यौक्तिकबाधस्य सुखदुःखादावपि वक्तुं शक्यत्वात् […]

शतदूषणी बाधार्थसामानाधिकरण्यभङ्गवादः(32)

शतदूषणी ।।अथ बाधार्थसामानाधिकरण्यभङ्गवादः द्वात्रिशः।।32।। यदधिकरणमेतद्यद्विधेयं यदर्थं यत उदितमपीति प्रोच्यते यद्वि विश्वम्् । तमजमजडमन्तर्यामिणं सर्वजन्तोः निरवधिमहिमानं देवमाराधयामः ।। यदाहुः – य इह निर्विशेषचिन्मात्रब्रह्माविद्याविवर्तरूपाणां तत्तत्पदार्थानां तत्वोपदेशपरेषु वाक्येषु ब्रह्मणा सह सामानाधिकरण्यनिर्देशः स बाधार्थ एव, अर्थान्तरासम्भवात् तस्यैव विवक्षितत्वात् । तथाहि – अन्धकारादिषु स्थाणुमविशिष्टमवलोक्य यश्चोर इति मुह्यति तं प्रति तत्वदर्शी कश्चिद्वदति त्वद्द्ष्टश्चोरः स्थाणुरिति । तस्य कोर्थः? चोरत्वाभिमानविषयः ते न चोर […]

शतदूषणी जीवन्मुक्तिभङ्ग वादः(31)

शतदूषणी ।।अथ जीवन्मुक्तिभङ्ग वादः एकत्रिंशः।।31।। अन्ते विरोधिजनसङ्क्रमणीयसर्व पूर्वोत्तराधनिवहप्रतिबन्धकेन । यद्व्यानसन्ततिलताप्रथमाङ्कुरेण मुक्ता इवात्र मुनयः स गतिस्स्वयन्नः ।। समन्वयाधिकरणभाष्ये परेषां सयूध्यकलहमुपक्षिप्य जीवन्मुक्त पक्षः प्रतिक्षिप्तः, तदेवात्र पूर्वापरसङ्गतेर्व्याकुर्मः । यदाहुः – ब्रह्मात्मैक्योपदेशपरतत्वमसिवाक्यश्रवणजनिततत्वाध्यवसायादेव जीवन्नपि मुच्यते पुरुषः, ज्ञानस्यैव स्वाभाविक मोक्षप्रतिबन्धनिवर्तकत्वात्, तस्यच निष्पन्नत्वात्; बाधातिरिक्तायाश्च विरोधिनिवृत्तेरभावात् । नहि रज्जुयाथात्म्यज्ञानातिरेकेण मिथ्याभूतसर्पभयनिवृत्तेः सर्पविनाशोऽप्यपेक्षितः । नच शरीरदेस्सत्यत्वमिच्छामः, येन ज्ञानमात्रान्न निवर्तेत । श्रूयतेच – “तमेवं विद्वानमृतइह भवति’ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.