54 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।। किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।। वीक्षमाण इत्यादि । कृतमनोरथः पर्याप्तमनोरथः ।। 5.54.1,2 ।। वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः । बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।। बलैकदेशः सेनैकदेशः […]

53 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः । देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।। तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ।। 5.53.1।। सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।। कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।। दूतवध्या दूतवधः ।। 5.53.2,3।। […]

52 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। 5.52.1।। तस्य तद्वचनं श्रुत्वेति श्लोकस्सर्गस्य प्रथमः ।। 5.52.1।। वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः ।। 5.52.2।। दौत्यं दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । तन्निवेदितवतः उक्तवतः । नानुमेने, वधमित्यनुवर्तनीयम् । निवेदितमतौ दूत्यमिति पाठान्तरम् । मन्यत इति […]

51 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः । वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ।। 5.51.1।। तं समीक्ष्येत्यादि । समीक्षणोक्तिक्रियाभेदात्तच्छब्दद्वयम् ।। 5.51.1।। अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ।। 5.51.2।। अहं रामदूत एव, सन्देशास्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाद्धेतोः, सन्देशप्रापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात्” इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् […]

50 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् । कोपेन महताऽविष्टो रावणो लोकरावणः ।। 5.50.1।। शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् । किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। 5.50.2।। तमुद्वीक्ष्येत्यादि ।। 5.50.1,2।। येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा । सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। 5.50.3।। स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् […]

49 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ततः स कर्मणा तस्य विस्मितो भीमविक्रमः । हनुमान् रोषताम्राक्षो रक्षोधिपमवैक्षत ।। 5.49.1।। ततः स इत्यादि । कर्मणा तस्य विस्मितः, युद्धार्थं रावणेनागन्तवन्यमिति यत्नः कृतः । स तु नीतिज्ञ आसनस्थ एव इन्द्रजिन्मुखेन मां निबध्यानीतवानित्यानयनकर्मणा जातविस्मय इत्यर्थः ।। 5.49.1।। भ्राजमानं महार्हेण काञ्चनेन विराजता । मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम् ।। 5.49.2।। वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः । हैमैराभरणैश्चित्रैर्मनसेव […]

48 Sarga सुन्दरकाण्डः

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ततः स रक्षोधिपतिर्महात्मा हनूमता ऽक्षे निहते कुमारे । मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम् ।। 5.48.1।। ततस्त्वित्यादि । मनः समाधाय धैर्यं कृत्वेत्यर्थः ।। 5.48.1।। त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता । सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनस़ञ्चितास्त्रः ।। 5.48.2।। त्वमिति । अस्त्रवित् ब्रह्मास्त्रवित् । सञ्चितास्त्रः सञ्चितास्त्रविशेषः ।। 5.48.2।। तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः […]

47 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।। 5.47.1।। सेनापतीनित्यादि । समीक्ष्य विज्ञाय ।। 5.47.1।। स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।। 5.47.2।। ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् । रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।। 5.47.3।। […]

46 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशः सर्गः हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना । रावणः संवृताकारश्चकार मतिमुत्तमाम् ।। 5.46.1।। हतानित्यादि । संवृताकारः अन्तर्मनाः । मतिं चिन्ताम् ।। 5.46.1।। स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् । प्रघसं भारकर्णं च पञ्च सेनाग्रनायकान् ।। 5.46.2।। सन्दिदेश दशग्रीवो वीरान्नयविशारदान् । हनुमद्ग्रहणव्यग्रान् वायुवेगसमान् युधि ।। 5.46.3।। स इति ।। 5.6.23।। यात सेनाग्रगाः सर्वे […]

45 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। 5.45.1।। ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् । सप्तार्चिवर्चस इत्यत्र सप्तार्चीति इकारान्तत्वमार्षम् ।। 5.45.1।।३ महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। 5.45.2।। कृतास्त्राः शिक्षिताश्त्राः । आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञानसिक्षे उभे अप्येषां स्त […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.