71 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः भ्रातृनिधनरुष्टे अतिकायेसेनामध्यप्रविष्टे तस्मिन्कुंभकर्णत्वभ्रमेण वानरेषुभयाद्विद्रव -माणेषु रामेण तद्रथायुधादिवर्णनपूर्वकं विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेनरामंप्रति विस्तरेणतत्पराक्रमादिनिवेदनम् ॥ २ ॥ अतिकायेनरामंप्रति गर्वोक्त्यायुद्धप्रार्थने लक्ष्मणेन तत्प्रतिरोधनम् ॥ ३ ॥ ततस्तयोर्वीरवादपुरस्सरंसमारंभः ॥ ४ ॥ लक्ष्मणेनास्त्रप्रत्यस्त्रप्रयोग -पूर्वकं निशिततरशरगणप्रयोगेपि ब्रह्मवरादभेद्यकवचएवसत्यतिकाये अन्तरिक्षेऽन्तर्हितवायु -वचनाद्ब्रह्मास्त्रेण तच्छिरश्छेदनम् ॥ ५ ॥   स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् । भ्रातृश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ […]

70 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः हनुमन्नीलाभ्यांक्रमेणदेवान्तकयुद्धोन्मत्तयोर्वधः ॥ १ ॥ त्रिशिरसामुष्ट्यभिहतेनहनुमता -तदीय खङ्गाक्षेपेणतच्छित्स्त्र्ययकर्तनम् ॥ २ ॥ ऋषभनाम्नावानरवरेणमत्तनाम्नोराक्षसस्य -वधः ॥ ३ ॥   नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥ आरूढो मेघसंकाशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥ पौलस्त्य इति त्रिमूर्धविशेषणं । न तु महोदरस्य । देवान्तकादयस्त्रयश्चुक्रुशुरिति संबन्धः […]

69 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमः सर्गः कुंभकर्णनिधनाकर्णनेनविषीदन्तंरावणंप्रति त्रिशिरोनाम्नातस्सुतेन रामादिवधप्रतिज्ञानेन -समाश्वासनपूर्वकमतिकायादिभिर्भ्रातृभिः सह रणायनिर्याणम् ॥ १ ॥ वानरकृतराक्षस -क्षपणरुष्टेन तुरगाधिष्ठितेननरान्तकेन वानरवाहिनीविध्वंसने सुग्रीवनियोगादङ्गदेन सतुरगनरान्तकहननम् ॥ २ ॥   एवं बिलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥ अथातिकायनिर्गमः – एवमित्यादि ॥ १ ॥ एवमेव महावीर्यो हतो नस्तातमध्यमः । न तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ […]

68 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः कुंभकर्णश्रवणमात्रेण पतितमूच्छितेन रावणेन संज्ञाधिगमानन्तरं तंप्रतिशोचनपूर्वकं  बहुधा -विलापः ॥ १ ॥   कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥ कुम्भकर्णवधश्रवणेन रावणस्य प्रलापः- कुम्भकर्णमित्यादि ॥ अत्र रावणायेत्यत्र यकारो गायत्र्या अष्टादशाक्षरं । सप्तदशसहस्रश्लोका गताः ॥ १ ॥   राजन्स कालसंकाशः संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां […]

67 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः कुंभकर्णे वानरसेनामध्येकेषांचिद्भक्षणेनकेषांचित्पाणितलाभिघातेन विक्षोभपूर्वकंसंच -रमाणे हनुमता शैलशृङ्गेणतत्ताडनम् ॥ १ ॥ तत्प्रहारक्षुभितेनकुंभकर्णेन हनुमतोवक्षसि शूलाभिघातेनविह्वलताप्रापणपूर्वकं नीलादिभिरायोधनम् ॥ २ ॥ तेषु कुंभकर्णपीडामसहमानेष्वङ्गदेन गिरिशिखरेणकुंभकर्णशिरस्ताडनम् ॥ ३ ॥ तेन मुष्टिघातेनाङ्गदस्यमोहप्रापणपूर्वकंसुग्रीवंप्रत्यभियानम् ॥ ४ ॥ सुग्रीवेण शैलशृङ्गताडितेन कुंभकर्णेन तद्वधायशूलेसमुत्सृष्टे हनुमता तच्छूलस्यनिजजानुस मारोपणेनभञ्जनम् ॥ ५ ॥ कुंभकर्णेन स्वपातितशैलशृङ्गप्रहारेणपतितमूर्च्छितस्यसुग्रीवस्यग्रहणेन लङ्काप्रवेशः ॥ ६ ॥ लङ्काजनैः कुंभकर्णोपरिहर्षेणपुष्पगन्धोदादिवर्षणे तत्सेकेनप्रबुद्धाप्यायितेनसुग्रीवेण खरनखरकराग्रैर्दन्तैश्च कुंभकर्णकर्णनासच्छेदनपूर्वक वियतिसमुत्पतनेन […]

66 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः लङ्काप्राकारोल्लङ्घनेनरणायाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरा -वलोकनमात्रेण नीलनलादिभिर्भयात्पलायनम् ॥ १ ॥ अङ्गदेन नानाप्रकारैः परिसान्वितेस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २॥   स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥ अथ कुम्भकर्णयुद्धप्रवृत्तिः – स इत्यादि ॥ १ ॥   स ननाद महानादं समुद्रमभिनादयन् । जनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥ […]

65 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः कुंभकर्णेन महोदरभर्त्सनपूर्वकंरावणंप्रतिरामवधप्रतिज्ञानेन रणायनिर्याणोक्तिः ॥ १ ॥ रावणेन कुंभकर्णस्यनानाभरणैरलङ्कारपूर्वकं रणायप्रेषणम् ॥ २ ॥ कुंभकर्णेन स्वप्रस्थान- समयप्रादुर्भूतदुर्निमित्तालक्षीकारेणैव रणायनिर्याणम् ॥ ३ ॥   स तथोक्तस्तु निर्भर्त्स्य कुंभकर्णो महोदरम् । अब्रवीद्राक्षश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥ अथ युद्धाय कुम्भकर्णनिर्याणं पञ्चषष्टितमे-स तथोक्तस्त्वित्यादि ।। निर्भर्त्य गर्जन्तीत्यादिवक्ष्यमाणप्रकारेणेति शेषः ॥ १ ॥   सोहं तव भयं […]

64 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःषष्टितमः सर्गः महोदरेणकुंभकर्णंप्रति व्यभिचारप्रदर्शनेनसुकृतदुष्कृतयोः सुखदुःखहेतुत्वनियम -निरसनेन मन्त्रिभिःसहालोचनपूर्वकत्वोक्त्याचसीताहरणस्य न्याय्यत्वसमर्थनम् ॥ १ ॥ तथा रामस्य -युद्धेनदुर्जयत्वसमर्थनेन रावणंप्रति स्वबुद्धिपरिकल्पितकपटोपायप्रदर्शनपूर्वकं तेनैवसीतावशी -करणस्यसुकरस्वोक्तिः ॥ २ ॥   तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुंभकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥ अथ मन्त्रिकृतानयमसहमानो महोदरः कुम्भकर्णं निर्भर्त्सयति तदुक्तमित्यादिना ॥ उक्तं सूचनं विना कण्ठरवेण दर्शितं । अतिकायस्य महाशरीरस्य । प्रतिवचनानर्हत्वद्योतनाय विशेषणानि […]

63 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः कुंभकर्णेन रावणंप्रति नीतिशास्त्रार्थानुवादपूर्वकंप्रकृतापत्प्राप्तेस्तदनालोचनहेतुक -त्वोक्तिः ॥ १ ॥ रावणेनकुंभकर्णंप्रति सकोपंगतार्थानुशोचनस्यानौचित्योक्तिपूर्वकं विपन्नार्थसमीकरणस्य सुहृल्लक्षणत्वोत्तक्त्या शत्रुजयायनिजपराक्रमोपयोजननियोजनम् ॥ २ ॥ कुंभकर्णेन रावणंप्रति ससान्त्वनंयुद्धेरामादिवधप्रतिज्ञानम् ॥ ३ ॥   तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुंभकर्णो वभाषेदं वचनं प्रजहास च ॥ १ ॥ अथ कुम्भकर्णबुद्धिस्त्रिषष्टितमे-तस्येत्यादि । परिदेवितं पूर्वोक्तवचनानां परिदेवनतुल्यत्वात् परिदेवितत्वं । कुम्भकर्णो वचनं वभाषे जहास चेत्यत्र व्यत्ययः […]

62 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः कुंभकर्णेन रावणगृहमेत्यतच्चरणप्रणामपूर्वकं सपरिष्वङ्गतद्दत्तवरासने समुपवेशनम् ॥ १ ॥ रावणेनतंप्रति प्रकृतनिस्त्रिलवृत्तान्तनिवेदनपूर्वकं रामादिविजयेननिजरक्षणप्रार्थना ॥ २ ॥   स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥ राक्षसानां सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥ अथ कुम्भकर्णं प्रति रावणस्य सान्त्ववचनं द्विषष्टितमे – स त्वित्यादि  निद्रामदसमाकुल: […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.