66 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः लङ्काप्राकारोल्लङ्घनेनरणायाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरा -वलोकनमात्रेण नीलनलादिभिर्भयात्पलायनम् ॥ १ ॥ अङ्गदेन नानाप्रकारैः परिसान्वितेस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २॥ स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥ अथ कुम्भकर्णयुद्धप्रवृत्तिः – स इत्यादि ॥ १ ॥ स ननाद महानादं समुद्रमभिनादयन् । जनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥ […]
65 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः कुंभकर्णेन महोदरभर्त्सनपूर्वकंरावणंप्रतिरामवधप्रतिज्ञानेन रणायनिर्याणोक्तिः ॥ १ ॥ रावणेन कुंभकर्णस्यनानाभरणैरलङ्कारपूर्वकं रणायप्रेषणम् ॥ २ ॥ कुंभकर्णेन स्वप्रस्थान- समयप्रादुर्भूतदुर्निमित्तालक्षीकारेणैव रणायनिर्याणम् ॥ ३ ॥ स तथोक्तस्तु निर्भर्त्स्य कुंभकर्णो महोदरम् । अब्रवीद्राक्षश्रेष्ठं भ्रातरं रावणं ततः ॥ १ ॥ अथ युद्धाय कुम्भकर्णनिर्याणं पञ्चषष्टितमे-स तथोक्तस्त्वित्यादि ।। निर्भर्त्य गर्जन्तीत्यादिवक्ष्यमाणप्रकारेणेति शेषः ॥ १ ॥ सोहं तव भयं […]
64 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःषष्टितमः सर्गः महोदरेणकुंभकर्णंप्रति व्यभिचारप्रदर्शनेनसुकृतदुष्कृतयोः सुखदुःखहेतुत्वनियम -निरसनेन मन्त्रिभिःसहालोचनपूर्वकत्वोक्त्याचसीताहरणस्य न्याय्यत्वसमर्थनम् ॥ १ ॥ तथा रामस्य -युद्धेनदुर्जयत्वसमर्थनेन रावणंप्रति स्वबुद्धिपरिकल्पितकपटोपायप्रदर्शनपूर्वकं तेनैवसीतावशी -करणस्यसुकरस्वोक्तिः ॥ २ ॥ तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुंभकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥ अथ मन्त्रिकृतानयमसहमानो महोदरः कुम्भकर्णं निर्भर्त्सयति तदुक्तमित्यादिना ॥ उक्तं सूचनं विना कण्ठरवेण दर्शितं । अतिकायस्य महाशरीरस्य । प्रतिवचनानर्हत्वद्योतनाय विशेषणानि […]
63 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः कुंभकर्णेन रावणंप्रति नीतिशास्त्रार्थानुवादपूर्वकंप्रकृतापत्प्राप्तेस्तदनालोचनहेतुक -त्वोक्तिः ॥ १ ॥ रावणेनकुंभकर्णंप्रति सकोपंगतार्थानुशोचनस्यानौचित्योक्तिपूर्वकं विपन्नार्थसमीकरणस्य सुहृल्लक्षणत्वोत्तक्त्या शत्रुजयायनिजपराक्रमोपयोजननियोजनम् ॥ २ ॥ कुंभकर्णेन रावणंप्रति ससान्त्वनंयुद्धेरामादिवधप्रतिज्ञानम् ॥ ३ ॥ तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुंभकर्णो वभाषेदं वचनं प्रजहास च ॥ १ ॥ अथ कुम्भकर्णबुद्धिस्त्रिषष्टितमे-तस्येत्यादि । परिदेवितं पूर्वोक्तवचनानां परिदेवनतुल्यत्वात् परिदेवितत्वं । कुम्भकर्णो वचनं वभाषे जहास चेत्यत्र व्यत्ययः […]
62 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः कुंभकर्णेन रावणगृहमेत्यतच्चरणप्रणामपूर्वकं सपरिष्वङ्गतद्दत्तवरासने समुपवेशनम् ॥ १ ॥ रावणेनतंप्रति प्रकृतनिस्त्रिलवृत्तान्तनिवेदनपूर्वकं रामादिविजयेननिजरक्षणप्रार्थना ॥ २ ॥ स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥ राक्षसानां सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥ अथ कुम्भकर्णं प्रति रावणस्य सान्त्ववचनं द्विषष्टितमे – स त्वित्यादि निद्रामदसमाकुल: […]
61 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः लङ्कायांराजमार्गेगच्छन्तंकुंभकर्णमवलोकयतारामेण विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेन रामंप्रति कुंभकर्णस्वरूपनिरूपणम् ॥ २ ॥ रामेणनीलंप्रति रणायसेनासज्जी -करणनियोजनम् ॥ ३ ॥ ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥ तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।। सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ॥ २ ॥ अथ रामेण […]
60 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पष्टितमः सर्गः श्रीरामपराभूतभीतेनरावणेन सभायांमन्त्रिमध्ये स्वस्थनानाशापप्राप्तिनिवेदनेनशोचन -पूर्वकं राक्षसान्प्रति कुंभकर्णप्रबोधननियोजनम् ॥ १ ॥ राक्षसैर्महताप्रयासेन कुंभकर्णप्रबोधनम् ॥ २ ॥ राक्षसैर्विनिवेदितनिखिलवृत्तान्तेनतेन रावणाज्ञयातदबलोकनायातिविपुल निजशरीराव -लोकनजभयविद्रुतकपिकुलेनसता राजमार्गेनिर्गमनम् ॥ ३ ॥ स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥ अथ कुम्भकर्णप्रबोधनं षष्टौ – स प्रविश्येत्यादि ॥ रामाबाणभयार्दितः किमिदानीमपि रामबाणा: पतेयुरिति भयपीडितः । […]
59 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः प्रहस्तनिधनश्रवणविहस्तेनरावणेन स्वयमेव महत्यासेनयासह रणायनिर्याणं ॥ १ ॥ विभीषणेनरामंप्रतिरावणानुयायि नांप्रधानरक्षसां तदीयचिह्न प्रदर्शन पूर्वकंतत्तन्नामनिर्देश: ॥ २ ॥ रावणेन स्वानुयायिनां नगररक्षणनियोजनेनविसर्जनपूर्वकं शरनिकरैः सुग्रीवादिविदारणं ॥ ३ ॥ रामेसमरोद्योगिनिसति लक्ष्मणेन प्रार्थनयातदनुज्ञासंपादनेन रावणाभियानं ॥ ४ ॥ अत्रान्तरे हनुमता रावणनिरोधनं ॥ ५॥ रावणकरतलाभिहतेनहनुमता स्वकरतलेन तदुरसि -ताडनं ॥ ६ ॥ तेन सश्लाधं मुष्ट्या हनुमत्ताडनं ॥ ७ ॥ […]
प्रक्षिप्तसर्गः युद्धकाण्डः
प्रक्षिप्तसर्गः ॥ १ ॥ प्रहस्तवधश्रवणविषण्णेनरायणेनस्वस्यैवरणायनिर्याणनिर्धारणम् ॥ १ ॥ तच्छ्रावणेन -मन्दोदर्या सभामेत्यरावणंप्रतिश्रीरा मप्रभावप्रशंसनपूर्वकं तेनसहसंधिकरणप्रार्थना ॥ २ ॥ [ प्रहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः । राक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥ कार्या शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २ ॥ सोहं रिपुविनाशाय विजयस्याभिवृद्धये । स्वयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥ अद्य तद्वानरानीकं सरामं […]
58 Sarga युद्धकाण्डः
श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः विभीषणेनरामंप्रति तत्प्रश्नेनरणायाभ्यागच्छतः प्रहस्तस्य याथात्म्यनिवेदनम् ॥ १ ॥ द्विविददुर्मुखजांबवत्तारैः क्रमेण नरान्तकसमुन्नतमहानादकुंभहनुनाम्नां प्रहस्तसचिवानांचतुर्णां हननम् ॥ २ ॥ नीलेन महतायुद्धेन प्रहस्तवधः ॥ ३ ॥ ततः ग्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् । उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ १ ॥ अथ प्रहस्तवधोष्टपञ्चाशे – ततः प्रहस्तमित्यादि । सस्मितमिति । बलवच्छत्रुदर्शनहर्षेणेतिभावः । तदेव व्यञ्जयति – अरिन्दम […]