66 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्षष्ठितमः सर्गः तं तथा शोकसन्तप्तं विलपन्तमनाथवत् । मोहेन महाताविष्टं परिद्यूनमचेतनम् ।। 3.66.1 ।। ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्णः । रामं सम्बोधयामास चरणै चाभिपीडयन् ।। 3.66.2 ।। एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांशं ज्ञापयति षट्षष्टितमे तं तथेत्यादिश्लोकद्वयमेकान्वयम् । परिद्यूनं परिदेवनं प्राप्तम्, परिशोचन्तमित्यर्थः । “च्छ्वोः शूडनुनासिके च” इत्यूठ् । “दिवो ऽविजिगीषायाम्” इति निष्ठानत्वम् । अचेतनम् अस्वस्थचित्तम् […]

65 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प़ञ्चषष्टितमः सर्गः तप्यमानं तथा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं संवर्तकमिवानलम् ।। 3.65.1 ।। वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनःपुनः । दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ।। 3.65.2 ।। अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः । अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ।। 3.65.3 ।। एवं जगदुपसंहारक्रोधकलुषं रामं लक्ष्मणः सन्धुक्ष(सान्त्व)यति पञ्चषष्टितमे । तप्यमानमित्यादिश्लोकत्रयमेकान्वयम् । […]

64 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःषष्टितमः सर्गः स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ।। अपि गोदावरीं सीता पद्मान्यानयितुं गता ।। 3.64.1 ।। अथ चिह्नविशेषैः सीताहरणनिश्चयश्चतुःषष्टितमे स दीन इत्यादि । लोके कश्चद्दीनो ऽपि दीनां वाचं न व्याहरति । इदमर्धमेकं वाक्यम् ।। 3.64.1 ।। एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा । नदीं गोदावरीं […]

63 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिषष्टितमः सर्गः स राजपुत्रः प्रियया विहीनः कामेन शोकेन च पीड्यमानः । विषादयन् भ्रातरमार्तरूपो भूयो विषादं प्रविवेष तीव्रम् ।। 3.63.1 ।। अथ तापाख्यां मदनावस्थां दर्शयति त्रिषष्टितमे स राजपुत्र इत्यादि । कामेन प्रियास्मरणजन्येन शोकेन प्रियाविरहजन्येन भ्रातरं भूयो विषादयन् आर्तरूपः पीडितशरीरः । स रामः तीव्रं विषादं प्रविवेश । स्वशोकलक्ष्मणशोकाभ्याम् अधिकतरं शोकं गत इत्यर्थः ।। […]

62 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विषष्टितमः सर्गः सीतामपश्यन् धर्त्मात्मा कामोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः ।। 3.62.1 ।। अथ रामस्य “दृङ्मनः सङ्गसङ्कल्पा जागरः कृशाता ऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ।।” इत्युक्तावस्थास्वरतिं नाम षष्ठीमवस्थां प्रदर्शयति द्विषष्टितमे सीतामित्यादि। धर्मात्मा कामोपहतचेतन इत्याभ्यां धर्माविरुद्धकामस्यानिन्द्यत्वमुक्तम्। महाबाहुरित्यूर्ध्वबाहुत्वमुच्यते। कमललोचन इत्यनेन समधुपद्मसाम्यादश्रुकालुष्यमुच्यते। कामेन सीताविप्रलम्भजनितव्यामोहेन उपहता अप्रकृतिस्था चेतना चैतन्यं यस्य स तथा ।। 3.62.1 ।। […]

61 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकषष्टितमः सर्गः दृष्ट्वा ऽ ऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च विध्वस्तान्यासनानि च ।। 3.61.1 ।। अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः । उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ।। 3.61.2 ।। अथ रामस्य नवमीमवस्थां दर्शयत्येकषष्टितमे दृष्ट्वेत्यादिश्लोकद्वयमेकान्वयम् । शून्यं सीतारहितम् । रहितां सीतयेति शेषः । विध्वस्तानि रावणाक्रान्तत्वादिति भावः । सर्वशः […]

60 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षष्टितमः सर्गः भृशमाव्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत् ।। 3.60.1 ।। एवमियता प्रबन्धेन सम्भोगशृङ्गारो वर्णितः । अथ विप्रलम्भशृङ्गारमासुवेलारोहणाद्वर्णयितुमारभते । तदङ्गत्वेन रसान्तराणि दर्शितानि । “संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियपुक्तयोः ।” इति लक्षणात् । तत्र “अभिलाषमानःसङ्गौ सङ्कल्पो गुणसंस्तुतिः प्रद्वेषः । तापाभिमतत्यागावुन्मादो मीर्च्छना च मृतिः” इत्युक्तविप्रलम्भावस्थास्वष्टमीं दशामाह सर्गत्रयेण भृशमित्यादि । आव्रजमानस्य आगच्छतः । अधो वामलोचनं […]

59 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनषष्टितमः सर्गः अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ।। 3.59.1 ।। एवं सङ्ग्रहेणोक्तमर्थं पुनर्विस्तरेण वक्तुमुपक्रमते अथेत्यादि । अन्तरा मध्येमार्गम् । दुःखार्दितमिति क्रियाविशेषणम् । मारीचवधस्थानात् स्वाश्रमं गच्छन् मध्ये पप्रच्छेत्यर्थः ।। 3.59.1 ।। तमुवाच किमर्थं त्वमागतो ऽपास्य मैथिलीम् । यदा सा तव विश्वासाद्वने विरहिता मया ।। 3.59.2 ।। तमिति । तं […]

58 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्चाशः स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ।। 3.58.1 ।। अथ सीताप्राप्तिसन्देहकृतशोकप्रलापो ऽष्टपञ्चाशे स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेहीं विसृज्यागतं लक्ष्मणं पर्यपृच्छत पर्यपृच्छत् ।। 3.58.1 ।। प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।। 3.58.2 ।। प्रश्नस्वरूपमाह […]

57 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्णं पथि निवर्तते ।। 3.57.1 ।। एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेषं दर्शयितुमारभते राक्षसमित्यादि । निवर्तते न्यवर्तत ।। 3.57.1 ।। तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम् । क्रूरस्वनो ऽथ गोमायुर्विननादास्य पृष्ठतः ।। 3.57.2 ।। तस्येति । द्रष्टुकामस्य तदर्थं सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.