35 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चत्रिंशः सर्गः तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात् । उवाच वचनं सान्त्वमिदं मधुरया गिरा ।। 5.35.1।। क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् । वानराणां नराणां च कथमासीत् समागमः ।। 5.35.2।। तान्त्वित्यादि ।। 5.35.12।।. यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर । तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ।। 5.35.3।। यानीति […]
34 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुस्त्रिंशः सर्गः तस्यास्तद्वचनं श्रुत्वा हनुमान् हरियूथपः । दुःखाद्दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ।। 5.34.1।। तस्या इत्यादि । दुःखात् दुःखाभिभूतायाः उत्तरोत्तरं दुःखं प्राप्तायाः ।। 5.34.1।। अहं रामस्य सन्देशाद्देवि दूतस्तवागतः । वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ।। 5.34.2।। अहमिति । तव दुतः प्रति प्रेषितो दुतः ।। 5.34.2।। यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः । स त्वां […]
33 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रामत्सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः सो ऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः । विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ।। 5.33.1।। तामब्रवीन्महातेजा हनूमान् मारुतात्मजः । शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ।। 5.33.2।। कानु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि । द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ।। 5.33.3।। सो ऽवतीर्येत्यादि । सः राक्षसीषु सुप्तासु लब्धावसर इत्यर्थः । कृपणः सीतादौस्थ्यदर्शनेन दीनः । जानन्नपि वैदेह्यैव वाचयितुमब्रवीत् ।। 5.33.13।। किमर्थं […]
32 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। 5.32.1।। सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। 5.32.2।। [साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।] मैथिली चिन्तयामास विस्मयं परमं गता । अहो भीममिदं रूपं वानरस्य दुरासदम् । दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। 5.32.3।। विललाप भृशं सीता […]
31 Sarga सुन्दरकाण्डः
श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। 5.31.1।। एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थं निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूचते ऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा “पाठ्ये गेये च मधुरम्” इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्सृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो […]
30 Sarga सुन्दरकाण्डः
श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः । सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। 5.30.1।। हनुमानपीत्यादि । विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च सर्वं सर्ववृत्तान्तम् । तर्जनं तर्जनवचनम् ।। 5.30.1।। अवेक्षमाणस्तां देवीं देवतामिव नन्दने । ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। 5.30.2।। अवेक्षमाण इति । चिन्तां चिन्तयामास चिन्तां चकार ।। 5.30.2।। यां कपीनां सहस्राणि […]
29 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनत्रिंशः सर्गः तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।। 5.29.1।। तथागतामित्यादि । तथागतां “रहस्यं च प्रकाशं च” इत्युक्तरीत्या सर्वं यथावत्साक्षात्कृतवतो मुनेरपि तथाशब्दप्रयोगादित्थमिति परिच्छिद्य वक्तुमशक्यदुःखाम् । तां धर्मिस्वरूपातिरिक्तयत्किंचिदतिशयरहिताम् । व्यथिताम् । “आशंसायां भूतवच्च” इति निष्ठा । तथा च पूर्वोक्तं सर्वं धर्मिस्वरूपमात्रम् । इतः परमेव व्यसनानि […]
28 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टाविंशः सर्गः सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या ।। 5.28.1।। सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता ।। 5.28.2।। सा राक्षसेन्द्रस्येत्यादि ।। 5.28.12।। सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या ।। 5.28.3।। सुखाद्विहीनं बहुदुःखपूर्णमिदं […]
27 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तविंशः सर्गः इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः । काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः ।। 5.27.1।। इत्यक्ता इत्यादि । तत् मरणाध्यवसायम् ।। 5.27.1।। ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः । पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ।। 5.27.2।। तत इत्यादि । एकार्थं पूर्वोक्तवचनैरेकाभिधेयम् । अनर्थार्थम् अनर्थफलकम् । एकाक्ष्यादयः पूर्वोक्तार्थमेव परुषवचनं पुनरब्रुवन्नित्यर्थः ।। 5.27.2।। अद्येदानीं तवानार्ये सीते पापविनिश्चये । राक्षस्यो भक्षयिष्यन्ति […]
26 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। 5.26.1।। उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती । उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। 5.26.2।। प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः” इत्युक्तेः । प्रमत्ता अनवधाना । “प्रमादो ऽनवधानता” इत्यमरः । भ्रान्तचित्ता अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता । किशोरीव बडवेव ।। 5.26.12।। राघवस्य प्रमत्तस्य रक्षसा […]