यादवाभ्युदयः सर्गः-21

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकविंशः सर्गः 21.1        वासुदेव इति नाम दधानः पौण्ड्रकस्तदनु भूरिमदान्धः। मानुषत्वकवचान्तरितेन स्पर्धते स्म हरिणा हतचित्तः।। 21.2        हेतिपञ्चकमधारयत श्रीवत्सकौस्तुभमुखानि च मूढः। ऐश्वराणि चरितानि च पूर्वाणयात्मनः स्वयमजूघुषदाप्तैः।। 21.3        इन्द्रजालकुहनादिषु दाक्ष्यात् ईश एष इति मोहितलोकः। अध्यशेत भुजगेश्वरशय्यां आरुरोह विहगेन्द्रविवर्तम् ।। 21.4        अन्वहं च महतीं वनमालां माल्यकृद्भिरुपकल्प्य बभार। नामधेयमदिशत् सचिवानां नाकनायकविशेषनिरूढम् ।। 21.5        […]

यादवाभ्युदयः सर्गः-20

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ विंशस्सर्गः 20.1     अथोपहूतैः पुरुहूतजेता सेनेश्वरैरप्रतिमानवीर्यैः। अभीषुभिः सूर्य इवाभिदीप्तः कुबेरगुप्तां ककुभं प्रतस्थे ।। 20.2     प्रयाणतूर्णतूर्यध्वनिरस्य भूयान् घर्मान्तजीमूतरवानुकारी। अनर्तयद्धर्ममयूरमाद्यं प्राप्तस्थितिं पादयुगेन भूम्याम् ।। 20.3     नभः पृथिव्योरुपदिष्टकम्पे नाथस्य यात्रापटहप्रणादे । उषेतरासां नयनं चकम्पे वामेतरं बाणपुराङ्गनानाम्।। 20.4     तस्येन्दुबिम्बं सितमातपत्रं भास्वान् मणीन्द्रो महनीयतेजाः। ताराश्च मुक्तावलया विरेजुः शिखी रथाङ्गाकृतिरात्मधाम्नः।। 20.5     अग्रे मुकुन्दस्य तदग्रजन्मा दैत्यैस्समं […]

यादवाभ्युदयः सर्गः-19

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकोनविंशः सर्गः 19.1        नित्यप्रबुद्धमपि निर्मलया स्वदृष्ट्या निद्राणवत् दरनिमीलितनेत्रपद्मम्। प्राबोधिकीभिरुपसेदुरितीव वाग्भिः स्वाधीनमर्त्यतनयं श्रुतिवन्दिनस्तम् ।। 19.2        यामिन्यपैति यदुनाथ विमुञ्च निद्रां उन्मेषमृच्छति तवोन्मिषितेन विश्वम् । जातः स्वयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतले त्वम् ।। 19.3        अश्रान्तसन्ततिभिराभरणप्रकाशैः आरात्रिकं प्रमुखयन्त्य इवोपचारम्। इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां पद्माननाः पदनिवेशनधन्यहस्ताः।। 19.4        वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं दौवारिकास्तव गृहीतसुजातवेत्राः। […]

यादवाभ्युदयः सर्गः-18

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ अष्टादशस्सर्गः 18.1        अथात्मचिन्तानुचरेण यास्यन् विहङ्गराजेन विभुः पुरीं स्वाम् । उवाच पत्नीं दशनांशुलक्षात् वमन्निवानन्दममान्तमन्तः।। 18.2        सत्ये समीक्षस्व विपारिजातां वृत्तेन हीनामिव वेदविद्याम् । निशामिव प्रोषितशीतभानुं नारीमनाथामिव नाकलक्ष्मीम् ।। 18.3        आलम्बिता नम्रमुखी भवत्या हस्तेन रक्ताङ्गुलिपल्लवेन। वदान्यवृक्षस्य विभाति शाखा वक्तुं वयस्येव रहः प्रवृत्ता।। 18.4        सुपर्णवेगानिलविप्रकीर्णैः सुरद्रुमैरन्तरितः सुमेरुः। आलक्ष्यते कालवशेन भूयः प्ररूढलूनैरिव पक्षजालैः।। […]

यादवाभ्युदयः सर्गः-17

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ सप्तदशः सर्गः 17.1     आतपत्रमथ तत् प्रचेतसो मन्दरस्य मणिशृङ्गमुन्नतम्। सावरोघमपि सात्त्वतां पतिं लीलयैव गरुडो वहन् ययौ।। 17.2     तं क्षिपन्तमधिकेन रंहसा मारुतस्य मनसोपि शीघ्रताम्। वालखिल्यसुकृतं विपक्त्रिमं प्राणमैक्षत बहिश्चरं प्रभुः।। 17.3     लोकतः खगरथेन मध्यमादुत्पतन्तमवनम्य माधवम्। निर्जराः स्तुतिभिरभ्यपूजयन् पुष्कलाभिरपि पुष्पवृष्टिभिः।। 17.4     पाञ्चजन्यनिनदोपहूतया पर्यचारि परितोषनिघ्नया। भक्तिभारनतया सदोन्नतः स्वर्गिणां परिषदा यदूद्वहः।। 17.5     प्राप्य यादवपतिस्त्रिविष्टपं […]

यादवाभ्युदयः सर्गः-16

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ षोडशः सर्गः 16.1     ऐरावतमथारुह्य श्वेताद्रिमिव जङ्गमम् । पुरीं द्वारवतीं शौरेराजगाम पुरन्दरः।। 16.2     अपत्यभावमापन्नमात्मानममृतोदधेः।निमेषरहितैः पौरैर्देवभूतैर्निरीक्षितम् ।। 16.3     अदृश्यं मन्दपुण्यानाममन्दप्रीतिदायिनम् । आत्तदेहमिव स्वर्गमासेचनकदर्शनम् ।। 16.4     महनीयपरिष्कारं वल्गुध्वजमतल्लिकम् । महोत्सवमिवाशानामाशाभ्यधिकसंपदम् ।। 16.5     उदधेरिव मन्थेन पीडितस्य समुत्थितैः। दृढलग्नैरिवोत्पत्तौ दीप्तं शोणितबिन्दुभिः।। 16.6     दैत्यदानवदर्पघ्नैर्दन्तैर्दलितमन्दरैः। सिंहानामपि हन्तारं सिंहवक्त्रविभूषणैः।। 16.7     मेरुकल्पेन रुपेण मेदिनीधृतिहेतुना । त्रिदशप्रीतिदातारं स्त्यानसिन्दूरधातुना […]

यादवाभ्युदयः सर्गः-15

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ पञ्चदशस्सर्गः 15.1     अथ पद्मभुवः पितुः सकाशादभिगच्छन् यदुपुङ्गवं दिदृक्षुः। मुनिरध्वनि वल्लकीसहायः प्रजगौ लास्यतरङ्गितप्रचारः।। 15.2     अहमस्मि पितामहस्य सूनुः स विभोरात्मभुवः सरोजनाभेः। भजते भुवि साम्प्रतं स देवः स्वयमेवानकदुन्दुभेः सुतत्वम् । 15.3     अवरोपितदोपसूनुभावः स नटाः सम्प्रति देवकीसुतस्सन् । परितोषितभावुकः स्ववृत्त्या श्रुतिलक्ष्यां महतीं प्रियामविन्दत् ।। 15.4     तदहं तमसः स्थितं परस्तादनपायद्युति भास्वतात्मनैव कमलोल्लसितेन दर्शनीयं […]

यादवाभ्युदयः सर्गः-14

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ चतुर्दशः सर्गः 14.1     अथैकदा रोधसि पश्चिमोदधेरदभ्रसत्राजितभक्तियन्त्रितः । त्रयीमयश्चन्द्रसमीकृतद्युतिः प्रसेदिवान् प्रादुरभूत् दिवाकरः (प्रभाकरः?) ॥ १ ॥ 14.2     अनल्पतेजोनिधिमप्रमाद्यतां प्रसूतिमिष्टस्य धनस्य भूयसः । स्वकण्ठलग्नं द्युमणिः स्यमन्तकं महामणिं भूमिभृते वरं ददौ ॥ २ ॥ 14.3     तमुग्रसेनार्थमियेष कंसजित् न वार्यते राजनि रत्नहारिता । प्रतीत्य सत्राजित एतदप्रियं क्वचिन्निचिक्षेप गुणाधिके(कं?) मणिम् ॥ ३ ॥ […]

यादवाभ्युदयः सर्गः-13

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ त्रयोदशः सर्गः 13.1     प्रसादभाजः प्रतिनिर्गतां तां प्रासादतो वासववल्लभायाः । समग्रशक्तिः समयोपयातः प्राणेश्वरीं प्राप्तुमियेष शौरिः ॥ १ ॥ 13.2     तामद्भुतां सिद्धिमिवाद्भुतानां सौभाग्यविद्यामिव सद्गुणानाम् । सत्तामनन्यामिव सद्गुणानां यथाश्रुतं प्रैक्षत यादवेन्द्रः ॥ २ ॥ 13.3     अङ्गैरवज्ञातकदम्बगोलैरस्पन्दमन्देन विलोचनेन । लीलोपशान्त्या लिखितेव साऽभूत् दामोदरे दृष्टिपथं प्रयाते ॥ ३ ॥ 13.4     पद्माकराणां परिषन्निवेशे पर्याप्तचन्द्रायुतकान्तिपू(सा)रे […]

यादवाभ्युदयः सर्गः-12

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ द्वादशः सर्गः 12.1     तथाविधानन्दमहापयोधेस्तरङ्गवृत्त्या भजतोवतारान् । अशेषरूपेष्वनुरूपरूपा देवी जगन्नेतुरनुप्रजज्ञे ।। 12.2     सा तस्य नित्योदितदिव्यधाम्नः पत्युः प्रिया भानुमतः प्रभेव । अध्यासितुर्द्वारवतीमदूरात् व्यक्तिं शुभां प्राप विदर्भदेशे ।। 12.3     शिखण्डकं निष्प्रतिमं श्रुतीनां शृङ्गारलीलोपमविश्वकृत्यम् । अधीयते तन्मिथुनं स्वभावादन्योन्यजीवातुमनन्यभोग्यम् ।। 12.4     दयेव नित्यं दयिता त्रिधाम्नः सर्वेषु भावेषु समानभावा । परावराणां जननी प्रजानामासीत् विदर्भाधिपतेरपत्यम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.