शतदूषणी दृश्यत्वानुमाननिरासवादः(15)

शतदूषणी ।।अथ दृश्यत्वानुमाननिरासवादः पञ्चदशः ।। 15।। अबाधादध्यक्षप्रभृतिमितिवर्गेष्ववधृतं शरीरं यस्येदं जगदखिलमन्तर्यमयितुः । स मे तर्कैरतैर्निजविभवल्लुण्टाकमथनैः प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ।। यदेतत् सन्मात्रग्राहिप्रत्यक्षदूषणान्ते भाष्यम् – “सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्व नाशित्वादयस्त्वयैवोक्ताः” इति । अनेन पश्यतोहराणां दृश्यत्वानुमानस्यानैकान्तिकत्वमपि सूचितम् । उत्तरत्रापि क्वचित् परमतव्याप्त्या प्रसङ्गं प्रायुङ्तः “ब्रह्म मिथ्या ज्ञानविषयत्वात्” इति । सांख्याधि करणे च व्याघातमसूचयत् – “दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम्” इति । योगाचारोक्त संवेदनहेतुनिरासेन […]

शतदूषणी वेदप्रामाण्यपरिग्रहानुपपत्तिवादः(14)

शतदूषणी ।।अथ वेदप्रामाण्यपरिग्रहानुपपत्तिवादः चतुर्दशः ।।14।। यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः । प्रमाणं यत्रैते नियतमपरिच्छेद्यविभवे । य एषामाहर्ता दनुजमथनो वाजिवदनः । स मे देवः श्रीमान् विदलयतु संमोहमखिलम् ।। वेदप्रामाण्यवाङ्मात्रकञ्चुकच्छन्नमर्मणाम् । बुद्धसिद्धान्तसुहृदां सन्तः पश्यन्तु बाध्यताम् ।।2।। अतीन्द्रिये हि धर्मादौ वेदाः प्रमाणमिति साधितं प्रथमकाण्डे । तदुपजीवनेन सिद्धेऽपि प्रामाण्यं शारीरके । अतस्तथागताद्यागमस्तत्त्वानुष्ठानयोरप्रमाणमिति सर्वमीमांसकसम्मतम् । तदेतत् संविन्मात्रव्यतिरिक्तमिथ्यात्ववादे न संगच्छते । तदुक्तमभियुक्तैः – […]

शतदूषणी भेददूषणनिस्तारवादः(13)

शतदूषणी ।। अथ भेददूषणनिस्तारवादः त्रयोदशः ।। 13 ।। श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तेष्वासनिर्गतः । भेदं बिभित्सतां चित्तं भिन्ते तर्कात्मकः शरः ।। यदेतत्स्वमर्मघट्टनम् – भेदः स्वरूपं धर्मोवा । न तावत् स्वरूपम्शुक्तिरजतादिभ्रमानुत्पत्तिप्रसङ्गात् । इदमित्यधिष्ठानतया हि शुक्तिस्वरूपमवगम्यते; अन्यथा निरधिष्ठानभ्रमप्रसङ्गात् । अवगते शुक्तिस्वरूपे तस्यैव रजताद्भेदत्वेन कथं शुक्तिरजतयोर्भेदाग्रहः? कथंतरां च तन्मूलः शुक्तौ रजताध्यासः कथंतमां च तदधीनाः कलधौताभिलाषिणः करतलप्रसारण – ग्रहण – चेलाञ्चलनिबन्धन – तद्रक्षणप्रभृतयः?। […]

शतदूषणी सन्मात्रग्राहिप्रत्यक्षभङ्गवादः(12)

शतदूषणी ।। अथ सन्मात्रग्राहिप्रत्यक्षभङ्गवादः द्वादशः ।।12।। यस्य सत्त्वेन विश्वस्य सत्ता सदसदात्मनः । प्रत्यक्षाद्यपरिच्छेद्यं तत्सदैकमुपास्महे ।। यत्तु प्रत्यक्षादिविरुद्धं शास्त्रार्थमुपपाद्य पुनस्सानुशयैरुक्तम् – प्रत्यक्षादिविरोधे सत्येव हि शास्त्रस्यबलीयस्त्वं वक्तव्यम् । विरोधमेव न पश्यामः; प्रत्युतैकरस्यम्; प्रत्यक्षस्यापि शास्त्रस्येव निर्विशेषसन्मात्र ग्राहित्वात् । ननु यदि सन्मात्रं प्रत्यक्षेण गृह्यते, तदा घटोऽस्ति पटोऽस्ति इत्यादिनानाकारवस्तु विषयोपलम्भव्यवहारयोर्विरोधः । न हि सत्सदित्येव प्रतीतिव्यवहाराविति चेत् – मैवम्; यथा इदं […]

शतदूषणी निर्विशेषविषयकनिर्विकल्पकभङ्गवादः(11)

शतदूषणी ।।अथ निर्विशेषविषयकनिर्विकल्पकभङ्गवादः एकादशः ।।11।। संप्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ शान्तावद्यं स्तिमितबहुलानन्दसन्दोहमन्तः । यत्तत् ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ।। यदेतदाहुः अस्ति तावन्निर्विकल्पकं नाम प्रत्यक्षम्; प्रथमाक्षसन्निपातसमनन्तरमविशिष्ट विषयापरोक्षाभासस्य दुरपह्नवत्वात् । अभ्युपेतं चैतत् सर्वैर्वादिभिः । ननु शाब्दास्तत्रापि शब्दानुवेधमिच्छन्ति, यथाऽऽहुः – “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ।।” […]

शतदूषणी निर्विशेषस्वप्रकाशभङ्गवादः(10)

शतदूषणी ।। अथ निर्विशेषस्वप्रकाशभङ्गवादः दशमः ।।10।। विचित्रं यत् स्वेन स्फुरति विषयाधारभिदुरं । तदेव ब्रह्मैकं विगुणमपि साक्षात्कृतमिति ।। वदन्तो वैयात्यात् बहुविहतिवात्याहतधियो । विधूयन्ते हन्त श्रुतिशतशिरश्शूलवचसः ।। य एष मन्त्रवादः-यद्यपि प्रमाणानि सर्वाण्यपि सविशेषमर्थमभिनिविशन्ते, तथाऽपि नस्वप्रकाशाध्यक्षसिद्धनिर्विशेषसंवित्सद्भावेन विमन्तव्यम्, अन्यथा धार्ष्ट्यात् सर्वापह्नवस्यापि दुर्निवारत्वात् । किंच संवित्स्वप्रकाशत्वं तावत् त्रय्यन्तविदां सर्वेषामविगीतम् । तत्र प्रकाशात्मतामात्रेण स्वतस्सिद्धायां संविदि न जडरूपधर्मानुप्रवेशावकाशः; प्रकाशात्मकास्तु न तत्वतो विवेक्तुं […]

शतदूषणी कथानधिकारवादः(9)

शतदूषणी ।।अथ कथानधिकारवादः नवमः ।।9।। हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः । जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ।। विस्तरेण कुदृष्टिमतमनुभाष्य, “तदिदम्”इत्यादिना, “न्यायानुगृहीतवाक्यप्रत्यक्षादिसकल प्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम्” (श्रीभाष्यं-जिज्ञा) इत्यन्तेन शिष्यान् प्रत्युपदिशतो भाष्यकारस्यायं भावः, सौगतानामिव प्रच्छन्नसौगतानामपि कथायामनधिकार इति । वेदार्थसंग्रहे च स्पष्टमाह, “सर्वशून्यवादिनो, ब्रह्मव्यतिरिक्तसर्ववस्तुमिथ्यात्ववादिनश्च स्वपक्षस्थापकप्रमाण पारमार्थ्यानभ्युपगमात् अभियुक्तैर्वादानधिकार एव प्रतिपादितः, “अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः” (श्लोकवार्तिके निरालंबनवादः125) इति । अयमाशयः, “यदि प्रपञ्चमिथ्यात्ववादी वादाधिकारिताम् । भजेन्माध्यमिकस्यापि भवेत् वादाधिकारिता” ।। “तथाच ब्रह्मतत्त्वं ते […]

शतदूषणी साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः(8)

शतदूषणी ।।अथ साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः अष्टमः ।।8।। शास्त्रैक्ये विषयाद्यभेदनियते सङ्गत्यधीन क्रमे कर्माऽऽलोच्य तदङ्गिकामथ परां विद्यामुपादित्सुभिः। यस्तद्वेद्यतया स्वयंफलतयाऽप्यारोहति ज्ञेयतां कुर्वीतैष विभुः श्रिया सह मम स्वान्तं निजान्तः पुरम् ।। इह तावत् आनन्तर्यार्थे प्रचुरप्रसिद्धिकं अथशब्दमादौ प्रयुञ्जानस्य सूत्रकारस्य तत्सम्भवे तदर्थतैवाभिमतेत्यङ्गीकार्यम् । तत्सम्भवश्च यदि नियतपूर्ववृत्तमसाधारणं तथात्वज्ञापने स प्रयोजनं चकिमपि स्यात्, तदा स्यात् । अन्यथा न स्यात्। यथा”अथ योगानुशासनम्”(पा.योग.सू.1.1) इत्यादौ । न हि […]

शतदूषणी शब्दजन्यप्रत्यक्षभङ्गवादः(7)

शतदूषणी ।।अथ शब्दजन्यप्रत्यक्षभंगवादः सप्तमः ।।7 ।। विभूत्यंशे यस्य स्फुरति जगतामक्षमखिलं । श्रुतिर्जात्यन्धानामुपदिशति यं रूपमिव नः । निजाध्यक्षप्रेक्षाचुलकितसमस्तः स्वयमसौ । हृषीकेशो दिव्यं दिशतु मम चक्षुः स्वविषयम् ।। यदूचिरे यद्यपि तत्त्वमस्यादिवाक्यश्रवणसमयसम्भवं परोक्षं ज्ञानमविद्यां न निवर्तयति, तथाऽपि श्रवणादिभिर्निरस्तसमस्तभेदवासनामूलासम्भावनाविपरीतसम्भावनाख्यचित्तविक्षेपलक्षणप्रतिबन्धस्य तदेव वाक्यमविद्यानिवर्तकमपरोक्षं ज्ञानं जनयति । न च शब्दस्य कथमपरोक्षधीहेतुत्वमिति वाच्यम्, इन्द्रियस्यापि कथमिति प्रसङ्गात् । दर्शनादिति चेत्, तुल्यम् । क्व तद्दर्शनमिति […]

शतदूषणी विविदिषासाधनत्वभङ्गवादः(6)

शतदूषणी ।।अथ विविदिषासाधनत्वभङ्गवादः षष्ठः ।।6।। दृष्टानुश्रविकार्थजातविमुखान् पुंसोऽधिकृत्य श्रुतौ यज्ञादिर्यदुपास्तिसाधनतया साक्षाद्विधिं प्राप्नुते ।  लीलाभोगविभूतियुग्मभरितस्वात्मप्रदानोन्मुखः श्रीमानस्तु स मे समस्तदुरितोत्ताराय नारायणः ।। यदुच्यते, “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृह-6-4-22) इत्यत्र यज्ञादिकं विविदिषासाधनत्वेन विधीयते, न तु वेदनसाधनत्वेन, वस्तुविरोधात्; श्रुत्यक्षरपर्यालोचनाच्च । विविदिषन्तीति हि श्रूयते; न पुनः विदन्तीति । तत्र ब्रूमः,कोऽसौ वस्तुविरोधस्तावत्? किं ज्ञानस्य यज्ञादिभिस्साधयितुमशक्यत्वम्? उत तेषां ज्ञानाङ्गभूतशमादिप्रत्यनीकात्मत्वम्? यद्वा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.