32 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ।। 3.32.1 ।। दूषणं च खरं चैव हतं त्रिशिरसा सह । दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ।। 3.32.2 ।। तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सो ऽस्तु मे मुदे ।। तत इति । शूर्पणखीत्यार्षो ङीषादिः । महानादमिति क्रियाविशेषणम् […]
31 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत् ।। 3.31.1 ।। एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता गन्थसन्दर्भेण उत्तरखण्डार्थो विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्तिदशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्खरवृत्तिरुक्ता, ततः खरवधान्तवृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ […]
30 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ।। 3.30.1 ।। एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ।। 3.30.2 ।। निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ।। भित्त्वा त्वित्यादि । धर्मवत्सल इत्यनेन निरायुधवधो ऽनुचित इति श्रीरामो ऽमन्यतेति गम्यते । स्मयमानः […]
29 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ।। 3.29.1 ।। अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये ।। सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तच्चित्तपरीक्षार्थमाह खरं त्वित्यादिना । मृदुपूर्वं न्यायावलम्बनेनोक्तम् । परुषं मर्मोद्घाटनरूपत्वात् ।। 3.29.1 ।। गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् […]
28 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ।। 3.28.1 ।। महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्क्तुं खरोपकरणं हन्तारं राममाश्रये ।। निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । स्थितस्य खरस्य त्रासो ऽभवदिति योजना ।। 3.28.1 ।। स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । हतमेकेन रामेण […]
27 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ।। 3.27.1 ।। त्रिशिरःशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ।। खरं त्विति । वाहिनीपतिः सेनापतिः । सन्निपत्य समीपमागत्येत्यर्थः ।। 3.27.1 ।। मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम् ।। 3.27.2 ।। साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयेति […]
26 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् । राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ।। 3.26.1 ।। अथ दुषणप्रमुखसर्वसैन्यविनाशः षङ्विंशे दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्नश्चेत्यर्थः । भीमवेगान् भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्वं हतेति व्यज्यते ।। 3.26.1 ।। ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि । शरवर्षैरविच्छिन्नं […]
25 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरस्सरैः ।। 3.25.1 ।। तुमुलयुद्धं पञ्चविंशे अवष्टब्धेत्यादि । धन्यत इति धनुः । “धन धान्ये” इत्यस्माद्धातोः “भृमृशीतृ़चरितत्सरितनिधनिमिमस्जिभ्य उः” इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां च धनुं विदुः, धनुरिवाजनि वक्रः” इति कविकाव्यप्रयोगश्च ।। 3.25.1 ।। तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् […]
24 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्विंशः सर्गः आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श ह ।। 3.24.1 ।। तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान् । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ।। 3.24.2 ।। अथ रामस्य युद्धसन्नाहश्चतुर्विंशे आश्रममित्यादि । औत्पातिकानिति स्वार्थे ठक् ।। 3.24.1,2 ।। इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ।। 3.24.3 ।। […]
23 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोविंशः सर्गः तस्मिन् याते जनस्थानादशिवं शोणितोदकम् । अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ।। 3.23.1 ।। अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयोविंशे तस्मिन् यात इत्यादि । अशिवम् अशुभावहम् । शोणितोदकम् रक्तवर्णजलम् । तुमुलः सङ्कुलः । गर्दभारुणः गर्दभवद्धूसरः । 3.23.1 ।। निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ।। 3.23.2 ।। निपेतुः स्खलिताः । […]