116 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग: प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। 2.116.1 ।। अथ रामस्य चित्रकूटान्निर्गमनं षोडशोत्तरशततमे–प्रतिप्रयात इत्यादि । सोद्वेगं सभयम् । औत्सुक्यम् आश्रमान्तरगमनाभिलाषं लक्षयामास इङ्गिताकारादिभिरिति शेष: ।। 2.116.1 ।। ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। 2.116.2 ।। य इति । पुरस्तात् पूर्वं चित्रकूटस्य तापसाश्रमे राममाश्रित्य ये निरतास्तान् । […]

115 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ततो निक्षिप्य मातृ़: स अयोध्यायां दृढव्रत: । भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।। 2.115.1 ।। अथ भरतस्य नन्दिग्रामे स्थित्वा राज्यपरिपालनं पञ्चदशोत्तरशततमे–तत इत्यादिना ।। 2.115.1 ।। नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। 2.115.2 ।। गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स […]

114 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। 2.114.1 ।। पूर्वसर्गान्तिमश्लेकोक्तं विस्तरेण दर्शयति चतुर्दशोत्तरशततमे–स्निग्धगम्भीरघोषेणेत्यादि । उपयान् समीपमागच्छन् ।। 2.114.1 ।। बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। 2.114.2 ।। कालीं कृष्णपक्षसम्बन्धिनीम् ।। 2.114.2 ।। राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। 2.114.3 ।। अल्पोष्णक्षुब्धसलिलां […]

113 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: तत: शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। 2.113.1 ।। अथ भरतस्यायोध्याप्रवेश: त्रयोदशोत्तरशततमे–तत इत्यादि । पादुके शिरसि कृत्वा शत्रुञ्जयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूर्ध्न्याधायेत्यर्थ: ।। 2.113.1 ।। वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रत: । अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। 2.113.2 ।। वसिष्ठ इति । मन्त्रपूजिता: अमोघकार्यविचारनैपुण्यात्पूजिता: […]

112 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग: तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ।। 2.112.1 ।। अथ भरतस्य समाधानं कृत्वा प्रस्थापनं द्वादशोत्तरशततमे–तमित्यादि । भातृभ्यां सङ्गमं भातृभ्यामन्योन्यसौहार्देन कृतं सङ्गमं प्रेक्ष्य विस्मिता अभूवन्निति शेष: ।। 2.112.1 ।। अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: । तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ।। 2.112.2 ।। अन्तर्हिता इति । अन्तर्हिता: पूर्वमेवान्तर्धानं […]

111 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग: वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहित: । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। 2.111.1 ।। अथ रामनिवर्त्तनोपायान् पुनरुपन्यस्य निरस्यति एकादशोत्तरशततमे–वसिष्ठस्त्वित्यादिना ।। 2.111.1 ।। पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: । आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। 2.111.2 ।। एवं कुलधर्मोपपादनेपि सर्वं तत्पितृनियोगव्यतिरिक्तविषयमिति मत्वा तूष्णींस्थितस्य रामस्याशयं जानन् वसिष्ठ: पुनर्निवर्त्तनहेत्वन्तरमाह–पुरुषस्येत्यादिना ।। 2.111.2 ।। पिता ह्येनं जनयति […]

110 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।। 2.110.1 ।। अथ वसिष्ठो जाबालिवचनयाथार्थ्यप्रदर्शनेन तद्विषयकोपं निवर्त्त्य स्वाभिमतं ज्येष्ठस्यैव राज्यार्हतारूपं निवर्त्तनोपायं प्रतिपादयति–क्रुद्धमित्यादिना । लोकस्य जनस्य गतं गमनम् । भावे निष्ठा । परलोकप्राप्तिं तत इहागतिं च जानीते, नासौ नास्तिक इत्यर्थ: ।। 2.110.1 ।। निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्तिं […]

109 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग: जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। 2.109.1 ।। अथ जाबालिमतनिरासपूर्वकं वैदिकमतस्थापनं नवोत्तरशततमे सर्गे–जाबालेरित्यादिना । सत्यात्मनां सत्यबुद्धीनां भक्त्या वैदिकधर्मश्रद्धया । अविपन्नया जाबालिवचनै: सांदृष्टिकैरप्यचलितया ।। 2.109.1 ।। भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। 2.109.2 ।। भवानिति । प्रियकामार्थं प्रियविषयेच्छासिद्ध्यर्थं यद्वचनमुक्तवान् […]

108 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग: आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: । उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ।। 2.108.1 ।। एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे–आश्वासयन्तमित्यादिना । ब्राह्मणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनमहृदयमिति द्योत्यते । धर्मापेतं वैदिकधर्मापेतम् ।। 2.108.1 ।। साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ।। 2.108.2 ।। साध्विति । बुद्धि: साधु माभूत् […]

107 Sarga अयोध्याकाण्डम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ।। 2.107.1 ।। उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।। 2.107.2 ।। पुनरित्यादि । अभिसत्कृत: भरतेन स्तोत्रादिना सम्यगभिपूजित: ।। 2.107.12 ।। पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।। 2.107.3 ।। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.