श्रीभाष्यम् 03-03-15 अन्तरत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम्॥ १५ ॥ (अधिकरणार्थः – उषस्त-कहोलयोः प्रश्न-प्रतिवचनाभ्याम् अवगता विद्या एकैव, न भिन्ना) ३८९. अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३–३–३५ ॥ (विचारणीयस्य विषयोपस्थापनम्) बृहदारण्यके उषस्तप्रश्न एवमाम्नायते  यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: तं मे व्याचक्ष्व (बृ.५.४.१) इति । तस्य प्रतिवचनं  य: प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा इत्यादि । अतुष्टेन तेन पुन: पृष्ट […]

श्रीभाष्यम् 03-03-14 अक्षरध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम्॥१४॥ (अधिकरणार्थः – अक्षरपरब्रह्मविद्योक्तानां अस्थूलत्वादीनां ब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः) ३८७. अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३–३–३३ ॥ (विचारणीयविषयोपस्थापनम्) बृहदारण्यके श्रूयते  एतद्वै तदक्षरं गार्गि ब्रह्मणा अभिवदन्ति अस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुश्श्रोत्रं अवाङ्मनः अतेजस्कं अप्राणमसुखममात्रमनंतरमबाह्यं न तदश्नाति किञ्चन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृह.५.८.८) इति। तथा आथर्वणे अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् (मु.१.१.५) इति । (संशयस्वरूपम्) तत्र संशय: […]

श्रीभाष्यम् 03-03-13 अनियमाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम् ॥१३॥ (अधिकरणार्थः – अर्चिरादिगतेः वेदान्तावगतसर्वविद्यासाधारणत्वम्, न तु विशेषनियतत्वम्) ३८६. अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥ ३–३–३२ ॥ (विचारणौपयिकः संशयः) उपकोसलादिषु येषूपासनेष्वर्चिरादिगति: श्रूयते; किं तन्निष्ठानामेव तया ब्रह्मप्राप्ति:, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशये, (पूर्वपक्षः सहेतुकः) इतरेष्वनाम्नानात्,  ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१)  श्रद्धां सत्यमुपासते (बृ.८.२.१५) इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तन्निष्ठानामेव – (सूत्रतः सिद्धान्तवर्णनम्) इति प्राप्तेऽभिधीयते –  अनियम: – इति । सर्वेषां – […]

श्रीभाष्यम् 03-03-12 साम्परायाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम्॥१२॥ (पर्यङ्कविद्या – कौषी.उ.1) (अधिकरणार्थः – विदुषः देहादपक्रमणसमये एव पुण्यपापयोर्निरवशेषहानचिन्तनम्) ३८१. साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ३–३–२७ ॥ (उक्तानुवादेन सङ्गत्यभिव्यञ्जनम्) सुकृतदुष्कृतयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम् । (विचारोपयोगी संशयः) तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये (युक्त्या पूर्वपक्षः) उभयत्रेति युक्तम्, उभयथा श्रुतत्वात्; एवं हि कौषीतकिनस्समामनन्ति  स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति (कौषी.१.३.४) इत्युपक्रम्य  स आगच्छति […]

श्रीभाष्यम् 03-03-11 हान्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये हान्यधिकरणम्॥११॥ (अधिकरणार्थः – विविधश्रुतिप्रतिपन्नयोरपि विदुषः पुण्य-पापहानोपायनयोः समन्येन सर्वविद्यासु चिन्तनम्) ३८०. हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम्  ॥ ३–३–२६ ॥ (विचारणीयविषयोपस्थापनम्) छन्दोगा आमनन्ति –  अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१३.१) इति; आथर्वणिकाश्च  तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति; शाट्यायिनस्तु  तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्त: पापकृत्याम् इत्यादि; कौषीतकिनस्तु  तत्सुकृतदुष्कृते […]

श्रीभाष्यम् 03-03-10 वेधाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम्॥१०॥ (अधिकरणार्थः – शुक्रं प्रविध्येत्येवमादीनां आथर्वणिकादिभिरधीयमानानां मन्त्राणां अध्ययनाङ्गत्वमेव, न विद्याङ्गता) (विचारणीयविषयोपस्थानम्) ३७९. वेधाद्यर्थभेदात् ॥ ३–३–२५ ॥ (विचारणीयविषयोपस्थानम्) आथर्वणिका उपनिषदारम्भे  शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) इत्यादीन्मन्त्रानधीयते; सामगाश्च रहस्यब्राह्मणारम्भे  देव सवित: प्रसुव यज्ञं प्रसुव (साम.ब्रा.१.१.१) इत्याद्यामनन्ति, काठकास्तैत्तिरीयकाश्च  शं नो मित्रश्शंवरुण: (तै.शि.१) इत्यादिकम्; शाट्यायनिश्च  श्वेतोऽश्वो हरिनीलोऽसि इत्यादिकम्; ऐतरेयिणस्तु महाव्रतब्राह्मणमधीयते  इन्द्रो ह वै वृत्रं हत्वा महानभवत् इत्यादि; कौषीतकिनोऽपि […]

श्रीभाष्यम् 03-03-09 पुरुषविद्याधिकरणम्

 श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम्॥९॥ (पुरुषविद्या तै.ना. 64, छा.उ. 3-16) (अधिकरणार्थः – तैत्तरीयक-छान्दोग्य श्रुत्युक्तयोः पुरुषविद्ययोः. रूपाभेदादिकृतो भेदः) ३७८. पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३–२–२४ ॥ (विचारणीयविषयोपस्थापनम्) तैत्तिरीयके पुरुषविद्याऽम्नायते  तस्यैवं विदुषो यज्ञस्याऽत्मा यजमानश्श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हि: (तै.नारा.५२) इत्यादिका। छान्दोग्येऽपि पुरुषविद्याऽम्नायते  पुरुषो वाव यज्ञस्तस्य यानि चतुर्ंिवशतिवर्षाणि (छा.३.१६.१) इत्यादिका । (संशयकोटिनिर्देशः) तत्र संशय: – किमत्र विद्या भिद्यते, उत नेति । (पूर्वपक्षः सहेतुकः) […]

श्रीभाष्यम् 03-03-08 सम्भृत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥ (अधिकरणार्थः – शास्त्राविशेषश्रुतानां सम्भृत्यादीनां ब्रह्मगुणानां सर्वविद्यास्वनुपसंहारः) ३७७. सम्भृतिद्युव्याप्त्यपि चात: ॥ ३–३–२३ ॥ (विचारणीयविषयोपस्थापनम्) तैत्तिरीयके नारायणीयानां खिलेषु च  ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हाति ब्रह्मणा स्पर्धितुं क: इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृति: द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम् । (अधिकरणीयपूर्वपक्षशरीरम्) तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्यासूपसंहारे प्राप्त (सूत्रतः सिद्धान्तार्थः) उच्यते –              सम्भृतिद्युव्याप्त्यपि इति […]

श्रीभाष्यम् 03-03-07 सम्बन्धाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम्॥७॥ (व्याहृतिशरीरकाक्ष्यादित्यविद्या – बृ. 7-4, 5)  (अधिकरणार्थः – उपासनाधिष्ठानभेदात् विद्याभेदनिरूपणम्) ३७४. सम्बन्धादेवमन्यत्रापि ॥ ३–३–२० ॥ (प्रकृतविचारणीयविषयोपस्थापनम्) बृहदारण्यके श्रूयते – सत्यं ब्रह्म (बृ.७.४२) इत्युपक्रम्य  तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो, यश्चायं दक्षिणेऽक्षन् (बृ.७.५.१) इत्युपक्रम्य आदित्यमण्डलेऽक्षिणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा  तस्योपनिषदहरित्यधिदैवतम् (बृ.७.५.३)  तस्योपनिषदहमिति अध्यात्मम् (बृ.७.५.३) इति द्वे उपनिषदौ – रहस्यनामनी उपासनशेषतया आम्नायेते । (विचारणीयविषये संशयः) […]

श्रीभाष्यम् 03-03-06 समानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥ (अधिकरणार्थः – अग्निरहस्य-बृहदारण्यकोक्तयोः शाण्डिल्यविद्ययोरैक्यम्) ३७३. समान एवं चाभेदात् ॥ ३–३–१९ ॥ (विचारणीयविषयोपस्थापनम्) वाजसनेयके  अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता  सत्यं ब्रह्मेत्युपासीत, अथ खलु क्रतुमयोऽयं पुरुष: (वाजसनेयके  अग्निरहस्ये १०.६) इत्यारभ्य स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (वाजसनेयके अग्निरहस्ये १०.६) इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते  मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.