अधिकरणसारावली संभृत्यधिकरणम्

अधिकरणसारावली संभृत्यधिकरणम् 3.3.25    सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावतस्सर्वविद्या- स्वन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघटितवपुषस्स्वोचितस्थानवृत्तेः द्युव्याप्तेरेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये ।।

अधिकरणसारावली सम्बन्धाधिकरणम्

अधिकरणसारावली सम्बन्धाधिकरणम् 3.3.24   अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदात् एकं स्यात् तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै ह्युपदिशति न चेत् स्यान्न रूपातिदेशः तस्मादर्काक्षिय़ोगादहरहमिति तन्नामनी स्थापनीये ।।

अधिकरणसारावली समानाधिकरणम्

अधिकरणसारावली समानाधिकरणम् 3.3.21    शाखैक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयः तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनूक्तिर्नतु गुणविधये कल्पतेऽस्यास्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ।। 3.3.22    छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तद्ब्रूमो यत्रयत्राधिकपरिपठनं तत्रतत्राधिकानां अन्तर्भावादियुक्तावधिकमनधिकं वेति साधारणोक्तेः ।। 3.3.23    स्थानद्वन्द्वे वशित्वप्रभृतिविरहिता वाजिभिस्तद्युता चा- धीता शाण्डिल्यविद्या तदिह भिदुरता […]

अधिकरणसारावली कार्याख्यानाधिकरणम्

अधिकरणसारावली कार्याख्यानाधिकरणम् 3.3.19    आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यात् मैवं स्मृत्यादिसिद्धेः परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ।। 3.3.20    आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्ट्यै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यलाभाभिनन्द्या । युक्तश्चापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्चाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ।।

अधिकरणसारावली आनन्दाद्यधिकरणम्

अधिकरणसारावली आनन्दाद्यधिकरणम् 3.3.14    नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्यां रूपं विद्यान्तरस्य प्रकरणपठितं नान्यदन्यत्र योज्यम् । तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीयाः मैवं ब्रह्मस्वरूपावगतिरिह यतस्तद्धि सर्वास्वपेक्ष्यम् ।। 3.3.15    सत्यत्वं विश्वहेतौ बहुविधचिदचिद्विक्रियाजालहानेः ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च । त्रिद्व्येकाभिस्तु सर्वं प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत् तस्यानन्त्यं वियोगात् तिसृभिरपि सदा निर्मलानन्दधाम्नः ।। 3.3.16    उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न […]

अधिकरणसारावली सर्वाभेदाधिकरणम्

अधिकरणसारावली सर्वाभेदाधिकरणम् 3.3.13    ज्यैष्ठ्यश्रैष्ठ्यादिसाम्ये क्वचन समधिकं भाति वासिष्ठ्यपूर्वं तेनेत्थं रूपभेदाद्बहुनिगमगता भिद्यतां प्राणविद्या । मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषात् वागाद्यैस्स्वस्वधर्मोपचरणमकृतं तावता स्यान्न भेदः ।।

अधिकरणसारावली अन्यथात्वाधिकरणम्

अधिकरणसारावली अन्यथात्वाधिकरणम् 3.3.9      प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयश्च गेये सकलमसकल़ञ्चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिध्येत् ।। 3.3.10    छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः कृत्स््नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद््गीथोक्तिश्च नैषामुपचरितवती गातरि प्रक्रमस्था तत्कर्त्रा साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ।। 3.3.11    यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयनमुखैर्ब्रह्मविद्योपयुक्तैः […]

अधिकरणसारावली सर्ववेदान्तप्रत्ययाधिकरणम्

अधिकरणसारावली सर्ववेदान्तप्रत्ययाधिकरणम् 3.3.6      भेदश्शब्दान्तराद्यैर्विधिषु नियमितः कर्मकाण्डे द्वितीये संयोगाद्यैक्यतोऽन्यस्समुदितनियतात् सैव विद्यासु नीतिः । आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदात् श्रुत्यैवाक्षिप्य भूयः प्रतिसमधित तं भेदकान्यार्थतोक्त्या ।। 3.3.7      शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् । तेषामेवेति वाक्यात् क्वचिदुपजनिता भेदशङ्का त्वयुक्ता स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्व्रतेनान्वयोक्तेः ।। 3.3.8      रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यमन्यो गुणश्चेत् भेदो न स्याद्विकल्पं […]

अधिकरणसारावली उपोद्घातम्

अधिकरणसारावली अथ तृतीयाध्याये तृतीय: पाद: उपोद्घातम् 3.3.1      तत्त्वज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं तत्त्वे निर्धूततर्कज्वरनियतमहासन्निपातप्रलापान् । निष्पन्ने तत्त्वबोधे न किमपि विदुषा साध्यमित्युद््गृणद्भ्यो यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिलाभाय वक्ति ।। 3.3.2      भीष्माभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यत् तृष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् । इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे पादद्वन्द्वे परस्मिन्तदिह बहुभिदाबर्बरं निर्ब्रवीति ।। 3.3.3      […]

अधिकरणसारावली फलाधिकरणम्

अधिकरणसारावली फलाधिकरणम् 3.2.27    आराध्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणां अध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्योदितानाम्। अत्राप्येतावतोक्ते भवभयचकिताप्राप्त्युपाल्त्येकलक्ष्यः तत्तच्छास्रार्थयोग्यं दिशति फलमिति स्थाप्यतेऽथात्युदारः।। 3.2.28    कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वान्यथा वा धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः। तस्मादीशप्रसादात्फलमिति तु वचस्तत्प्रशंसेति चेन्न श्रौताराध्यप्रसादत्यजनकनतोऽपूरवक्लृप्तेरयोगात्।। 3.2.29    यद्यप्याराध्यमूलं फलमपि फलितं देवताधिक्रियायां कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि। साक्षित्वानादरत्वप्रभृतिपरगुणान् प्रेक्ष्य तत्प्रीणनादौ शङ्कातङ्कैर्निरुद्धंस्तवरयितुमधुना तादृशोदारतोक्तिः।। 3.2.30    सम्राजस्सानुकम्पातपितुरुचितविदस्साम्यभाजो वदान्यात् स्थाने विन्दन्ति पुत्रा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.