वेदान्तदीप: Ady 04 Pada 02
वेदान्तदीप: ॥ चतुर्थाध्याये द्वितीय: पाद:॥ ४–२–१ ४८९। वाङ्मनसि दर्शनाच्छब्दाच्च – अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मन: प्राणे इत्यादिकोत्क्रान्तिविषया आम्नायते। तत्र किं वागिन्द्रियं मनसि संपद्यते, उत वाग्वृत्तिमात्रमिति संशय:। वाचो मन:प्रकृतित्वाभावात्स्वरूपलयस्तत्र न संभवतीति वाग्वृत्तिमात्राभिप्रायमिति पूर्वपक्ष:। राद्धान्तस्तु – अकारणे संपत्त्यभावस्य वाग्वृत्तावपि तुल्यदर्शनात्। वाङ्मनसि इति वाक्स्वरूपस्यैव संपत्ति:। शब्दाच्च स्वरूपमेव संपद्यते वाङ्मनसि संपद्यते इति वाक्स्वरूपसंपत्तावेव हि शब्द:; न वृत्तिमात्रसंपत्तौ। […]
वेदान्तदीप: Ady 04 Pada 01
वेदान्तदीप: चतुर्थाध्याये प्रथम: पाद: ४–१–१ ४७०। आवृत्तिरसकृदुपदेशात् – ब्रह्मविदाप्नोति परम्, तमेवं विद्वानमृत इह भवति इत्यादि वेदान्तविहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थ:, उतासकृदावृत्तमिति संशय:। सकृत्कृतम् एवेति पूर्व: पक्ष:। स यो ह वै तत्परमं ब्रह्मवेद ब्रह्मैव भवति इत्यादौ वेदनस्यैव मुक्त्युपायत्व- प्रतिपादनात्, सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्ते:, तस्यासकृदावृत्तौ प्रमाणाभावात्। राद्धान्तस्तु – यस्तद्वेद यत्सवेद स मयैतदुक्त इत्युपक्रम्य अनु म एतां भगवो देवतां […]
वेदान्तदीप: Ady 03 Pada 04
वेदान्तदीप: ॥ अथ तृतीयाध्याये चतुर्थ: पाद:॥ ३–४–१ ४१९। पुरुषार्थोऽतश्शब्दादिति बादरायण: – किं विद्यात: पुरुषार्थ:, उत कर्मण इति संशय:। कर्मण इति पूर्व: पक्ष:; कर्मङ्गत्वाद्विद्याया:। कर्मसु कर्तृभूतप्रत्यगात्मनो याथात्म्यप्रतिपादन-पराणि वेदान्तवाक्यानि। विद्याया: कर्माङ्गत्वं च। यदेव विद्यया करोति तदेव वीर्यवत्तरम् इति श्रुत्यैवावगम्यते। न च प्रकृतोद्गीथोपासनविषयत्वमस्य वक्तुं शक्यते, यदेव विद्यया करोति इति श्रुत्यैव सर्वकर्मसु विद्याया विनियुक्तत्वात्। श्रुतिश्च प्रकरणाद्बलीयसी। विद्याया: कर्माङ्गत्वं कथमित्यपेक्षायां […]
वेदान्तदीप: Ady 03 Pada 03
वेदान्तदीप: ॥ अथ तृतीयाध्याये तृतीय: पाद:॥ ३–३–१ ३५५। सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् – किं सर्वेषु वेदान्तेषु श्रूयमाणा दहरादिविद्या एकैव, उत विद्यान्तरमिति संशय:, अविशेषपुनश्श्रवणस्य प्रकरणान्तरस्य च विद्याभेदहेतुत्वात् विद्यान्तरमिति पूर्व: पक्ष:। चोदनाफलसंयोगरूपाख्यानामविशेषात्, प्रतिपत्तृभेदेन पुनश्श्रवणोपपत्ते:, तत एव प्रकरणान्तरत्वाभावाच्च विद्यैक्यमिति राद्धान्त:, विद्यासु गुणोपसंहारादि चिन्तार्थं शाखान्तराधिकरणोक्तन्याय: तत्फलं च स्थिरीकृतम्, सूत्रार्थस्तु – सर्ववेदान्तप्रत्ययमेकं दहराद्युपासनम्, कुत:? चोदनाद्यविशेषात्॥१॥ ३५६। भेदान्नेति चेदेकस्यामपि – अविशेषपुनश्श्रुत्या विद्याभेदावगमान्न […]
वेदान्तदीप: Ady 03 Pada 02
वेदान्तदीप: ॥अथ तृतीयाध्यायस्य द्वितीय: पाद:॥ ३–२–१ ३१५। सन्ध्ये सृष्टिराह हि – स्वप्नमधिकृत्य श्रूयते, न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथस्सृजतत इत्यारभ्य, अथ वेशान्तान्पुष्करिण्यस्स्रवन्त्यस्सृजते स हि कर्ता, इति। किं स्वाप्नानामर्थानां स्रष्टा जीव एव, उत परमात्मेति संशय:, स्वप्नदृशो जीवस्य सन्निधानात् , स हि कर्ता इति स एव परामृश्यते। जीवस्यापि सत्यसङ्कल्पत्वं प्रजापतिवाक्योदितं इति स एव स्रष्टेति […]
वेदान्तदीप: Ady 03 Pada 01
वेदान्तदीप: ॥अथ तृतीयाध्यायस्य प्रथम पाद:॥ ३–१–१ २८८। तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् – देही देहान्तरगमने देहकारणभूतैर्भूतसूक्ष्मैस्संयुक्तो गच्छति, नेति संशय:, न संयुक्तो गच्छतीति पूर्व: पक्ष:, देहारम्भाय तत्र तत्र भूतसूक्ष्माणां सुलभत्वात्, राद्धान्तस्तु – पञ्चाग्निविद्यायां, वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रश्नप्रतिवचने आम्नायेते। देहारम्भिका आपस्त्रिवृत्करणेन भूतान्तरसंसृष्टा: द्युलोकपर्जन्यपृथिवीपुरुषरूपाग्निषु जीवेन सह प्रविष्टा: पञ्चम्यामाहुतौ योषिदग्निप्रवेशवेलायां पुरुषशब्दाभिलपनीया भवन्तीति […]
वेदान्तदीप: Ady 02 Pada 04
वेदान्तदीप: ॥अथ द्वितीयाध्याये चतुर्थ: पाद:॥ २–४–१ २६९। तथा प्राणा: – किं जीववदिन्द्रियाण्यपि नोत्पद्यन्ते, उत वियदादिवदुत्पद्यन्त इति संशय:। नोत्पद्यन्त इति पूर्व: पक्ष:। प्रलयकाले अवस्थानश्रुते:। उत्पत्तिवादा: जीवोत्पत्तिवादवन्नेया:। असद्वा इदमग्र आसीत्॥ ऋषयो वाव तेऽग्रे सदासीत् के ते ऋषय इति प्राणा वा व ऋषय:। इतीन्द्रियाणां तदानीं स्थितिश्श्रूयते। राद्धान्तस्तु – प्राक्सृष्टेरेकत्वावधारणात्, इन्द्रियाणाम्। एतस्माज्जायते इत्युत्पत्तिवादात्, उत्पत्तिनिषेधनित्यत्ववचनाभावाच्च, वियदादिवदुत्पद्यन्ते। प्राणा वा व ऋषय: […]
वेदान्तदीप: Ady 02 Pada 03
वेदान्तदीप: अथ द्वितीयाध्याये तृतीय: पाद:। २–३–१ २१७। न वियदश्रुते: – वियदुत्पद्यते, नेति संशय:। नोत्पद्यत इति पूर्व: पक्ष:। निरवयवस्य सर्वगतस्यात्मन इवोत्पत्यसंभवात्। असंभावनीयस्य श्रवणं च न संभवति। अत उत्पत्तिश्रुतिर्गौणीति। राद्धान्तस्तु वियदुत्पद्यत एव, उत्पत्तिश्रुते:। अतीन्द्रीयार्थविषयया श्रुत्याऽभिहितेऽर्थे निरवयवत्वादिहेतुकं नानुत्पत्त्यनुमानमुदेतुमलम्। आत्मनोऽप्यनुत्पत्तिश्रुतेरेव नित्यत्वम्, न निरवयवत्वादिना। सूत्रार्थस्तु न वियदश्रुते:, वियन्नोत्पद्यते। कुत:? अश्रुते:। अश्रवणात्, असंभावनीयस्य श्रवणासंभवात्॥१॥ २१८। अस्ति तु – अस्ति तु […]
वेदान्तदीप: Ady 02 Pada 02
वेदान्तदीप: ॥अथ द्वितीयाध्याये द्वितीय: पाद:॥ २–२–१ १७५। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – साङ्ख्यतन्त्रसिद्ध: प्रधानकरणवाद: किं समीचीनयुक्तिमूल:, उत नेति संशय:। समीचीनयुक्तिमूल इति पूर्व: पक्ष:। घटादिवद्विचित्रसन्निवेशं जगत्कार्यम् तद्वदेव स्वसरूपकारणविशेषारब्धम्। सुखदु:खमोहाद्यात्म-कतया सत्त्वाद्यात्मकं जगत्सत्त्वरजस्तमोमूलकम्। तत्र महदादिपृथिव्यन्तानां घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगदुत्पत्तौ कारणकाष्ठा न भवन्ति। तेषां परिमितत्वेन अपरिमितजगदुत्पादनाशक्ते:। अन्यूनानतिरिक्तानि साम्यावस्थान्यपरिमितानि सत्त्वरजस्तमांसि अव्यक्तप्रधानादिशब्दाभिधेयानि जगत्कारणम्। राद्धान्तस्तु – रथप्रासादादिहेतुभूतदार्वादिवदचेतनं प्रधानं स्वस्वभावाद्यभिज्ञचेतनानधिष्ठितं विचित्रजगद्रचनासमर्थमिति न केवलं […]
वेदान्तदीप: Ady 02 Pada 01
वेदान्तदीप: ॥अथ द्वितीयाध्याये प्रथम: पाद:॥ २–१–१ १३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् – वेदान्तानां समस्तचिदचिद्वस्तुविलक्षणास्पृष्टहेयगन्धसर्वज्ञताद्यनन्तकल्याणगुणाकरब्रह्मैकपरत्वं प्रतिपादितं। कपिलस्मृतिविरोधेन चालयितुं शक्यम्, उत नेति संशय:। शक्यमिति पूर्व: पक्ष:, श्रुतिविरुद्धाया: स्मृतेरनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन अल्पश्रुतैर्मन्दमतिभिराप्तप्रणीतस्मृत्युपबृंहणेन विना तेषां निश्चयो नोपपद्यते। कपिलस्मृति: केवलतत्त्वपरेति तयैव ह्युपबृंहणं न्याय्यम्। अन्यथा आप्तप्रणीताया: केवलतत्त्वपरायास्तस्या अनवकाशप्रसङ्ग इति वेदान्तवेद्यं जगत्कारणं प्रधानम्। राद्धान्तस्तु – वेदान्तस्य उबृंहणापेक्षत्वेऽपि आप्ततममन्वादिस्मृतिभिर्वेदान्ताविरोधिनीभिः एवोपबृंहणं न्याय्यम्, अन्यथा तासां […]