49 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

एकोनपञ्चाशः सर्गः

अफलस्तु ततः शक्रो देवानग्निपुरोधसः ।

अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान् ।। 1.49.1 ।।

अनयोर्द्वयोः शापयोरेकः पूर्वमेव मुक्तः । अपरस्त्वया मोचनीय इत्याशयेनाह एकोनपञ्चाशे–अफल इत्यादि । अग्निपुरोधसः अग्निपुरोगमान् । त्रस्तवदनः त्रस्तशब्देन तत्कार्यं दैन्यमुच्यते ।। 1.49.1 ।।

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।

क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ।। 1.49.2 ।।

कुर्वतेति । महात्मनः गौतमस्य तपसः अस्मत्पदच्यवनकारणस्य विघ्नं क्रोधमुत्पाद्य तस्य क्रोधजननमुखेन कुर्वता मया इदं गौतमतपोभङ्गरूपम् । सुरकार्यं कृतं सर्वदेवपदच्यवनार्हं तपो गौतमेन कृतम्, तस्य तपोनाशकमहाक्रोधोत्पादनाय तद्भार्यया तु मया व्यभिचारः कृत इत्यर्थः ।। 1.49.2 ।।

अफलो ऽस्मि कृतस्तेन क्रोधात् सा च निराकृता ।

शापमोक्षेण महता तपो ऽस्यापहृतं मया ।। 1.49.3 ।।

अफल इति । तेन गौतमेन । सा अहल्या निराकृता शापमोक्षपूर्वकं त्यक्ता । शापमोक्षेण मयि अहल्यायां च शापदानेन ।। 1.49.3 ।।

तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः ।

सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ।। 1.49.4 ।।

तस्मादिति । हे सर्वे सुरवरा इति । सम्बोधनम् । द्वितीयसर्वशब्दस्य सर्वे यूयमिति सम्बन्धः । साह्यं साहाय्यम् । सफलम्, मामिति शेषः ।। 1.49.4 ।।

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः ।

पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ।। 1.49.5 ।।

शतक्रतोरिति । पितृदेवान् अग्निकव्यवाहनादीन् ।। 1.49.5 ।।

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।

मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छथ ।। 1.49.6 ।।

अयमिति । अयमिदानीं यज्ञे युष्मभ्यं नियुज्यमानो मेषः । गृह्य गृहीत्वा ।। 1.49.6 ।।

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।। 1.49.7 ।।

तद्दाने ऽस्मत्तुष्टिवैकल्यं स्यादित्यत्राहअफल इत्यर्द्धम् । प्रदास्यतीत्यनुगृह्णन्ति ।। 1.49.7 ।।

भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ।। 1.49.8 ।।

दातृ़णामपि फलन्यूनता न भवत्वित्यनुगृह्णन्ति–भवतामिति । दास्यन्ति अवृषणमिति शेषः ।। 1.49.8 ।।

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ।

उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ।। 1.49.9 ।।

अग्नेरिति । अग्निपुरःसराणामित्यर्थः । मेषस्य तदा यूपे नियुक्तस्य मेषस्य वृषणौ ।। 1.49.9 ।।

तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः ।

अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन् ।। 1.49.10 ।।

तदेति । तदाप्रभृति वृषणदानात्प्रभृति । दत्तसजातीयत्वाद्वृषणौ विना मेषान् भुञ्जते तेषां सवृषणानाम् । फलैः सवृषणमेषदानफलैरित्यर्थः । अयोजयन् दातृ़निति शेषः ।। 1.49.10 ।।

इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव ।

गौतमस्य प्रभावेन तपसश्च महात्मनः ।। 1.49.11 ।।

इन्द्रस्त्विति । गौतमस्य तपसः प्रभावेन वृषण्ाहान्या मेषवृषणो ऽभूदित्यर्थः ।। 1.49.11 ।।

तदागच्छ महातेज आश्रमं पुण्यकर्मणः ।

तारयैनां महाभागामहल्यां देवरूपिणीम् ।। 1.49.12 ।।

तदिति । तत् त्वदागमनावधित्वादहल्याशापस्येत्यर्थः ।। 1.49.12 ।।

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।

विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ।। 1.49.13 ।।

विश्वामित्रेति ।। 1.49.13 ।।

ददर्श च महाभागां तपसा द्योतितप्रभाम् ।

लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ।। 1.49.14 ।।

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ।

मध्ये ऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ।। 1.49.15 ।।

रामसन्निधानमात्रेणाहल्या मुक्तशापा स्वरूपं प्राप्तेत्याह–ददर्श चेति, सार्द्धश्लोकद्वयम् । तपसा

वाय्वाहारत्वादितपसा । द्योतितप्रभां अतिशयितप्रभाम् । अत एव लोकैर्मानुषैः सुरासुरैरपि समागम्य समीपमागत्य दुर्निरीक्ष्यां दिव्यां अतिमानुषरूपां मायामयीमिव मायानिर्मितामिव स्थिताम् । वृक्षलताकुसुमान्तर्वर्तित्वेन सतुषारावरणां चन्द्रप्रभामिव स्थिताम् । आवृतशब्द आवरणार्थकः । भावे निष्ठा । स इति भिन्नं पदं वा । मध्य इति अक्रौर्यदुर्निरीक्ष्यत्वाभ्यां प्रतिबिम्बसूर्यप्रभातुल्याम् ।। 1.49.14,15 ।।

सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ।

त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ।

शापस्यान्तमुपागम्य तेषां दर्शनमागता ।। 1.49.16 ।।

अदृश्या सा कथमिदानीं दृश्यासीदित्यत्राह सार्धेन–सा हीत्यादि ।। 1.49.16 ।।

राघवौ त्वतिथी तस्याः पादौ जगृहतुस्तदा ।

स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ।। 1.49.17 ।।

राघवौ त्विति । तस्याः वृद्धमुनिपत्न्याः । गौतमवचः ‘तस्यातिथ्येन दुर्वृत्ते’ इत्यादिकम् । प्रतिजग्राह पूजनीयत्वेनेति शेषः ।। 1.49.17 ।।

पाद्यमर्घ्यं तथा ऽऽतिथ्यं चकार सुसमाहिता ।

प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ।। 1.49.18 ।।

पाद्यमिति । विधिदृष्टेन शास्त्रदृष्टेन । कर्मणा प्रकारेण पाद्यादिकञ्चकारेत्यन्वयः ।। 1.49.18 ।।

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिः निःस्वनैः ।

गन्धर्वाप्सरसां चापि महानासीत्समागमः ।। 1.49.19 ।।

पुष्पेति । रामस्येति शेषः । सम्यगागमः समागमः, नृत्यगीतादिकमिति यावत् ।। 1.49.19 ।।

साधु साध्विति देवास्तामहल्यां समपूजयन् ।

तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ।। 1.49.20 ।।

साध्विति । गौतमस्य वशानुगामित्यनेन गौतमस्तदा रामागमनं विदित्वा समागत इत्यवगम्यते ।। 1.49.20 ।।

गौतमो हि महातेजा अहल्यासहितः सुखी ।

रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः ।। 1.49.21 ।।

गौतम इति । तेपे तत्रैवाश्रम इति शेषः ।। 1.49.21 ।।

रामो ऽपि परमां पूजां गौतमस्य महामुनेः ।

सकाशाद्विधिवत् प्राप्य जगाम मिथिलां ततः ।। 1.49.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ।। 49 ।।

रामो ऽपीति । ततः तस्माद्देशात् ।। 1.49.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ।। 49 ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.