आगमप्रामाण्यम् Part 2

श्रीभाष्यकाराणां परमगुरुणा श्रीयामुनाचार्यस्वामिना प्रणीतम् ।

आगमप्रामाण्यम् । (Part 2)
(
श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम्)

अपि च ।

प्रमाणान्तरदृष्टार्थविषयिण्यपि शेमुषी ।
प्रमाणमेव तत्पूर्वं न चेत्स्वार्थं विगाहते ॥
तस्य संभावनामात्रादप्रामाण्यमलौकिकम् ।

तस्मात्परिनिष्ठितानिष्ठेयादिभेदशून्यमसन्दिग्धाविपर्यस्त्
अविज्ञानं प्रमाणमेष्टव्यम्, अत इदमपास्तम् ।
प्रसिद्धैः करणैरेव सार्वज्ञ्यं नान्यथेति यत् । यतः
श्रुतिरेव तत्र परिपन्थिनी पश्यत्यचतुस्स शृणोत्यकर्णः
यश्चक्षुषा न पश्यति यश्चक्षूंषि पश्यति । न तस्य कार्यं
करणं च विद्यते । स्वाभाविकी ज्ञानबलक्रिया च इत्यादिका ।

न चासां गुणवादत्वं प्रमाणाभावात् ।

अलब्धमुख्यवृत्तीनां गुणवादसमाश्रयः ॥
नन्विहापि मुख्यार्थभङ्गकारणमस्ति प्रमाणान्तरविरोधः ।
कुतः प्रमाणान्तरात्, न तावत्प्रत्यक्षात्, न हि
प्रत्यक्षमुदीरितपुरुषाभावावभासकमुदीयमानं दृष्टं,
योग्यानुपलम्भादभावनिश्चय इति चेन्न प्रमाणगोष्ठीज्येष्ठेन
शास्त्रेणैवोपलम्भनात्, नाप्यनुमानात् तद्धि
शीघ्रजन्मागमिकप्रत्ययप्रक्षिप्तप्रतिबन्धं कथमिव
मन्थरप्रवृत्ति प्रादुर्भवति ।

किञ्चैवं सति यागादेः स्वर्गापूर्वादिसङ्गतिः ।
क्रियात्वेन विरुध्येत शास्त्रं चेत्तन्न बाधते ॥
यूपादित्यादितादात्म्यं प्रत्यक्षेणैव वाधितम् ।
विस्पष्टदृष्टभेदत्वात् काष्ठसावित्रबिम्बयोः ॥

अपि च तत्र सन्निहितयूपाञ्जनविध्येकवाक्यतया
अर्थवादत्वाद्युक्तं गुणवादत्वाश्रयणं, न चेह तथा
विध्यन्तरमस्ति यच्छेषतया अर्थवादः स्यात् ।

अथ विध्यन्वयाभावे पुरुषार्थत्वाहान्तः ।
अध्याहृत्य विधिं तत्र शेषत्वं परिकल्प्यते ॥

यदाहुः ।

यावत् खलु प्रमातॄणां प्रवर्तननिवर्तने ।
शब्दा न कुर्वते तावन्न निराकाङ्क्षबोधनम् ॥ इति, तन्न
ऋतेऽपि विधिसंबन्धाद् दृष्टैव हि पुमर्थता ।
पुत्रस्ते जात इत्यादौ तथेहापि भविष्यति ॥

न च तत्र विध्यध्याहारः, अन्तरेणापि विधिं
पुत्रजननावगमादेव हर्षोत्पत्तेः ।
तथा का क्रिया पाक इत्यादिप्रश्नोत्तरव्यवहारेषु
प्रष्टुजनजिज्ञासितक्रियाविशेषप्रतिपादनमात्रनिराकाङ्क्षश्शब्द्
ओ न विध्यध्याहारमपेक्षते ।

इह तु ब्रह्मविज्ञानं महानन्दफलं श्रुतम् ॥
ब्रह्माविद् ब्रह्म भवति प्राप्नोति ब्रह्मवित् परम् ।

अश्नुते ब्रह्मण सार्द्धं सर्वान् कामान् स सामगः ॥
इदमादित्रयीवाक्यैर्व्यक्ता तस्य पुमर्थता ।
तदेवमुदीरितश्रुतिशतसमधिगतावितथसहजसर्वसाक्षात्कार्
अकारुण्यादिकल्याणगुणैकराशौ भगवति सिध्यति, सिध्यत्येव
तदनुभवमूलतया तन्त्रप्रामाण्यम् ।
ननु विरचितनीत्या
कश्चिदाम्नायमूर्द्धप्रमितसहजसर्वज्ञानवानस्तु नाम । स च
हरिरिति यावन्नावगम्येत सम्यक् न खलु भवति तावत्पञ्चरात्रं
प्रमाणम् ॥
अत्यल्पमेतत् न ह्यत्र त्रयीविदो विवदन्ते यद्वासुदेवः
परमात्मा अखिलजगत्कारणमिति ।

श्रूयते हि स वेदान्तेष्वात्मा नारायणः परः ।
सत्त्यं ज्ञानमनन्तञ्च तद्विष्णोः परमं पदम् ॥
परा प्रकृतिरध्यक्षो वासुदेवस्तथा परः ।
एकः परस्ताद्य इदं बभूव यस्मात् परं नापरमस्ति किञ्चित् ।
इत्युक्तवाच्यानुगुणंयतो वा इमानि भूतानि सदेव सौम्य ॥
इत्यादिवाक्यञ्च ततस्स विष्णुस्त्रयीशिरः सिद्धविशुद्धबोधः ।
न चान्यस्माज्जगज्जन्मस्थितिध्वंसाश्श्रुतौ श्रुताः ।
यतश्चैते स सर्वज्ञः परमात्मेति सम्मतम् ॥
अमुमेव परमात्मानं द्वैपायन्-पराशर-
नारदप्रभृतिमहर्षिवचनेभ्यः प्रतिपद्यामहे तथा हि ।

विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप ।
सृजत्त्येष महाविष्णुर्भूतग्रामं चराचरम् ॥
एष चाक्षिपते काले काले विसृजते पुनः ।
अस्मिन् गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥
अनादिनिधनः श्रीमान् मुनिर्नारायणः प्रभुः ।

स वै सृजति भूतानि स्थावराणि चराणि च ।
स ब्रह्म परमं चेति तथाऽन्यत्रापि पठ्यते ॥
केशवो भरतश्रेष्ठ ! भगवानीश्वरः परः ।
पुरुषः सर्वमित्त्येतच्छ्रूयते बहुधा श्रुतौ ॥

इति,

तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो मुखैः ।
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः ॥ इति,

तथा दानधर्मे ।

परमात्मा परः शान्तः पद्मनाभः परायणः ।
इति वेदरहस्यन्तु किन्न वेत्सि पुरन्दर ॥
तत्प्रसादाद्वयं सर्वे लोकानां स्थितिहेतवः ।
आप्ताश्चामरमुख्याश्च देवाश्च स्थानिनो मताः ॥
यदि विष्णुरुदासीनो नास्माकं विद्यते शुभम् ।
इति रुद्रस्य वचनं तथा भारतमात्स्ययोः ॥
तत्र यः परमात्मा हि स नित्यो निर्गुणश्शुभः ।
स वै नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥ इति,

तथा वराहे ।

यस्य देवस्य चरितं व्रतं समभवद्भुवि ।
कोऽन्यस्तस्मादभ्यधिको मुक्त्वा नारायणं प्रभुम् ॥

इति,

नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानां च सत्तमाः ॥ इति ।

तथा लैङ्गेः ।

स एकः पुरुषः श्रेष्ठः परमात्मा जनार्दनः ।
यस्माद् ब्रह्मा ततो रुद्रः ततश्चैवाखिलं जगत् ॥

तथा ।

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसाविति पाराशरं वचः ॥

तथा मानवे ।

नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी ॥
तस्मादीदृशश्रुतिस्मृतीतिहासपुराणपर्यालोचनया
अखिलजगत्कारणं परमात्मा वासुदेव इति निश्चीयते ।

न चैव परमात्मत्वं रुद्रादेः श्रुतिषूदितम् ।
प्रत्युतोत्पतिमेवाहुस्तस्यैकायनशाखिनः ॥
तमो वा इदमित्यादौ तथा वेदेऽपि दृश्यते ।
यतो हि रुद्रस्सञ्जज्ञे तच्छ्रेष्ठं भुवनेष्विति ॥
तदिदास भुवनेषु ज्येष्ठमिति ।
तथा रौद्रं पदं स्पष्टं कर्मजन्यं प्रतीयते ॥
महिमानं निजं लेभे विष्णोरभ्यर्चनादिति । अस्य देवस्येति
ललाटादभवद्बिन्दुस्तस्माद्रुद्रोव्यजायत ।

इत्यादिकाश्च श्रुतयो रुद्रोत्पत्तिं वदन्ति वै ।
एवञ्च सति रुद्रादिमहिमावेदिका इव ॥
या वाचस्तास्स्तुतिपराः श्रोत्रं ब्रह्मेति गीरिव ।
एतेन रुद्रादीनां परमात्मत्वप्रतिपादकपुराणवादाः ।
प्रत्यक्षश्रुतिविरोधान्न मुख्यार्थाः ।

यद्वा त्याज्यतया तन्त्रसिद्धान्तप्रतिपादकाः ।
अवैदिकेषु तन्त्रेषु तन्माहात्म्यं हि कथ्यते ॥
वेदसिद्धान्तमार्गेषु विष्णुरेव परः स्मृतः ।

तद्यथा वैष्णवे ।

परमात्मा च सर्वेषामाधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥

वाराहे ।

विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥
नारायणात्परो देवो न भूतो न भविष्यति ।
एतद्रहस्यं वेदानां पुराणानाञ्च सत्तमाः ॥ इति ।

तथा मात्स्ये ।

सात्त्विकेषु तु कल्पेषु विष्णोर्माहात्म्यमुच्यते ।
अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ॥ इति, ।

तथा लैङ्गे ।

न हि विष्णुमृते काचिद् गतिरन्या विधीयते ।
इत्येवं सततं वेदा गायन्ते नात्र संशयः ॥

इति, तथा वायवीये ।

सहस्रबाहुः परमः प्रजापतिः ।
त्रयीपथेयः पुरुषो निरुच्यते ॥

इति, तथा भविष्यति ।

वेदसिद्धान्तमार्गेषु विष्णुरेव परः स्मृतः ।
विष्णुरेव नरश्रेष्ठो महिष्ठः प्रुषोत्तमः ॥

इति, सर्वं चैतत्पुरुष (पुरुषनिर्णयनामा
भगवन्महिमप्रतिपादनपुरःसरोदेवतान्तरव्यावर्तनमुखेन
विष्णुपरतत्त्वप्रतिपादनपरोग्रन्थः परमाचार्यप्रणीतः
।)निर्णये निपुणतरमुपपादितमिति नेह प्रपञ्च्यते ।

ततश्च ।

श्रुतिमूर्ध्नि प्रसिद्धेन वासुदेवेन भाषितम् ।
तन्त्रं मिथ्येति वक्तुन्नः कथं जिह्वा प्रवर्तते ॥
न हि
सहजसंवेदनसाक्षात्कृतदीक्षाराधनादिधर्मस्वर्गपुत्रादिवैष्
अयिकसुखमनेकदुःखसंभिन्नं, न चातिचिरमनुवर्तत इति तदपि
दुःखपक्ष एव निक्षिप्य मोक्षाय गृहेभ्यः प्रव्रजद्भ्यः
शाण्डिल्यनारदादिपरम-
ऋषिभ्यस्तदभिलषितनिरतिशयनिश्रेयसैकसाधनस्वावगमाराधन
अवबोधिनीं पञ्चरात्रसंहितां निरमिमीतेति निश्चीयते ।

न च तन्त्रान्तरेष्वेष न्यायः प्रसरमर्हति ।
यतस्तत्तन्निबन्द्धृणां विभ्रमाद्यपि संभवि ॥
प्रत्यक्षादिप्रमाणानां न हि मूलत्वसम्भवः ।
तन्त्रान्तरेषु शास्त्रन्तु मूलं तैरेव नेष्यते ॥
अन्यच्च वेदसिद्धान्तविरुद्धार्थाभिधानतः ।
प्रत्यक्षश्रुतिमूलत्वकल्पना तेषु बाध्यते ॥
यथा माहेश्वरे तन्त्रे विरुद्धं बहु जल्पितम् ।
चतुर्विधा हि तत्सिद्धचर्यामार्गानुसारिणः ॥
यथा कापालिकाः कालामुखाः पाशुपतास्तथा ।
शैवास्तत्र च कापालं मतमे प्रचक्षते ॥
मुद्रिकाषट्कविज्ञानात् पुनस्तस्यैव धारणात् ।
अपवर्गफलप्राप्तिर्न ब्रह्मावगमादिति ॥

तथाऽहुः ।

मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।
भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ॥

तथा ।

कर्णिका रुचकञ्चैव कुण्डलञ्च शिखामणिम् ।
भस्म यज्ञोपवीतञ्च मुद्राषट्कं प्रचक्षते ॥
कपालमथ खट्वाङ्गमुपमुद्रे प्रकीर्तिते ।
आभिर्मुद्रितदेहस्तु न भूय इह जायते ॥

न चेदृशमुद्रिकाषट्कपरिज्ञान – तद्धारण –
निन्दितभगासनस्थदेहध्यानस्यापवर्गसाधनत्वं श्रुतयो
मृष्यन्ति, ता ह्यैहिकामुष्मिकसकलविषयाभिलाषविमुखस्य
अखिलजगत्कारणवासुदेवात्मभावैकलभ्यं मोक्षमाचक्षते ।
तमेव विदित्वा अतिमृत्युमेति नान्यः पन्था अयनाय विद्यते इत्याद्याः,
एवं कालामुखा अपि समस्तशास्त्रप्रतिषिद्धकपालभोजन –
शवभस्मस्नान तत्प्राशन – लगुडधारण सुराकुम्भस्थापन –
तत्स्थदेवतार्चनादेरेव दृष्टादृष्टाभीष्टसिद्धिमभिदधानाः
श्रुतिबहिष्कृता एव ।

यदपि पाशुपतशैवाभ्यां विरुधाविरुद्धसममुग्धं
किञ्चिदभिहितं तदपि श्रुतिबहिष्कृतमेव ।

तत्रैषा पाशुपतप्रक्रिया ।

जीवाः पशव उच्यन्ते तेषामधिपतिश्शिवः ।
स तेषामुपकाराय पञ्चाध्यायीमचीकॢपत् ॥
तत्र पञ्च पदार्थास्तु व्याख्याताः कारणादयः ।
कारणं कार्यं विधिर्योगो दुःखान्तः ॥ इति,
उपादानं निमित्तञ्च व्याख्यातं कारणं द्विधा ।
निमित्तकारणं रुद्रस्तत्कला कारणान्तरम् ॥
मह्यन्तं महदादिकार्यमुदितं तद्वद्विधिर्गीयते ।
गूढाचारमुखस्मशानभसितस्नानावसानः परः ॥
योगो धारणमुच्यते हृदि धियामोङ्कारपूर्वन्तथा ।
दुःखान्तो हि मतोऽपवर्ग इति ते पञ्चापि संकीर्तिताः ॥

आत्यान्तिकी दुःखनिवृत्तिर्दुखान्तशब्देनोक्ता तामेव
निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणां मुक्तिं मन्यते इयमेव
चेश्वरकल्पना शैवानामन्येषां च ।

सेयं सर्वा श्रुतिविरुद्धा कल्पना यतः ।
जगन्निमित्तोपादानं परं ब्रह्म श्रुतौ श्रुतम् ।
महानन्दात्मको मोक्षस्तत्रतत्रासकृच्छुतः ॥
परस्परविरोधेन व्याहतैषां प्रमाणता ।
त्रयीदण्डप्रतिक्षेपं किञ्चिन्नैव प्रतीक्षते ॥
किञ्च शैवादयोवेदसिद्धवर्णाश्रमाद्बहिः ।
कल्पयन्त्याश्रमादीनि ततोऽपि श्रुतिबाह्यता ॥

यदाहुः ।

दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् ।
कापालं व्रतमास्थाय यतिर्भवति मानवः ॥

इति ।

न च वाच्यम् अप्रमाणभूतमियन्तं ग्रन्थराशिं कथं
प्रत्ययिततरो रुद्रः प्रणयतीति ।
न च समाननमनिर्मातृस्मरणनिबन्धनमिति युक्तम् अति
प्रसङ्गादिति, यतः-

नामैकत्वकृतभ्रान्तिकल्पनाऽप्युपपद्यते ।
वेदबाधान्न चान्यत्र तावताऽतिप्रसज्यते ॥
प्रमादोऽपि च नात्यन्तं रुद्रादिषु न सम्भवी ।
यद्वा रुद्रस्य मोहशास्त्रप्रणेतृतयाऽवगतत्वाद्
व्यामोहयितुमेव हीदृशशास्त्रप्रणयनमुपपद्यत इति नावश्यं
प्रमाद एवाश्रयितव्यः,

तथा च वाराहे ।

त्वं हि रुद्र ! महाबाहो ! मोहशास्त्राणि कारय ।
कुहकादीन्द्रजालानि विरुद्धाचरणानि च ॥
दर्शयित्वाऽल्पमायासं फलं शीघ्रं प्रदर्शय ।
दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ! ॥

इति ।

तथा तत्रैव भगवान् रुद्रः प्रस्तुतशैवाद्यागमानां
स्वयमेव वेदवाह्यत्वं वेदमार्गापभ्रष्टजनाधिकारित्वं
तद्व्यामोहैकप्रयोजनतां च दर्शयति ।

ये वेदमार्गनिर्मुक्तास्तेषाम्मोहार्थमेव च ।
नयसिद्धान्तमार्गेण मया शास्त्रं प्रदर्शितम् ॥
तस्मादारभ्य कालात्तु मत्प्रणीतेषु सत्तमाः ।
शास्त्रेष्वभिरतो लोको न वेदान् बहु मन्यते ।
तथा पाशुपतादीनि प्रवर्तन्ते कलौ युगे ॥

तथा च भगवत्परिवारत्वव्यतिरेकेण स्वप्रधानपूजां
पाशुपतादितन्त्रसिद्धां वेदबाह्यां दर्शयति ।

तद्वेदबाह्यं कर्मोक्तं मामुद्दिश्योपसेव्यते ।
तद्वै पाशुपतं नाम मनिष्ठम्मोहनं नृणाम् ॥
मां विष्णुव्यतिरेकेण पूजयन्ति नराधमाः ।
इत्यादिवाक्यजातानि न लिख्यन्तेऽतिगौरवात् ॥
व्यक्तञ्च वेदबाह्यत्वमेतच्छास्त्रानुगामिनाम् ।

यथा तत्रैव ।

शशाप ताञ्जटाभस्मकपालव्रतधारिणः ।
भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥
कलौ तद्रूपिणस्सर्वे जटालगुडधारिणः ।
स्वच्छन्दव्रतवेषाश्च मिथ्यालिङ्गधरास्तथा ।
ब्रह्मशापाग्निनिर्दग्धा रुद्रभक्ता जटाधराः ॥ इति,
प्रसिद्धञ्चैतच्छैवागमेषु ।
रुद्राक्षं कङ्कणं हस्ते जटा चैका च मस्तके ।
कपालं भस्मना स्नानम् इत्यादि ।
तथा चैतेषामादित्यपुराणेऽपि भगवत्त्यागेन समं
वेदत्यागं कथयति ।

अन्ये भस्मजटोपेता यथोक्ता गौतमात् पुरा ।
शापात्सन्त्याजिता वेदं देवं नारायणं तथा ॥

इति ।

किञ्चैते वासुदेवस्य मन्दा निन्दां वितन्वते ।
ते च पाषण्डिनो ज्ञेया यथा लैङ्गै समीरितम् ॥
ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् ।
ते वै पाषण्डिनो ज्ञेया वेदमार्गबहिष्कृताः ॥

इति, ततश्च ।

एत एव च ते एषां वाङ्मात्रेणापि नार्चनम् ।
पाषण्डिनोविकर्मस्थानित्यादिस्मृतिषूदितम् ॥
या वेदबाह्या इत्त्येतदपि चेदृशगोचरम् ।
तस्मान्न वेदमूलत्वं नापि प्रत्यक्षमूलता ॥
तन्त्रान्तराणां युक्तेति कल्प्यते कारणान्तरम् ।
ननु मूलान्तरापेक्षा यदि स्यादस्तु दूषणम् ॥
स्वतःप्रमाणं विज्ञानं भवतां ननु दर्शने ।
सत्यं तदेव विज्ञानप्रामाण्यमपनीयते ॥
बाधकारणदोषाभ्यां तावपि द्वाविह स्फुटौ ।
एवं श्रुतिविरुद्धस्य स्फुटमूलान्तरस्य यत् ॥
पञ्चरात्रेण साधर्म्म्यं तन्त्रत्वेनाभिधित्सितम् ।
क्रियात्वेन तु साधर्म्म्यं ब्रह्महत्याऽश्वमेधयोः ॥
श्रुतिप्रत्यक्षयोस्तत्र यतोमूलत्वनिश्चयः ।
ननु च श्रुतिमूलत्वे वेदादेवार्थसिद्धितः ॥
तत्प्रणेतृस्वतन्त्रत्वकल्पना नेत्यचूचुदम् ।
नैवं न कल्प्यते पुंसि स्वातन्त्र्यं श्रूयते हि तत् ॥
तस्याध्यक्षमिदं सर्वं भीषाऽस्मादिदमादिषु ।

ननु वेदमूला एव चेदेताः पञ्चरात्रस्मृतयः किं तर्हि
तदर्थस्मरणवत्तन्मूलभूतवेदवाक्यस्मरणं नानुवर्तते
पाञ्चरात्रिकाणाम् । न चार्थस्मरणस्य प्रयोजनवत्त्वात् तस्य
विफलत्वात् तदनादरणीयमिति युक्तं, न हि यतः प्रामाण्यं
तदेव विस्मर्तुं युक्तम् ।
अथ विस्मरणोपपत्तये प्रलीननित्त्यानुमेयशाखामूलता
आश्रीयते तदा यदेव येन प्रमाणतया परिगृहीतं स
तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणीकुर्यात्
नित्यानुमेयप्रलीनशाखयोस्तु स्वरूपसिद्धिरेव दुर्लभा ।
अथ विद्यमानशाखामूला एव ताः स्मृतयः तदा
तत्प्रणेतृवदन्येऽपि तत एवोपलभेरन् इति
ग्रन्थप्रणयनप्रयासवैयर्थ्यम् ।
अत्रोच्यते स खलु भगवान् अमोघसहजसंवेदनसाक्षाद्-
भवदखिलवेदराशिर्विप्रकीर्णविविधविध्यर्थवादमन्त्रात्म-
कानेकशाखाध्ययनधारणादिष्वधीरधियो भक्तानवलोक्य
तदनुकम्पया लघुनोपायेन तदर्थं संक्षिप्योपदिदेशेति न
किञ्चिदनुपपन्नम् ।

यथाऽहुः ।

वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ॥

इति, एते च मन्वादिसमस्तस्मरणसाधारणाः
पर्यनुयोगास्तन्त्रटीकाकृतपरिश्रमाणामनायासपरिहार्या इति
नेह प्रपञ्च्यते ।
ननु चेदं वेदमूलत्वं पञ्चरात्रतन्त्राणामनुपपन्नं
वेदनिन्दादर्शनात्, उक्तं हि चतुर्षु वेदेषु
पुरुषार्थमलभमानः शाण्डिल्य (प्. ५२) इदं शास्त्रमधीतवान्
इति, अनवगतवचनव्यक्तेरयं पर्यनुयोगः, न हि निन्दा निन्द्यं
निन्दितुं प्रवर्तते अपि तु ।
निन्दितादितरत्प्रशंसितुं यथैतरेयकब्राह्मणे प्रातः
प्रातरनृतं ते वदन्ति इत्यनुदितहोमनिन्दा उदितहोमप्रशंसार्थेति
गम्यते मानवे ।

ऋग्वेदो देवदैवत्त्यो यजुर्वेदस्तु मानुषः ।
सामवेदस्तु पित्र्यः स्यात् तस्मात्तस्याशुचिर्ध्वनिः ॥
इति सामवेदनिन्दा इतरवेदप्रशंसार्था, यथा वा भारते ।
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैस्तु ऋषिभिस्तुलयाऽरोपितं पुरा ॥
महत्त्वे च गुरुत्त्वाच्च च ध्रियमाणं यतोऽधिकम् ।
महत्त्वाच्च गुरुत्त्वाच्च महाभारतमुच्यते ॥

इति महाभारतप्रशंसार्थेति गृह्यते न वेदनिन्देति । एवं
पञ्चरात्रप्रशंसेति गम्यते ।

अथानुदितहोमादेरन्यत्र स्तुतिदर्शनात् ।
अतत्परत्वं निन्दायास्तथात्रापि भविष्यति ॥
वेदप्रशंसा बहुशः पञ्चरात्रेऽपि दृश्यते ।
न हि तेभ्यः परं किञ्चिद् वाङ्मयं कमलासन ? ।
वेदान्तैरिदमेवोक्तं तत्त्वज्ञानोपपादैः ॥ इत्यादौ ।
अपि च चतुर्षु वेदेषु इति नायमर्थः वेदेषु पुरुषार्थो नास्तीति
किन्तु यस्तेषु पुरुषार्थस्तमलभमान इति ।
ननु पुरुषार्थमलभमान इत्यन्वयो न वेदेषु पुरुषार्थम्ति,
मैवं व्यावर्त्याभावात्, न हि वेदेष्वेवायं पुरुषार्थो न
लभ्यते अतो वेदेषु यः पुरुषार्थस्तमलभमानः तदभिलाषी
पञ्चरात्रशास्त्रमधीतवानिति पञ्चरात्रश्रुत्त्योरैकार्थ्यमेव
प्रतीयते ।
यत्पुनरुक्तमुपनयनादिसंस्कृतानां
भगवदाराधनार्थतया
दीक्षालक्षणसंस्कारविधानादवैदिकत्वमिति तदयुक्तं न
ह्युपनयनादिसंस्कृतानां ज्योतिष्टोमादिकर्माङ्गतया
दीक्षादिसंस्कारविधायकम् आग्नावैष्णवम्
इत्यादिवाक्यमवैदिकं भवति ।
अथ वैदिकसंस्कारात् संस्कारान्तरविधानं हेतुः,
तदनुपपन्नं सिद्धे हि पञ्चरात्रशास्त्रस्य अवैदिकत्वे तस्य
संस्कारान्तरत्त्वसिद्धिः तत्सिद्धौ च
तस्यावैदिकत्वसिद्धिरित्त्यन्योन्याश्रयणात् ।
किञ्च समस्तवैदिकसंस्कारेभ्यः संस्कारान्तरत्वं वा
हेतुः, उतकतिपयेभ्यः संस्कारेभ्यः, न तावदनन्तरः कल्पः
उपनयनादिसंस्कारस्यापि चौलादिसंस्कारात्
संस्कारान्तरत्वेनावैदिकत्वप्रसङ्गात्, न चान्त्यः कल्पः,
उक्तदोषानतिवृत्तेः, न ह्युपनयनं समस्तवैदिकसंस्कारेभ्यः
संस्कारान्तरमसिद्धश्च समस्तविदिकसंस्कारव्यतिरेकः
पञ्चरात्रशास्त्रस्यापि वैदिकत्वादित्युक्तमेव ।
यदपि
धर्मप्रमाणत्वाभिमतचतुर्दशविद्यास्थानेष्वपरिगणितत्वात्
पाशुपतादितन्त्रवत् त्रयीबाह्यत्त्वमिति तदपि द्वैपायन –
वाल्मीकिप्रणीतभारतरामायणादिग्रन्थैरनैकान्तिकम् ।
यत्तु भगवता बादरायणेन निरस्तत्वादिति तदसत्, कथं हि
भगवान् द्वैपायनः सकललोकादर्शभूतपरमभागवतो
भागवतं शास्त्रं निरस्यतीत्युत्प्रेक्ष्येत ।

य एवमाह ।

इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आविध्य मतिमन्थानं दघ्नो घृतमिवोद्धृतम् ॥
नवनीतं यथा दघ्नो द्विपदां ब्राह्मणो यथा ।
आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।
ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥
भविष्यति प्रमाणं वै एतदेवानुशासनम् ।

इति, भीष्मपर्वण्यपि ।

ब्रह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥
सात्वतं विधिमास्थाय गीतस्संकर्षणेन यः ।
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ॥

इति ।

तथा शान्तिपर्वण्यपि ।

अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः ।
दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ॥
वसन्ते दीक्षयेद्विप्रं ग्रीष्मे राजन्यमेव च ।
शरदः समये वैश्यं हेमन्ते शूद्रमेव च ॥
स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः ॥

तथा ।

वेदैश्चतुर्भिस्स (सम – शब्दात्ताद्धितेन इतच्प्रत्ययेन व्युत्पन्नः
समितशब्दो भवति तुल्यार्थः ।)मितं मेरौ महागिरौ ।
एवमादिवचोभङ्गीशतैस्सादरमीरितैः ॥
वेदान्तसारसर्वस्वमात्मीयं परमं मतम् ।
पञ्चरात्रं निराकुर्यात् कथं द्वैपायनः स्वयम् ।
कथं तर्हीदं सूत्रम् उत्पत्त्यसंभवात् इति किं वाऽस्य
सूत्रस्य हृदयम् इदमस्य सूत्रस्य, भागवतशास्त्रे जीवोत्पत्तेः
प्रतिपाद्यमानत्वात् तस्याश्च
श्रुतिन्यायविरोधेनासम्भवादसमीचीनं शास्त्रमिति, यद्येष
सूत्रार्थस्तर्हि पञ्चरात्रशास्त्रनिराकरणपरं सूत्रं, न हि
पञ्चरात्रशास्त्रेषु जीवोत्पत्तिरङ्गीकृता येनैवमुच्यते ।
नन्वस्तीदं वचनं वासुदेवः परा प्रकृतिः परमात्मा
ततस्संकर्षणो नाम जीवो जायते सङ्कर्णात् प्रद्युम्नसंज्ञं
मनो जायते ततोऽनिरुद्धनामा अहङ्कारो जायते । इति,

अपि तु व्यूहरूपेण व्यक्तिर्देवस्य कीर्त्यते ।
तत्र संव्यवहारार्थं जीव-शब्दः प्रयुज्यते ॥
वर्णानामानुलोम्येन पूज्यभेदप्रसिद्धये ।

यथाऽहुः ।

वर्णैश्चतुर्भिश्चत्वारः पूजनीया यथाक्रमम् । इति, अपि च
जीवमनोऽहङ्कारशब्दा न तन्मात्रवचना अपि तु
तत्तदधिष्ठानाधिकृतविलक्षणविग्रहवत्पुरुषाभिधाना इति ।

विचित्रदेहसंपत्तिर्जन्मेति व्यपदिश्यते ।
तोयेन जीवानित्येतद्यजुर्मूर्द्ध्नि यथा वचः ॥

अपि च जीवोत्पत्तिप्रलयादिगोचराः श्रुतिस्मृतिलोकवादाः
चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो
भाक्तस्तद्भावभावित्वादित्यत्रैव सूत्रकारेण कृतनिर्वाहाः ॥
किञ्चनामात्मा श्रुतेर्नित्यत्त्वाच्च ताभ्यः इत्यत्रैव ब्रह्मणो
जीवोत्पत्तिः श्रुतिस्मृतिन्यायविरोधेन निरस्ता सती न पुनरुपन्यासं
प्रयोजयतीति अनधिकरणीयमधिकरणमापद्येत, एतेन न च कर्त्तुः
करणम् इति सूत्रं व्याख्यातं, न ह्यत्र कर्त्तुः सङ्कर्षणात्
करणस्य मनस उत्पत्तिरुच्यते, उक्तं हि विलक्षणपुरुषवचना एते
शब्दा इति,

किमिति वा कर्तुः करणन्नोत्पद्यते देवदत्तादेः कर्तुः
परशुप्रभृतिकरणोत्पत्त्यदर्शनादिति चेत्, हन्त हतस्तर्हि
अपगतसकलकरणकलापस्वमहिमप्रतिष्ठब्रह्मणः
प्राणमनःप्रभृतिनिखिलकरणोत्त्पत्यभ्युपगमः, एतस्माज्जायते
प्राणो मनःसर्वेन्द्रियाणि च इति,

अथ श्रुतिप्रसिद्धत्वात्तत्तथैवाभ्युपेयते ।
पञ्चरात्रप्रसिद्धत्वादिदं किन्नाभ्युपैषि भोः ॥
न हि स्मृतिप्रसिद्धार्थपरित्यागोऽतिशोभनः ।
निर्दोषज्ञानजन्मत्वात् प्रामाण्यं हि समं द्वयोः ॥
यत्तु चत्वार एते किं समानैश्वर्यभागिनः ।
स्वतन्त्राः किमुतैकस्य स्वेच्छामूर्तिचतुष्टयी ॥

इति विकल्प्य ।

समानैश्वर्यभागित्वे तुल्यत्वान्नैव कार्यता ।
एकस्य मूर्तिभेदश्चेत् किं भेदेन प्रयोजनम् ॥

इति दूषयतीति व्याख्यातं विज्ञानादिभावे वा तदप्रतिषेध
इति ।

तदुयुक्तम् असम्भावनीयत्वाद्विकल्पस्य, न हि
केनचिदीश्वरवादिना अनेकेश्वरं जगदभ्युपगतं विशेषतश्च
पाञ्चरात्रिकैः वासुदेव एवैकः परा प्रकृतिरिति वदद्भिः, किन्तु स
एव भगवान् लीलाविरचितचतुर्भेदः सकलमपि जगत्संरक्षतीति ।
न चेदमनुपपन्नं बल –
भारतावरजाग्रजादिप्रादुर्भाववदुपपत्तेः, यथैव हि भगवतः
स्वलीलाविरचितगगन – पवन – हर – विरिञ्च्यादिप्रपञ्चस्य
अचिन्त्यमहिमलीलैकप्रयोजनस्य राम – लक्ष्मण भरत –
शत्रुघ्नादिस्वच्छन्दाविग्रहा न विरोत्स्यन्ते एवं
सङ्कर्षणप्रद्युम्नादिभेदा इति ।
यत्परं विप्रतिषेधात् इति चतुर्षु वेदेषु इति श्रुतिविप्रतिषेधात्
तन्त्राणां परस्परविप्रतिषेधाद्वा । अप्रमाणमिति तत्र
श्रुतिविप्रतिषेधस्तु प्रागेव प्रयुक्तः, परस्परविप्रतिषेधस्तु
प्रधानगुणसामान्यविशेषादिन्यायसंपादितवचनव्यक्तीनां
तन्त्राणां नास्त्येव न्यायानुग्रहरहितानान्तु वचसां न क्वचिदपि
परिनिश्चायकत्वं, यथाऽह न्यायसंपादितव्यक्ति
पश्चाद्वाक्यार्थबोधकम् इति, तस्मात्सूत्रकारेण इदं
महोपनिषदम्
इत्यादिवचनैर्वेदेभ्योविशेषेणाभिमततरप्रामाण्येषु
पञ्चरात्रतन्त्रेष्वविद्यमानजीवोत्पत्तिप्रतिपादनाध्यारोपेण
तन्निराकरणपरतया सूत्रं व्याख्यायमानं
व्याख्यातॄणामेवाख्याति ख्यापयतीत्यलं प्रबन्धेन ।
तत्रैष सूत्रार्थः पूर्वं स्वाभिप्रेतसमयपरिपन्थिकपिल –
काश्यपसुगत जिन – पशुपतिमतानां
श्रुतिन्यायविओरोधादसामञ्जस्यं प्रतिपाद्य अधुना
स्वाभिप्रेतपञ्चरात्रतन्त्राणामपि इतरसमयसमानपरिगणनाद्
बुद्धौ सन्निहितानामितरसमयवदसामञ्जस्यमाशङ्क्य
प्रामाण्यं (स्थूणानिखननन्यायेनेत्यर्थः यथा हि स्थूणां
द्रढयितुमिच्छवस्तां स्वयमेव हस्तेन परिचाल्य परीक्षन्ते
।)व्युत्पाद्यते ।
तत्राद्येन सूत्रद्वयेन पूर्वपक्ष उपक्षिप्यते तथा हि
पञ्चरात्रशास्त्रमप्रमाणम् उत्पत्त्यसंभवात्
प्रतिपाद्यमानायाः संकर्षणाद्युत्पत्तेरसंभवात्,
कथमसंभवः, उभयथाऽप्यनुपपत्तेः तथा हि ।

किन्तु चत्वार एवैते समानैश्वर्यभागिनः ।
एको वा स्याच्चतुर्भेदे द्वेधा व्युत्पत्त्यसंभवः ॥
समानैश्वर्यभागित्वे तुल्यत्वान्नैव सृज्यते ।
एकात्मत्वेऽभ्युपेतेऽपि तथोत्पत्तेरसंभवः ।
स्रष्टृसृज्यविभागो हि नैकस्मिन्नवकल्पते ।
तथा न च कर्त्तुः करणम् इतश्च अप्रमाणं कर्तुः
सङ्कर्षण संज्ञाज्जिवात् करणस्य प्रद्युम्नसंज्ञस्य मनस
उत्पत्त्यसंभवात्, न हि देवदत्तात्परशुरुत्पद्यत इति ।
एवं वा न च कर्त्तुः करणम् इतश्च कर्त्तुः संकर्षणात् न
करणमुत्पद्यते ब्रह्मण एव समस्तकरणोत्पत्तिश्रुतेः,
एतस्माज्जायते प्राणोमनःसर्वेन्द्रियाणि च इति, विज्ञानादिभावे वा
तदप्रतिषेध इति, वा – शब्दात्पक्षो विपरिवर्त्तते ।
यदुक्तमुभयथाऽपि
संकर्षणाद्युत्पत्तेरसंभादप्रामाण्यमिति नैतदस्ति
तस्यास्सङ्कर्षणाद्युत्पत्तेरप्रतिषेधः ।

यदि हि विज्ञानादय एते न भवेयुः स्यादुत्पत्तिप्रतिषेधः ।
विज्ञानञ्चादि (आदीयते – उपादीयते उपयुज्यते
सर्वकार्यार्थमित्यादि सर्वजगन्निदानं ब्रह्म, अत्र यद्यपि उपसर्गे
घोः किरिति पाणिनीयेन किप्रत्ययान्तादि-शब्दस्य नित्यपु/स्त्वं
प्राप्नोति तथापीह औणादिकप्रत्ययेन साधिभावोऽवगन्तव्यः
शिष्टप्रयोगे संज्ञासु धातुरूपाणीत्यदिना तथैवानुशिष्टत्वेन
शिष्टशिष्टेरेव च प्रयोगमूलतया अनौणादिकस्यैवपु/स्त्वकल्पनात्

अथवा विज्ञानं चादिश्चेत्येव पाठः । ततश्च विज्ञानं
चादिश्च विज्ञानादि इति समाहारद्वन्द्वः,
विज्ञानादीतिकृतसमाहारद्वन्द्वके विज्ञानादिपदे
निर्विसर्गकपाठावलोकनभ्रान्तित एव प्राचीनकोशेष्वपि विज्ञानं
चादिश्चेति विवक्षणीये विज्ञानं चादि चेति लिलिखुरिति केचिन्मन्यन्ते । इत
एवास्वरसेन कल्पान्तरमवललम्बिरे ग्रन्थाचार्याः एवमेव च
विज्ञानादिसूत्रे श्रीभाष्येऽपि शङ्कासमाध्यभ्यूहनमिति
कृतं कुसृष्ट्या वाचामिति चापरे । वस्तुतस्तु श्रीभाष्यकोशेषु
आगमप्रामाण्यकोशेषु च प्रायशो देशविशेषनैरपेक्ष्येण
विज्ञानादिसूत्रे (विज्ञानं चादि च विज्ञानादि – ब्रह्म तद्भावे)
इत्येव प्रामाणिकः पाठ इत्यवश्यं तात्पर्यविशेषेण स प्रयोगो
वक्तव्यो न तु यथाश्रुतार्थकादि – पदेनाचरमार्थेन
अब्रह्मसाधारणेन । अत्रैवमाचाचक्ष्महे आ – समन्तादत्तु
शीलमस्येत्यादिन् परमं ब्रह्म सुप्यजातौ णिनिस्ताच्छील्ये । इति
पाणिनीयेन ताच्छील्येऽर्थेणिनिः, आङ्गा चासाधारण्यं विवक्ष्यते
तच्च अत्ता चराचरग्रहणादित्यधिकरणोक्तरीत्या
ब्रह्मासाधारणं कर्मेति तादृशार्थकादिपदेन
निखिलजगददनकर्तृ परं ब्रह्माभिहितं भवति तच्च
साङ्ख्याद्युक्तदिशा प्रधानधर्मो माभूदिति विज्ञानपदेन
विशेष्यते । एवं च जन्माद्यस्य यत इति सूत्रे आदिपदेन
जगत्स्थितिप्रणाशहेतुताया लक्षणत्वेनाभिमततया
लक्षणेनेतरभेदसाधने जन्मादित्रितयस्य संहत्य हेतुतायां
व्याप्यत्वासिद्ध्या प्रत्येकमेव हेतुताया वाच्यत्वेन
स्वासाधारणरूपेणादिन् पदेन ब्रह्मोपस्थापितं भवतीति । सति
चैवं (विज्ञानं चादि च विज्ञानादि ब्रह्म) इति
श्रीभाष्याचार्याणां परमाचार्याणां श्री६यामुनमुनीनां
चाभिधानमञ्जसा समञ्जसमिति यथाश्रुतार्थग्राहिणां
केषाचिदमीषामाचार्यतात्पर्यानबोधनिबन्धनमेवानुपपत्त्यभ्
इधानम् । परे तु संपदादित्वात् क्विपं कृत्वा तस्मात्स्वार्थे विधाय
आद इति प्रसाध्य ततो मत्वर्थीयेनिना आदिनपदं सिषाधयिषन्ति ।
तदिदमपि प्रकिर्यागौरवपराहतमिति नातितृप्तये विदुषाम् । किं च
अच्छब्दस्य संपदादिक्विबन्तस्य नित्यस्त्रीत्वे ततोऽणि जाते अणन्तत्वेन
ङीपिऽवश्यं भावेन आदी इति स्यादिति ततोऽपि
नेष्टसिद्धिसंभावना । यदपि अदनमाद इति भावे इति सूत्रेण
भावे घञं कृत्वा भावघञन्ताच्च मत्वर्थीयेनिना
आदिन्पदप्रसाधनं तदिदं घञपोश्चेति
पाणिनीयानुशासनविस्मरणनिबन्धनं घञि
घस्लादेशविधानात् ।)चेति विज्ञानादि ब्रह्म तद्भावे ब्रह्मभावे
उत्पत्तेरप्रतिषेधः ।
एतदुक्तं भवति एकस्यैव परमात्मनो
वासुदेवस्यापरिच्छिन्नशक्तेः स्वामायावेशवशात्
कार्यकारणभावोपपत्तिरिति ।
यत्तु न सङ्कर्षणान्मन उत्पद्यते ब्रह्मण एव उत्पत्तिश्रुतेरिति
तदपि तस्य विज्ञानादित्वेन परिहृतम् ।
अपि च न च कर्त्तुः करणम् इति किमुक्तं भवति किं यस्याः
क्रियाया यत्करणं तत्क्रियाकर्त्तुर्नोत्पद्यते, उत यद् यत्र क्वापि
करणं तत् कुतश्चिदपि कर्त्तुर्नोत्पद्यत इति वा ।
तत्राद्ये कल्पे सिद्धसाधनतया अनुमानस्य विप्रतिषेधः, न
ह्यत्र सङ्कर्षणात्कर्त्तुरुत्पद्यमानं मनः स्वोत्पादने करणं
कर्मत्वात्, नापि स्वोत्पत्तौ कर्तृत्वात् ।
अपरेऽपि कल्पे प्रत्यक्षविप्रतिषेधः उदकाहरणादौ
करणभूतानामपि घटादीनां कर्त्तुः कुलालादेरुत्पत्तिदर्शनात् ।

तदिदमाह विप्रतिषेधादिति ।
यद्वा सूत्रद्वस्यास्य व्याख्यानान्तरमुच्यते ।
विज्ञानादेः प्रामाणत्वहेतोर्भावेन युज्यते ॥
पञ्चरात्रप्रमाणत्वनिषेधोऽतिप्रसङ्गतः ।
तत्रानुवादसंदेहज्ञानानुत्पत्तिलक्षणम् ॥
निरस्तमप्रमाणत्वं विज्ञानग्रहणादिह ।
वक्त्राशयवशप्राप्तमिथ्याशंकाऽपनुत्तये ॥
आदिशब्देन तन्त्राणामाप्तोक्तत्वं विवक्षितम् ।

तथा हि ।

यस्साक्षात् कुरुते सदा सहजया बुद्ध्या समस्तं जगत् ।
यः पुंसामभिवाञ्छितानि दिशति ध्यानैकसंतर्पितः ॥
नित्यावाप्तसमस्तकाम इति यं प्राहुस्त्रयीपारगाः ।
तस्मिन् विभ्रमविप्रलम्भनमुखा दोषा भवेयुः कथम् ॥
उत्पत्त्यसम्भवो यश्च पूर्वसूत्रद्वयोदितः ।
संकर्षणादिमूर्तीनां तत्र प्रतिविधीयते ॥

विप्रतिषेधात् इति
पञ्चरात्रसमरणानुमितभगवत्प्रत्यक्षविप्रतिषेधात्
तदनुमितश्रुतिविप्रतिषेधाद्वेति ।
यद्वा सूत्राणां न्यायप्रदर्शनपरत्वात्
पञ्चरात्रश्रुत्योरसन्तमपि विरोधं कृत्वाऽत्र चित्यन्ते तथा ।

सति वेदाविरुद्धत्वे किन्नु मन्वादिवाक्यवत् ।
अप्रमाणामिदं शास्त्रं प्रमाणं वेति संशये ॥
अप्रमाणं विरुद्धार्थप्रमित्युत्पत्त्यसम्भवात् ।
असम्भवश्च सापेक्षनिरपेक्षत्वहेतुकः ॥

यावद्धि सापेक्षं पञ्चरात्रस्मरणं न
मूलप्रमाणोपस्थापनमुखेन स्वार्थं प्रमातुमुपक्रमते
तावन्निरपेक्षापौरुषेयागमभुवा प्रत्ययेन तदर्थस्यान्यथा
परिच्छेदात्तद्विरुद्धायाः प्रमितेरुत्पत्त्यसम्भवात् ।

तावद्धि पञ्चरात्रस्य मूलश्रुत्यवबोधनम् ।
प्रत्यक्षशास्त्रशस्त्रेण यावन्मूलं न लूयते ॥

ननु कथं वेदा वा निरपेक्षा यावता तेषामपि
भगवदनुभवसापेक्षमेव प्रमाणत्वं तत्कारणत्वात्, यथैव
हि पञ्चरात्रस्मृतयः तदनुभवसापेक्षाः एवं वेदा अपीति
तत्रोच्यते न च कर्त्तुः करणं न कर्त्तुरीश्वरस्य करणं वेदाः
क्रियन्त इति करणं, कर्णि ल्युट्, अपौरुषेया वेदा इति यावत् ।
विज्ञानादिभावे वा तदप्रतिषेध, न चेदस्ति
पञ्चरात्रशास्त्रमप्रमाणैति किन्तर्हि तदप्रतिषेधः
प्रमित्युत्पत्तेरप्रतिषेधः विरुद्धार्धमपि विकल्पेन
प्रमाणमित्यर्थः
असम्भवद्भ्रमविप्रलम्भगवदनुभवमूलत्वाद्,
विज्ञानादिभावे विज्ञानं – विशिष्टं ज्ञानम्
असम्भवत्स्खलनमिति यावत्, अन्येषां हि
सर्वधर्मशास्त्रनिबन्धणां सांसारिकत्त्वेनासार्वज्ञ्यात्
अनवाप्तकामत्वाच्च सम्भाव्यमानविविधविप्लवं ज्ञानं,
भगवतस्तु स्वाभाविकनिरङ्कुशैश्वर्यस्य
श्रुतिशतसमधिगतावितथसहजसमस्तधर्माधर्मादिसाक्षात्कार
ं ज्ञानमिति विज्ञानमित्युक्तं, तादृशस्य (अस्मिन्नर्थे
विज्ञानस्यादिभावोविज्ञानादिभाव इति षष्ठीतत्पुरुषो
ज्ञेयः)तस्यादिभावे मूलत्वे सति तदप्रतिषेधः प्रमाणमेवेति ।
ननु कथं श्रुतिविरुद्धस्य तन्त्रस्य प्रामाण्याभ्युपगमः
तत्प्रामाण्ये हि श्रुत्या सह विकल्पः प्राप्नोति, विकल्पश्च
अष्टदोषदुष्टः, स च
क्वचिदन्यतरपरित्यागकारणाभावादगत्याऽभ्यनुज्ञायते, यथा
व्रीहिभिर्यजेत् यवैर्यजेत इति, न हि तत्रान्यतरदपहर्तुं शक्यम्
उभयोरप्यनपेक्षत्वाविशिष्टत्वात् ।
न चैवमपि पञ्चरात्रश्रुत्योर्विकल्पेन भवितव्यम् अतुल्यत्वात्,
निरपेक्षं हि वैदिकं वचनं अपौरुषेयत्वात्, सापेक्षं च
पञ्चरात्रवचनमिति कथमनयोर्विकल्पः ।

श्रूयतां पञ्चरात्रशास्त्रस्यापि निरपेक्षत्वादेव ।
कथन्नु पौरुषेयस्य वचसो निरपेक्षता ।
इति चेदिदमाचष्टां पृष्टस्सन्नेष तार्किकः ॥
किमस्य बोधकत्वाय परापेक्षाऽभ्युपेयते ।
किं वा निश्चायकत्त्वाय यथार्थज्ञापनाय वा ॥
पुमर्थत्वाय वा तत्र चतुर्णामप्यसम्भवः ।

न खलु चक्रवर्त्त्युपचारेण भगवन्तं समर्चयेदितीदं
वचनं श्रूयमाणं बोधकत्वाय किञ्चिदपेक्षते अन्यत्र
व्युत्पत्तिग्रहणात्, न च तावता सापेक्षत्वेन दौर्बल्यं श्रुतावपि
दौर्बल्यप्रसङ्गात् ।
नापि निश्चयजननाय, न हि अर्चयेदित्येतत् अर्चयेन्न वेति
संशयितं प्रत्ययमुत्पादयति व्युत्पत्तिप्रतिपत्तिव्याकोपप्रसङ्गात् ।
नापि यथार्थत्वाय, न ह्युत्पन्नं ज्ञानं
स्वकारणव्यतिरेकेण यथार्थत्वाय अपरमपेक्षते गुणतः
प्रामाण्यस्यायुक्तत्वात् अनभ्युपगमाच्च ।
न च पुरुषार्थत्वाय परापेक्षा
शास्त्रशरीरपर्यालोचनादेव तत्सिद्धेः, इह हि
यथोक्तसंस्कारवतां शास्त्रश्रवणात् तदर्थज्ञानं
ततस्तदर्थंपाञ्चकालिकानुष्ठानं, ततो
निरतिशयसंपत्प्राप्तिरिति शास्त्रादेवावगम्यते ।
अथोच्येत सत्यपि पञ्चरात्रतन्त्राणां स्वतःप्रामाण्ये
यावत्तद्वक्तुराप्तिनिश्चयपुरस्सरं दोषाभावो नावधार्यते न
तावत्प्रामाण्यं निष्पाद्यत इति तदसत्, न हि दोषाभावाज्ञानं
प्रामाण्यं निष्पादयति निर्दोषज्ञानकारणादेव तदुत्पत्तेः ।
न च निर्दोषत्वायाप्तत्वादिगुणनिश्चयः सत्तामात्रेण
तत्सिद्धेः, यथाह वार्तिककारः । तदा न व्याप्रियन्ते तु
ज्ञायमानतया गुणाः । इति, दोषाभावज्ञानेऽपि गुणानां
सत्तयोपयोगो दर्शितः, दोषाभावे तु विज्ञेये सत्तामात्रोपकारिणः ।
इति, न चोत्पन्नमपि प्रमाणं
हानोपादानादिव्यवहारायापरममेक्षते
स्मरणाभिलाषाभ्यामेव तत्सिद्धेः, यथाहुः
स्मरणादभिलाषाच्च व्यवहारः प्रवर्तते इति ।
अपि च स्वतःप्राप्तप्रामाण्यानां वेदानामपि
यावत्कर्तृभावनिश्चयपुरस्सरं दोषाभावो नावधार्यते न
तावत्प्रामाण्यं प्रतिष्ठितीति समानं सापेक्षत्वम् ।

अथ योग्यानुपलम्भादेवानायाससिद्धे वक्तृभावे
निराश्रयदोषाणमसम्भवादप्रामाण्यशङ्कैव वेदे नास्ति इति चेत्
यथाहुः ।

तत्रापवादनिर्मुक्तिर्वक्तृभावाल्लघीयसी ।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छति ॥

इति ।

हन्त तर्हि पञ्चरात्रतन्त्रेऽपि सर्वज्ञसर्वेश्वरवक्तृभावादेव
अयत्नसिद्धे दोषाभावे अप्रामाण्यशङ्का नावतरतीति
समानश्चर्चः ।
एतदुक्तं भवति उभयोरपि स्वतःप्रामाण्ययोरेकत्र
दोषाभावनिश्चयः तदाश्रयपुरुषाभावनिश्चयात्, अन्यत्र
तद्विरुद्धगुणवक्तृकत्व निश्चयादिति ।
यथा औष्ण्याभावनिश्चयो नभसि
तदाधाराभावनिश्चयाज्जले तु तद्विरुद्धशैत्योपलम्भादिति ।

किञ्च ।

सापेक्षनिरपेक्षत्वे न हि बाधस्य कारणम् ।
शुक्तौ रजतबोधस्य निरपेक्षस्य बाधकम् ॥
नेदं रजतविज्ञानं तत्सापेक्षमपीष्यते ।
सेयं ज्वालेति संवित्तेस्तैलवर्तिविनाशजा ॥
अनुमा बाधिका दृष्टा सापेक्षाऽप्यक्षजन्मनः ।
अतो निरवकाशेन सावकाशं निषिध्यते ॥
न चेह सावकाशत्वं भगवच्छास्त्रवेदयोः ।
अथ श्रुतिविरुद्धस्य तन्त्रभागस्य दुश्शकम् ॥
वासुदेवप्रणीतत्वं निश्चेतुमिति मन्यसे ।
पञ्चरात्रविरुद्धस्य वेदभागस्य वा कथम् ॥
अपौरुषेयताज्ञानमाविर्भवति बाधितम् ।
तस्यापि वेदभागत्वात् तथाभावोऽभ्युपेयते ॥
अस्यापि पञ्चरात्रत्वात् तत्प्रणीतत्वमिष्यताम् ।
कर्तुरस्मरणात्तत्र यदि चापौरुषेयता ॥
तत्कर्तृकत्वस्मृत्याऽत्र किन्न स्यात्तत्प्रणीतता ।
अस्ति ह्यास्त्रीकुमारं सा दृढा स्मृतिपरम्परा ॥
पञ्चरात्रस्य निर्माता केशवो भगवानिति ।
तत्प्रणीतत्वविश्वासाद् गजानश्वान् धनं बहु ॥
दक्षिणां विविधां दत्त्वा प्रतिष्ठादीनि कुर्वते ।
साङ्ख्यस्य कपिलो वक्ता पञ्चरात्रस्य केशवः ॥
इति स्कन्दपुराणेऽपि पठ्यते भारते तथा ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
नारायणमुखोद्गीतं नारदोऽश्रावयन्मुनीन् ।
ब्रह्मणस्सदने तात ! यथादृष्टं यथाश्रुतम् ॥
एवमादिपुराणोक्तैः सहस्रैर्न्यायवृंहितैः ।
वासुदेवप्रणीतत्वं पञ्चरात्रस्य निर्व्यथम् ॥
किन्तु वेदस्य नित्यत्वे विवदन्दे विपश्चितः ।
तेन निर्दोषविज्ञानकारणत्वाद् द्वयोरपि ॥
निर्विशङ्कं प्रमाणत्वं भगवच्छास्त्रवेदयोः ।
ततश्च तुल्यशिष्टत्वाद् विकल्पेन प्रमाणता ॥
इति मत्वैतदाचष्टे सूत्रकारो महामनाः ।
विज्ञानादिभावे वा तदप्रतिषेध इति ॥

ननु च भगवतस्सर्वज्ञत्वेनासंभाव्यमानायामपि
भ्रान्तौ सर्वशक्तित्वेन विप्रलब्धमपि भवतीति किमिदमपि शास्त्रं
व्यामोहयितुमभिहितम् उत वस्तुतोऽवहितबुद्ध्या
निबद्धमित्यन्यतरपक्षावलम्बनविक्लबमनसां क इव
निर्णयोपायः, प्रत्युत वेदविरोधादेव
विप्लवनफलमित्यध्यवस्याम इति ।
तत्रोच्यते विप्रतिषेधात् इति,
समस्तश्रुतीतिहासपुराणलोकविप्रतिषेधाद् यदि विना कारणेन
भगवतः सर्वशक्तित्वमात्राद् विप्लावनशङ्का ।

हन्तैवं सर्वशक्तित्वान्नरके धार्मिकानपि ।
पातयेन्नेति सन्देहान्निश्चेष्टं जगदापतेत् ॥

अपि चायं सर्वशक्तित्वेन विप्रलिप्समानः
किमतीन्द्रियासत्यार्थान् वेदानादौ निर्माय स्व
स्वनिर्माणस्मरणशक्तिमपि हिरण्यगर्भादेरपहृत्य तत्प्रभृति
स्वाध्यायपरम्परामिमां प्रवर्तितवान्न वेति संशयानाः
कथं विश्वसिमः । अथास्य सत्यपि सर्वशक्तित्वे यावच्छक्ति करणे
प्रमाणाभावात् अनवस्थानाद् भगवतश्च स्वभावाप्तकामतया
विप्रलम्भप्रयोजनविरहाद् वैषम्यनैर्घृण्यादिदोषैर्मात्रयापि
चासंस्पृष्टत्वात् सर्वप्राणिजातस्य स्वभावसौहृदेन
व्यवस्थानाद् विप्रलब्धुं प्रणीतत्वे च विदुषामद्य यावत्
स्वाध्यायाध्ययन – तदर्थानुष्ठानवतां
तत्कर्तृदोषविस्मरणानुपपत्तेस्तादृशाशङ्का नास्तीति
चेत्तदेतत्सर्वमन्यत्रापि समानम् ।

तथा हि ।

किमस्यावाप्तकामस्य सर्वज्ञस्य दयानिधेः ।
अल्पसत्त्वैरलब्धार्थैर्विप्रलब्धैः प्रयोजनम् ॥
विप्रलब्धुं कृतं तन्त्रं कथं वा परमर्षयः ।
इतस्ततः प्रशंसन्ति तुल्यवच्छ्रुतिमूर्द्धभिः ॥
तथा हि वेदैस्सह निर्विशेषं वाराह – रामायण – भारतादौ ।
अमुष्य तन्त्रस्य रहस्यभावं व (पठन्तीति द्रविडपाठः ।)दन्ति
सन्तस्तमिमं वदामः ॥

वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज ? ।
प्राप्योऽहं नान्यथा प्राप्यो वर्षलक्षशतैरपि ॥
पञ्चरात्रं सहस्राणां यदि कश्चिद् ग्रहीष्यति ।
कर्मक्षये च मद्भक्तो यदि कश्चिद् भविष्यति ॥
तस्य वेदाः पञ्चरात्रं नित्यं हृदि व(वत्स्य प्राप्ते
वसिष्यतीत्यार्षम् ।)सिष्यति ।
यदिदं पञ्चरात्रम्मे शास्त्रं परमदुर्लभम् ॥
तद् भवान् वेत्स्यते सर्वं मत्प्रसादादसंशयम् ।
पुराणैश्चैव वेदैश्च पञ्चरात्रस्तथैव च ॥
ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ।
एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पञ्चरात्रञ्च सत्तम ? ॥
वेदेन पञ्चरात्रेण यः पश्यति स पश्यति ।
इदम्महोपनिषदं चतुर्वेदसमन्वितम् ॥
वचसामेवमादीनामानन्त्यादुपरम्यते ।
इत्थंभूतस्य तन्त्रस्य विप्लवं यदि शङ्कसे ॥
सर्वत्र स्यादनाश्वास इत्येतदुपदिश्यते ।
विप्रतिषेधात् । इति,

एवञ्च ।

विरोधेऽपि विकल्पः स्याद् भगवच्छास्त्रवेदयोः ।
विरोध एव नास्तीति प्रागेव प्रत्यपादयम् ॥

नन्वत्र भवतां भाष्या(भाष्यकारपदेनेह द्रमिडाचार्यो,
भिधित्सितः । श्रीभाष्यकाराः श्री६रामानुजाचार्यास्तु, श्री
६यामुनमुनीनां शिष्यशिष्या इति श्रीभाष्यस्य
श्री६यामुनमुन्युत्तरकालप्रणीतत्वेन तदिह भाष्यं न
विवक्षितुं शक्यम् ।) काराणां
विरुद्धांशप्रामाण्याभिधानं कथमिव, यद्यपि विरोधः
कृत्वा चिन्तया परिहृतस्तदपि
गम्भीरन्यायसागरमवगाठुग्रपरिबृढानां कोमलमनसां
वेदानादरो माभूदित्येवम्परम्, यथैव हि भगवतो जैमिनेः
कर्मफलोपन्यासः कर्मश्रद्धासंवर्द्धनायेति ।

वेदबाह्यगृहीतत्त्वादप्रामाण्यमवादि यत् ।
एतद्वाह्यगृहीतत्वाद् वेदानां वा कुतो न तत् ॥

…..Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.