[highlight_content]

आगमप्रामाण्यम् Part 1

श्रीः

श्रीयै नमः

श्रीधराय नमः

भगवते यामुनमुनये नमः

श्रीमते रामानुजाय नमः ॥

श्रीभाष्यकाराणां परमगुरुणा श्रीयामुनाचार्यस्वामिना प्रणीतम् ।

आगमप्रामाण्यम् । (Part 1)
(
श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम्)

नमोनमो यामुनाय यामुनाय नमोनमः ।
नमोनमो यामुनाय यामुनाय नमोनमः ।

जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे ।
करामलकवद्विश्वं पश्यते विष्ण्वे नमः ॥

येऽमी केचन मत्सरात्सवयसो दुर्मानसारा नराः ।
गम्भीरां गुणशालिनीमपि गिरं निन्दन्ति निन्दन्तु ते ॥

सारासारविचारकौशलदशापारे परेऽवस्थिताः ।
सन्तस्सन्त्यनसूयवोऽपि बहवः शंसन्ति ये मद्गिरम् ॥

अभिनिवेशवशीकृतचेतसां बहुविदामपि सम्भवति भ्रमः ।
तदिह भागवतं गतमत्सरा मतमिदं विमृशन्तु विपश्चितः ॥

इह केचिद्
यतस्ततोऽवगतकतिपयकुतर्ककल्कविस्फूर्ज्जितविजितमनसस्त्रयीमार्गस्
अंरक्षणव्याजेन निजविमर्शकौशलातिशयमुपदर्शयन्तः
परमपुरुषविरचितनिरतिशयनिश्रेयसगोचरपञ्चरात्रतन्त्रप्रामा.
न्ये विप्रतिपद्यन्ते ।

वदन्ति च ।

द्वेधा खलु प्रमाणत्वं वचसामवसीयते ।
एकम्मानान्तरापेक्षमनपेक्षमथेतरत् ॥

तत्रापि ।

न तावत्पुरुषाधीनरचनं वचनं क्वचित् ।
आसीदति प्रमाणत्वमनपेक्षत्वलक्षणम् ॥

पौरुषेयं हि वचः
प्रमाणान्तरप्रतिपन्नवस्तूपस्थापनायोपादीयमानं
वक्तुस्तदर्थसिद्धिमनुरुध्यमानमेव प्रमाणभावमनुभवति ।
न च
पञ्चरात्रतन्त्रप्रतिपाद्यमानविलक्षणदीक्षापूर्वकभगवदार
अध-नाभिलषितस्वर्गापवर्गादिसाध्यसाधनसंबन्धं
प्रत्यक्षादीन्यावेदयितुं क्षमन्ते । न हि प्रत्यक्षेण
दीक्षाराधनादीनि निरीक्षमाणास्तेषां निश्रेयससाधनतां
प्रतिपद्यामहे ।
न चार्वाचीनाः
केचिदतिमानुषशक्तयोऽमीषमभिलषितसाधनतामध्यक्षितवन्त
इति प्रमाणमस्ति, यतस्तेषामपि चक्षुरादीन्द्रियं
दृश्यमानमिन्द्रियस्वभावं नातिक्रमितुमुत्सहते ।

ननु च ।

प्रकृष्यमाणं प्रत्यक्षं दृष्टमाश्रयभेदतः ।
अतस्तदाश्रये क्वापि ध्रुवं परिनितिष्ठति ॥

सर्वं हि सातिशयं निरतिशयदशामनुभवद् दृष्टं
वियतीव परिमाणं, सातिशयं च काकोलूकगृध्रादिषु
प्रत्यक्षमीक्षितमिति तदपि तथा भवितुमर्हति । इयं च ज्ञानस्य
परा काष्ठा या सर्वगोचरता, अधिकविषयतयैव हि जगति जानानि
परस्परमतिशेरते ।

इत्थमैश्वर्यवैराग्यसामर्थ्यादिगुणा अपि ।
निरस्तातिशयाः पुंसि क्वचित्सन्तीति सूरयः ॥

अतो
यस्यैतदखिलभुवनावलम्बिभावभेदसाक्षात्कारिप्रत्यक्षं स
तत्समीक्षितदीक्षाराधनादिधर्मभावो भगवानेवं व्याचष्टेति
किमनुपपन्नमिति ।

तन्न प्रत्यक्षविज्ञानप्रकर्षः कल्पितोऽपि वः ।
स्वगोचरमतिक्रम्य नान्यदास्कन्दितुं क्षमः ॥

तथा हि ।

रूपरूपितदेकार्थसमवायिषु चाक्षुषः ।
प्रकर्षो भवितुं युक्तो दृश्यमानप्रकर्षवत् ॥

एवम्, ।

इन्द्रियान्तरविज्ञानं विश्वं गोचरयेन्न तु ।
कथं प्रत्यक्षविज्ञानं विश्वं बोधयितुं क्षमम् ॥
ननु तत्कॢप्तसामर्थ्यं विद्यमानोपलम्भने ।

असति हि स्वभावानुबन्धिनि विद्यमानोपलम्भनत्वे
प्रत्यक्षतैव परावर्तते, न ह्यजातमतिवृत्तं
वाऽगमयदनुमानादि प्रत्यक्षपक्षनिक्षेपं, तेन
अशेषविषयितालक्षणप्रत्यक्षप्रकर्षः
स्वभावनियमनिर्मूलितोदय इति न हृदयमधिरोहति । इदमपि
सातिशयेन निरतिशयमनुमिमानः पृष्टो व्याचष्टां सातिशय एव
किन्नु तां दशामनुभवति यतः परं न संभवति
महिमेत्यभिनिविशसे बाल इव स्थविरभावम् ।
अथैकस्मिन् सातिशये केनाप्यन्येन निरतिशयेन भवितव्यमिति
आहोस्वित्समानजातीयेनान्येन निरतिशयदशामधिरूढेन
भवितव्यति ।

न तावदग्रिमः कल्पः कल्पतेऽनुपलम्भतः ।
न हि दृष्टं शरावादि व्योमेव प्राप्तवैभवम् ॥

यदि च तदेव सातिशयमसंभावनीयपरप्रकर्षं
परिनितिष्ठेत्, हन्तः ? तर्ह्येकैकेन घटमणिकादिना
ब्रह्माण्डोदरविवरमापूरितमिति
तत्प्रतिहततयेतरभावभङ्गप्रसङ्ग

व्योम्नैव लब्धसाध्यत्त्वान्मध्यमः सिद्धसाधनः ।
कल्पान्तरेऽपि दुर्वारं प्रागुदीरितदूषणम् ॥

विभुस्तम्भान्तख्याप्तस्तम्भस्सातिशयो न हि ।
दृष्टपूर्वस्तथाऽन्योव्याघातः स्थित एव सः ॥

यदपि वियति परिमाणमिह निदर्शितं तदपि विमर्शनीयमेव
परिमाणं हि नाम देशावच्छेदः इयत्ता परितोभाववेष्टनमिति
यावत् ।
न च नभसि तदस्तीति कथमिव तदिह निदर्शनतया निर्दिश्यते ।
यदि च नभसि तदनुमन्वीत तदपि तर्हि
सम्भाव्यमानपरप्रकर्षमिति पुनरपि साध्यविकलता ।
न च अतिशयितेन प्रत्त्यक्षेण दीक्षाराधनादयो धर्मतया
अवबोधिता इत्यपि प्रमाणमस्ति तस्मादस्मदादिषु
अनालोचितपरचेतनातिरेकपरिकल्पनाऽल्पीयसीति
नाभिप्रेतसाध्यसाधनसम्बन्धे प्रत्यक्षं प्रमाणं, नतरां
तन्मूलतया पञ्चरात्रस्मृतिः प्रमाणम् ।
न च करणपथदूरवर्तिनि प्रस्तुतवस्तुन्यविनाभावा-
धारणाधीनोदयमनुमानमुत्पत्तुमलं, न
ह्यष्टचरवह्वयस्तदविनाभावितया धूममनुसंदधति ।
न चागमस्सात्वतसमयसिद्धक्रियाकलापकर्तव्यतोपस्थापन-
परः परिदृश्यते, येन तन्मूलतया पञ्चरात्रस्मृताः प्रमाणं
स्युः, न चादृश्यमानोऽप्यनुमानगोचरः, यथैव हि
तन्त्रप्रसिद्धदीक्षाराधनतत्फलाभिमतस्वर्गादिसाध्यसाधन-
भावो नानुमानगोचरः सम्बन्धावधारणविरहात्, एवं
तन्मूलागमोऽपि तत एव नानु मातुं शक्यः ।
न चागमेनापि प्रस्तुतस्मरणमूलभूतागमावगमः
सम्भवति स हि द्वेधा पौरुषेयापौरुषेयभेदात् ।

न तावत्पौरुषेयेण वचसा तस्य सम्भवाः ।
विप्रलब्धुमपि ब्रूयुर्मृषैव पुरुषाः यतः ॥
अद्यत्वेऽपि हि दृश्यन्ते केचिदागमिकच्छलात् ।
अनागमिकमेवार्थं व्याचक्षाणा विचक्षणाः ॥

तदिह पञ्चरात्रग्रन्थप्रबन्द्धृणामपि
तन्मूलभूतागमावगमपुरःसरी किं स्वनिबन्धनानां
वेदमूलत्त्वप्रतिज्ञा, किं वा यथारुचि रचयतां प्ररोचनाय
तथा वचनमिति शङ्कामहे ।

तावता च प्रमाणत्वं व्याहन्येत समीहितम् ।
न हि नित्यागमः कश्चिदस्ति तादृशगोचरः ॥
न चोपमानात्तन्मूलश्रुतिसिद्धिरसम्भवात् ।
कथं ह्यदृष्टपूर्वा सा सदृशज्ञानगोचरा ॥
न चार्थापत्तितस्तन्मूलश्रुतिसिद्धिः, अनुपपत्त्यभावात्,
स्मरणन्यथाऽनुपपत्त्या हि तत्कल्पना प्रादुर्भवति । समरन्ति हि
पञ्चरात्रप्रणेतारः-दीक्षाराधनादि धर्मतयाऽष्टकादीनिव
मन्वादयः ।
न चाननुभूते वस्तुनि स्मरणशक्तिराविर्भवति,
अनुभवश्चेन्द्रियलिङ्गशब्दसदृशानुपपद्यमानार्थपूर्वकः,
ईदृशविषयेऽनुभवः प्रमाणान्तरेभ्योऽनाविर्भव/श्चोदनामेव
मूलमुपकल्पयतीति सिध्येदप्ययं मनोरर्थः यदि हि
यथार्थत्वनियमोऽनुभवानां प्रामाणिकः स्यात्, यदा
पुनारागद्वेषाभिनिवेशादिवशोकृतान्तःकरणानामयथार्थानु-
भवभाविता भावनाः स्वानुरूपाः स्मृतीरारचयन्ति कथमिव
तदा स्मरणानुपपत्तितः प्रमाणभूता श्रुतिरुपकल्प्येत
अन्यथाऽपि स्मरणोपपत्तेः, मन्वादिस्मरणेष्विदानीं का वार्ता ।
ननु तत्रापि प्रागुक्ता युक्तयः पराक्रमन्ते न ह्यष्टकां
दृष्टवतामिष्टसाधनमिति मतिराविरस्ति ।
न चानुमानं, सबन्धादर्शनात्, न च शब्दः,
तदनुपलम्भात्, न चानुपलब्धोऽनुमातुं शक्यः,
संबन्धादर्शनादेव, न चोपमेयः, सदृशानिरूपणात्, न च
कल्पयितुं शक्यः, अनन्तरोक्तत्वात् स्मृत्यन्यथोपपत्तेः ।

वेदसंयोगिपुरुषस्मरणानुपपत्तितः ।
कल्प्यते चेच् श्रुतिस्तत्र ततोऽन्यत्रापि कल्प्यताम् ॥
यतोनारदशाण्डिल्यप्रमुखाः परमर्षयः ।
स्मर्यन्ते पञ्चरात्रेऽपि संप्रदायप्रवर्तकाः ॥

ततश्च ।

तुल्याक्षेपसमाधाने पञ्चरात्रमनुस्मृती ।
प्रमाणमप्रमाणं वा स्यातां भेदो न युक्तिमान् ॥
त्यज्यतां वा प्रमाणत्वं मन्वादिस्मृतिगोचरम् ।
विशेषः पञ्चरात्रस्य वक्तव्यो वा स उच्यते ॥
अपि वा कर्तृसामान्यात् प्रमाणमिति सूत्रयन् ।
सूत्रकारः स्फुटीचक्रे वैलक्षणण्यं विवक्षितम् ॥

तथा हि
थ्रुतिविहितानामग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादिकर्मणां
स्मृतिविहितानामष्टकाचमन – संध्योपासनादिकर्मणां च
पित्राद्युपदिष्टत्वात् परमहितबुद्ध्या त्रैविद्यवृद्धानां
निर्विशेषमनुष्ठानं दृष्टं, तेन
तादृशशिष्टत्रैवर्णिकपरिग्रहद्रढिम्ना
स्पष्टदृष्टाष्टकादिकर्तव्यताप्रतीतिः स्वोपपादनपटीयसीं
श्रुतिमेव भूलभूतामवलम्बते ।
न चैवमाचमनोपनयनादीनिव
श्रुतिविहिताग्निहोत्रादिपदार्थानुष्ठायिनस्तान्त्रिकाचारानुपचरतः
पश्यामः ।

प्रत्युतैनान् विगर्हन्ते कुर्वाणान् वेदवादिनः ।
तस्माद् यत्कर्तृसामान्यात् प्रामाण्यं स्मृतिषूदितम् ॥
नैव तत्पञ्चरात्रादि बाह्यस्मरणमर्हति ।
न हि त्रैवर्णिकाः शिष्टास्तदुक्तार्थानुपासते ॥
ननु तत्रापि श्रुतिस्मृतिप्राप्तशिखायज्ञोपवीतादिधारयद्भिर्-
भागवतब्राह्मणरैहरहरनुष्ठीयमानार्थत्वेन
चोदनामूलत्त्वे संभाव्य माने कथमिव
प्रामाण्यप्रत्यनीकभूता भ्रमविप्रलम्भादयः
स्मरणकारणतया कल्प्यन्ते ।

उच्यते ।

हन्तैवंवादिना साधु प्रामाण्यमुपपादितम् ।
यत् त्रैवर्णिकविद्विष्टाश्शिष्टौ भागवता इति ॥

ननु ते कथमशिष्टा ये त्रैवर्णिकाग्रगण्या ब्राह्मणाः
तन्न तेषां त्रैवर्णिकत्वमेव नास्ति दूरे ब्राह्मणभावः, न
हीन्द्रियसंप्रयोगसमनन्तरं केषुचिदेव देहविशेषेषु
अनुवर्तमानमन्यतो व्यावर्तमानं नरत्वातिरेकिणं
ब्राह्मण्यं नाम जातिविशेषमपरोक्षयामः,
शिखायज्ञोपवीतादयस्तु ब्राह्मणदीनां विधीयमाना न
तद्भावमापादयितुं क्षमन्ते, नाप्यवगमयन्ति,
दुष्टशूद्रादिषु व्यभिचारदर्शनात्,
अतोनिर्विवादसिद्धवृद्धव्यवहार एवात्रावगमनिदानम् ।
न च भागवतेषु ब्राह्मणपदमविशङ्कं लौकिकाः
प्रयुञ्जते । भवति च भेदेन व्यपदेशः – इतो ब्राह्मणा इतो
भागवता इति । स्यादेतद् ब्राह्मणेष्वेव कुतश्चिद् गुणयोगात्
सात्वतभागवतादिव्यपदेशः यथा तेष्वेव परिब्राजकादिशब्दा इति
तन्न ।

रूढ्या सात्त्वतशब्देन केचित् कुत्सितयोनयः ।
उच्यन्ते तेषु सत्स्वेष शब्दो नान्यत्र वर्तते ॥
रूढिशक्तिप्रतिद्वन्द्वियोगशक्तिपरिग्रहः ।
अयुक्त इति युक्तिज्ञा रथकारपदे तथा ।

अपरथा कथमिव
रथकारशब्दोऽध्ययनसिद्धबुद्ध्यङ्गत्वभङ्गेनापि यौगिकीं
वृत्तिमपहाय जातिविशेषमभिनिविशते । सन्ति च सात्वता नाम
उपनयनादिसंस्कारहीना वैशव्रात्यान्वयिनोऽवरजन्मानः केचिद्
यथाऽह मनुः ।

वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
भारुषश्च निजङ्घश्च मैत्रसात्वत एव च ॥

इति,

भागवतशब्दश्च सात्वतेषु वर्तते इति नात्र कश्चिद् विवादः ॥

स्मरन्ति च ।

पञ्चमः सात्वतो नाम विष्णोरायतनानि सः ।
पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः ॥ इति

तथाचोदीरितव्रात्यप्रसूतिवृत्त्युपायतयेदमेव स्मरन्ति यदमी
ह प्रत्यक्षमेव वृत्त्यर्थमनुतिष्ठन्तो दृश्यन्ते तथा चोशना
सर्वेषां कृषि शस्त्रोपजीवनम् आचार्यसात्त्वतयोर्देवपूजनम् इति,
तथा ब्राह्मे पुराणो विष्णोरायतनानि स पूजयेदाज्ञया राज्ञाम्
। इति, तथाऽन्यत्रापि सात्वतानां च देवायतनशोधनं
नैवेद्यशोधनं प्रतिमासंरक्षणम् इति, तथा
चेदृशसंदेहव्युदासाय मनोर्वचः ।

प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।

इति ।

अपि चाचारतस्तेषामब्राह्मण्यं प्रतीयते ।
वृत्तितो देवतापूजा दीक्षानैवेद्यभक्षणम् ॥
गर्भाधानादिदाहान्तसंस्कारान्तरसेवनम् ।
श्रौतक्रियाऽननुष्ठानं द्विजैस्सम्बन्धवर्जनम् ॥
इत्यादिभिरनाचारैरब्राह्मण्यं सुनिर्णयम् ।

स्मरन्ति हि वृत्तितो देवपूजाया
ब्रह्मकर्मस्वनधिकारहेतुत्वं यथा ।

येषां वंशक्रमादेव देवार्चावृत्तितो भवेत् ।
तेषामध्ययने यज्ञे याजने नास्ति योग्यता ॥ इति ।

तथा च परमसंहितायां

तेषामेव वचः ।

आपद्यपि च कष्टायां भीतो वा दुर्गतोऽपि वा ।
पूजयेन्नैव वृत्त्यर्थं देवदेवं कदाचन ॥ इति ।

यदपि समस्तविशिष्टविगर्हितनिर्माल्यधारणनैवेद्य-
भक्षणाद्यनुष्ठानं तदपि तेषामब्राह्मण्यमेवाभिद्योतयति
इति ।
अपि च यदवलोकनादावपि
विशिष्टाश्चान्द्रायणादिप्रायश्चित्तानि विदधति कथं तत्परिग्रहः
श्रुतिमूलत्वमवगयतीति संभावयामः । स्मरन्ति हि
देवलकावलोकने प्रायश्चित्तं देवलकाश्चामी देवकोशोप जीवित्वाद्
वृत्त्यर्थं देवपूजनात् । तथा च देवलः ।
देवकोशोपजीवी यस्स देवलक उच्यते । इति,

तथा, वृत्त्यर्थं पूजयेद्देवं त्रीणि वर्णाणि यो द्विजः ।
स वै देवलको नाम सर्वकर्मसु गर्हितः ॥

इति ।

अमी पुनर्वंशानुपरम्परया वृत्त्यर्थमेव
देवमाराधयन्तो दृश्यन्ते, अतो
देवलकत्त्वमकामेनाप्यभ्यनुज्ञातव्यं तथा च ।

विड्वराहं च षण्डं च यूपं देवलकं शवम् ।
भुञ्जानो नेक्षयेद्विप्रो दृष्ट्वा चान्द्रायणं चरेत् ॥

इति प्रायश्चित्तं स्मरन्ति, तथा च
विषदतरममीषामेवोपब्राह्मण्यं वर्णयत्यत्रिः । अवालुका
देवलकाः कल्पदेवलका गणभोगदेवलका भागवतवृत्तिरिति
चतुर्थः एते उपब्राह्मणा इति, तथा च भगवान् व्यासः ।

आह्वायका देवलका नक्षत्रग्रामयाजकाः ।
एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ॥

इति, एवं जात्या कर्मणा च
त्रयीमार्गादपभ्रष्टभागवतजनपरिग्रह्व एव
पञ्चरात्रशास्त्रप्रामाण्यप्रतिक्षेपाय पर्याप्तो हेतुः, तथा हि ।

विवादाध्यासितं तन्त्रं न मानं पुण्यपापयोः ।
त्रयीवाह्यैर्गृहीतत्वाच् चैत्यवन्दनवाक्यवत् ॥

अपि च तेषां त्रयीमार्गत्यागपुरस्सरः सर्वधर्मोपदेश इति
स्ववाक्यान्येव उपख्यापयन्ति चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा
शाण्डिल्य इदं शास्त्रमधीतवात् इत्यादीन् तदिह कथं
चतुर्णामपि वेदानां निश्रेयससाधनावबोधकत्वव्युदासेन
आरभमाणः तत्प्रसादावगतमर्थं पुमर्थतया
कथयतीत्युत्प्रेक्ष्येत ।
मन्वादयो हि विवक्षितसकलसमीहितसाधनावबोधकमाग-
मैकमूलमभिदधाना दृश्यन्ते ।

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
श्रुतिस्मृतिविहितो धर्मः । स सर्वोऽभिहितोवेदे सर्वज्ञानमयो
हि सः । इति च ।

यदपरम् उपनयनादिसंस्कृतानामधिकृतानां च
अग्निहोत्रादिसमस्तवैदिककर्मसु पुनरपि
भगवदाराधनाधिकारसिद्धये दीक्षालक्षणसंस्कारवर्णनं
तदवैदिकतामेवानुकारयति, वैदिकत्वे हि
तैरेवसंस्कारैर्भगवदाराधनादावप्यधिक्रियेरन् ।
यदपि धर्मप्रमाणतया समस्तास्तिकजनपरिगृहीतेषु
चतुर्दशविद्यास्थानेष्वपरिगणनं तदप्यवैद्कत्त्वे लिङ्गम्
अन्यथा हीदमपि तदन्यतमत्वेन स्मर्येत । न च स्मर्यते, तदवसीयते
अवैदिकमेवेदं पञ्चरात्रस्मरणमिति । अत एव च भगवता
बादरायणेन
त्रयीमार्गप्रत्यनीकभूतकणभुगक्षचरणसुगतमतादिबाह्यसम्
अयनिरासावसरेऽस्य तन्त्रस्य निरासः । उत्पत्त्यसंभवात् इति ।

त्रयीविदामित्थमसङ्ग्रहेण तथा त्रयीबाह्यपरिग्रहेण ।
अनन्तरोक्तैरपि हेतुभिस्तन्न मानवादिस्मरणैस्समानम् ॥

एवं सति यान्यपि लोकं व्यामोहयितुं
विद्वेषणोच्चाटनवशीकरणादिक्षुद्रविद्याप्रायमेव
बहुलमुपदिशद्भिर्भगवदाराधनादिकतिपयवैदिककर्माणि
पाञ्चरात्रिकैर्निर्दिश्यन्ते तान्यनुपयोग्यान्यविस्रम्भणीयानि च
श्वदृतिनिक्षिप्तक्षीरवदिति मन्यामहे ।

अतो न वेदमूलत्त्वं पञ्चरात्रस्य युज्यते ।
प्रामाण्यं प्रतिपद्येत येन मन्वादिशास्त्रवत् ॥

अत्र कश्चिदाह कामं कक्ष्यान्तरितप्रामाण्येषु
मन्वादिस्मरणेषु कारणतया वेदाः परिकल्प्यन्तां,
पञ्चरात्रस्मरणस्य तु किं वेदेन तन्मूलतयाऽवलम्बितेन
वेदानामपि यदनुभवनिबन्धनं प्रामाण्यं तदनुभव एव हि
पञ्चरात्रस्मरणस्य निदानं, न खलु
तुल्यमूलयोरष्टकाचमनस्मरणयोर्मिथोमूलमूलिभावः ।

परस्परमपेक्षेते तुल्यकक्ष्ये न हि स्मृती ।
पञ्चरात्रश्रुती तद्वन्नापेक्षते परस्परम् ॥
वेदमूलत्वहानेन पञ्चरात्रेऽवसीदति ।
कुतस्तन्मूलताहानादागमो नावसीदति ॥

आह किमेवं वेदा अपि पुरुषानुभवाधीनप्रामाण्याः
पौरुषेया एव कस्संशयः, वाक्यत्वं हि
पराधीनरचनत्वस्वभावमुपलभ्यमानं
कथमपरथाऽवतिष्ठेत वेदनाम्नो ग्रन्थस्यायं महिमा
यत्केनचिद् असन्दृब्धोऽपि वाक्यत्वेनावतिष्ठत इति चेत्, हन्त तर्हि
पर्वतवर्तिनो धूमस्यायं महिमा
यज्ज्बलनमन्तरेणानुच्छिन्नसन्तानो गगनतलमधिरोहतीति किमिति न
स्यात् ।

ननु कथमतिक्रान्तमानान्तरावतारे धर्मे ग्रन्थः
सन्दृभ्यते, मैवं यतस्सहजसंवेदनसाक्षात्कृतधर्माधर्म
एव भगवान् जगदनुकम्पया वेदनामानं ग्रन्थमारचयतीति ।
किमस्ति धर्माधर्मगोचरमपि प्रत्यक्षं, बाढं
कथमन्यथा तनुभुवनादिकार्यमुपजनयति, स हि तत्र कर्ता भवति
यो यस्योपादानमुपकरणञ्च साक्षात्कर्तुं प्रभवति
धर्माधर्मौ च जगदुपकरणमिति मीमांसकानामपि
सम्मतमेव । अतस्तत्साक्षात्कारी कोऽप्याश्रयणीयः स च
वेदानादौ निरमिमीतेति । यस्तु ब्रूते गिरिभुवनादयो भावा न
कार्या इति प्रतिब्रूयादेनम् ।

विवादगोचरा भावाः कार्या विश्वम्भरादयः ।
विचित्रसन्निवेशत्वान्नरेन्द्रभवनादिबत् ।
तथा सावयवत्वेन विनाशोऽप्यवसीयते ॥
विनश्यन्ति च ये भावास्ते तत्साधनवेदिना ।
विनाश्यन्ते यथा तज्ज्ञैरस्माभिः करकादयः ॥

ये पुनरपरिदृष्टबुद्धिमदधिष्ठानतरुपतनादिशकलिता
भावाः तेऽपि विमत्याक्रान्ता इति नानैकान्तिकत्वमावहन्ति । किं च ।

महत्तया सनाथेन स्पन्दमानत्वहेतुना ।
उत्पत्तिभङ्गौ भावानामनुमातुमिहोचितौ ॥

तदेवमुदीरितन्यायप्रसिद्धे विश्वम्भरादिकार्यत्वे सिध्यत्येव
भगवतस्तदुपकरणधर्माधर्मसाक्षात्कारित्वम् । तथा हि ।

विवादाध्यासिता भावा येऽमी भूभूधरादयः ।
ते यथोक्तावबोधेन कर्त्रा केनापि निर्मिताः ॥
उत्पत्तिनाशभागित्वाद्यदुत्पत्तिविनाशवद् ।
दृष्टन्तत्तादृशा कर्त्रा निर्मितन्तद्यथा गृहम् ॥

न च वाच्यं कर्मणामेव स्वानुष्ठातृ पुरुषसमीहितानि
संपादयतामन्तरा नान्तरीयकं तनुभुवनादिकार्यनिर्माणमिति
यतश्चेतनानधिष्ठितानि तानि न कार्याणि जनयितुमुत्सहन्ते
अचेतनत्वाद् वासीवत्, न हि चेतनेन तक्ष्णाऽनधिष्ठिता वासी
स्वयमेव यूपादीन्यापादयितुमलम् ।

न चा पूर्वाण्यधिष्ठाय वयं निर्मातुमीश्वराः ।
न हि कर्मोदयात् पूर्वं साक्षात्कर्तुं क्षमामहे ॥

उक्तं हि उपादानोपकरणसाक्षात्कारिण एव तत्र तत्र
कर्तृत्वमिति ।
न च कर्मजन्यापूर्वसाक्षात्कारक्षमः क्षेत्रज्ञः कश्चित्
प्रज्ञायते प्रतिज्ञायते वा, अतः
क्षेत्रज्ञतदुपभोगतत्साधनधर्माधर्मादिनिखिललोकावलोकनच
तुरः कोऽपि निरतिशयशक्तिवैचित्र्यः पुरुषोभ्युपगन्तव्यः तस्य
चाप्रतिघज्ञानत्वादयस्सहजाः ।

यथाऽहुः ।

ज्ञानमप्रतिघं तस्य वैराग्यञ्च जगत्पतेः ।
ऐश्वर्यञ्चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥

इति, इममेवार्थं मन्त्रार्थवादेतिहासपुराणवादा
उपोद्वलयन्तिद्यावापृथिवी जनयन् देव एकः । प्रजापतिर्वेदानसृजत ।
इत्येबमादयः ।
स चाय (प्रलयकाले)मादिकाले भगवान्
प्रलीननिखिलकरणकलेवरादिभोगोपकरणचेतनेत (यथा हि
जडास्तथैव चेतना अपि करणकलेवरविकला
भोगभाजोनाभूवन्निति ते चेतनेतरायमाणा इत्युच्यन्ते
।)रायमाणजीवजालावलोकनजनितमहानुग्रहः सकलमपि
जगदुपजनय्य
तदभिलषितसमस्तसांसारिकसम्पत्प्राप्त्युपायप्रकाशानबहुला.
म् त्रयीमेकतो निर्माय पुनरपि विविधदुरितपरम्पराकीर्णभवार्ण-
वनिमग्ननुद्विग्नानुद्विग्नावलिकयन् परमकरुणतया तप्तमानसः
परमनिश्रेयससाधनस्वाराधानावबोधसाधनीभूताः
पञ्चरात्रसंहिताः सनत्कुमार-नारदादिभ्योऽभ्यवोचदिति
त्रयीसमानस्वतन्त्रानुभवमूलानि तन्त्राणि कथमिव
यादृशतादृशमन्वादिस्मरणगोष्ठीमधितिष्ठन्ति ।

स्यादेवं यदि वेदानां निर्माताऽपि प्रमाणतः ।
कुतश्चिदुपलभ्येत न चासावुपलभ्यते ॥
न च वाक्यत्वलिङ्गेन वेदकारोऽनुमीयते ।
अभिप्रेतविशेषाणां विपर्यासप्रसङ्गतः ।
वाक्यं हि यत् पराधीनरचनं संप्रदृश्यते ॥
शरीरिणैव तत्सर्वमुच्यमानं विलोक्यते ।
पुण्यपापनिमित्तञ्च शरीरं सर्वदेहिनाम् ॥
एवं पुण्येतराधीनसुखदुःखस्य देहिनः ।
अनीश्वरस्य निर्माणं वाक्यत्वमनुमापयेत् ॥
अपि चैवं प्रमाणत्वं वेदानामपि दुर्लभम् ।
न हि मानान्तरापूर्वे धर्मे तस्यास्ति संभवः ॥

ननु कथं मानान्तरापूर्वो धर्मः, उक्तं हि साक्षात्करोति
धर्माधर्मौ कथमन्यथा तदुपकरणं जगज्जनयति इति,

सत्यमुक्तं कोऽपि निर्माता तद् विश्वस्य जगतो न हि ।
विद्यते कोऽपि निर्माता येनैवमपि कल्प्यते ॥
विचित्रसन्निवेशत्वयुक्त्या यदपि साधितम् ।
तत्रोच्यते त्रिधा भावा लौकिकैः परिलोकिताः ॥
प्रत्यक्षदृष्टकर्तारः केचिदेते घटादयः ।
अविद्यमाननिर्माणास्तथाऽन्ये गगनादयः ॥
सन्दिह्यमाननिर्माणाः केचिद् विश्वम्भरादयः ।

तत्र प्रथमसन्दर्शितराशिद्वयेऽनवकाश
एवेश्वरव्यापारः । अद्यवदेव विश्वम्भरादयः
क्रमप्राप्तागन्तुकोपचयापचययोर्न युगपदुदयविलयभागिनः
ईदृशोत्पत्तिभङ्गौ मीमांसकानामपि सम्मतावेवेति
सिद्धसाधनत्वम् ।

बुद्धिमत्कर्तृता याऽपि प्रयासेन समर्थिता ।
साध्यते साऽपि सिद्धैव बुद्धिमन्तो हि चेतनाः ॥
यागादिभिः स्वभोगाय तत्तदुत्पादयन्ति नः ॥
युक्तञ्चोभयसिद्धानां तत्राधिष्ठानकल्पनम् ।
वयञ्च यागदानादि साक्षात्कर्तुं क्षमा यतः ॥
कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।
माभूत् प्रत्यक्षता तस्य किन्तेनाध्यक्षितेन नः ॥

न खलु कुलालादयः कुम्भादिकार्यमारिप्समानाः
तदुपादानोपकरणभूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं
साक्षात्कृत्य तत्तदारभन्ते ।
यदि परं शक्तिमविदुषामभिलषितसाधनाय
तदुपादानादिव्यवहारोऽनुपपन्नः इह तु नित्त्यागमजन्मना
प्रत्ययेन संप्रत्याकलितयागादितत्तदुत्पादनपाटवाः
पुरुषास्तैरेव विश्वम्भरादिभावानाविर्भावयन्ति,

तथा च ।

प्रत्यक्षप्रकृतिकरणः कर्मकरणप्रवीणो ।
नैवान्यः क्षम इति च नास्त्यत्र नियमः ॥
अपश्यन्नेवायं प्रकृतिकरणे स्वात्ममनसि ।
ननु ज्ञाने कर्ता भवति पुरुषस्तत्कथमिव ॥
विनाशीदं विश्वं जगदवयवित्वादिति च यत् ।
बलीयः प्रत्यक्षप्रतिहतमुखत्वेन तदसत् ॥
स एवायम्मेरुर्दिवसकरबिम्बञ्च तदिदम् ।
धरित्री सैवेति स्फुटमिह यतोधीरुदयते ॥

शक्नोति हि प्रत्यभिज्ञैव
समस्तकालसम्बन्धमेषामवगमयितुं, सन्ति हि
पूर्वापरकालयोरषि तादृशाः पुरुषाः प्रादुःषन्ति
येषामीदृशप्रत्त्ययाः, प्रयोगश्च भवति ।

महीशैलपतङ्गादिप्रत्यभिज्ञानवन्नरः ।
अतीतकालः कालत्वादिदानीन्तनकालवत् ॥
एवमनागतेऽपि प्रयोगो दर्शयितव्यः ।
न चेदृशप्रयोगेण घटादेरपि नित्त्यता ।
प्रसज्यते यतस्तत्र प्रत्यक्षौ भङ्गसम्भवौ ॥
विरोधे सति येनात्मा हेतुना नैव लभ्यते ।
न लभ्यते विरोधेऽपि तेनात्मेत्त्यस्त्यसम्भवः ॥

महत्त्वे सति स्पन्दमानत्वयुक्त्या
जगज्जन्मभङ्गश्च यः प्रत्यपादि ।
स च प्रत्यभिज्ञाबलध्वस्तहेतुर्न
हृद्यत्वमद्य प्रपद्येत युक्त्या ॥

अपि च धर्मिविशेषविरुद्धश्चायं हेतुः कार्यत्वादिति
कार्यत्वं हि स्वभावदृष्टविग्रहवत्त्वानाप्तकामत्वानी-
श्वरत्वासार्वज्ञ्यादिव्याप्तिवित्त्युपयुक्ततरानेकविशेषानुषक्तं
कथमिव तत्प्रत्यनीकभूताशरीरनित्त्यतृप्तसर्त्रज्ञत्वाद्यभिमत-
विशेषान् साध्यधर्मिण्यवगमयति, स्वशरीरप्रेरणमपि
शरीरसम्बन्धासमवायिकारणकप्रयत्नवतो नान्यस्येति न
कथंचिदशरीरिणः कर्तृत्वसंभवः ॥

अथैतद्दोषहानाय देहवानित्युपेयते ।
स देहो जन्मवान् मा वा जन्मवत्त्वेऽनवस्थितिः ॥
नित्यत्वेऽवयवित्वञ्च स्यादनैककान्तिकन्तव ।
यदप्येतेऽवोचन्नधिकरणसिद्धान्तबलतो-
विशेषास्सिध्यन्तीत्ययमपि च पन्था न घटते ।
स हि न्यायो जीवेदपि यदि च मानान्तरकृतो ।
विरोधोऽस्यादृष्टः पुनरपि विरोधः स्फुटतरः ॥

ननु च अवधृताविनाभावनियममपि यदि न
विश्वम्भरादिबुद्धिमन्निमित्ततामवगमयति
प्रत्यस्तिमितस्तर्ह्यनुमेयव्यवहारः, अथावगमयति,
अवगमयत्त्येवासावखिलत्रैलोक्यनिर्माणप्रवीणन्तमपि कर्तारं,
न ब्रूमो नावगमयतीति किन्तु यावन्तो विशेषाः
व्याप्तिग्रहणसमयसंविदिताः तानप्यविशेषेणोपस्थापयतीति ।
न च तावताऽतिप्रसङ्गः प्रमाणान्तरगोचरे हि लिङ्गिनि
लिङ्गबलादापततोविपरीतविशेषा/स्तत्प्रमाणमेव प्रतिरुणद्धि अत्र
पुनरतिपतितमानान्तरकर्मभावे भगवति सिषाधयिषिते
यावन्तोऽन्वयव्यतिरेकावधारिताविनाभावभाजो धर्मास्तान-
प्यविशेषेणोपस्थापयतीति, तथा च प्राङ्गणनिकटवर्तिदूर्वाङ्-
कुरादिष्वनवसितपुरुषव्यापारजन्मस्वनैकान्तः,
तत्राप्यतीन्द्रियपुरुषाधिष्ठानकल्पना कल्पनामात्रमेव ।

क्व वा देशे तिष्ठन्नवर (तिष्ठन्ननवरततृप्त) ततृप्तिः किमिति वा ।
कदा वा निश्शेषञ्जनयति तदेताद्विमृशतु ॥
क्वचित्तिष्ठन्निष्टं किमपि फलमुद्दिश्य करणैः ।
कदाचिद्यत्किञ्चिज्जनयति कुलालादिरखिलः ॥
कृतार्थत्वात्क्रीडा न च भवति हेतुर्यदि खलु ।
स्वभावस्वातन्त्र्यं प्रकटितमहो सम्प्रति विभोः ॥
अभिप्रेतं किञ्चिद्यदयमसमीक्ष्यैव कुरुते ।
जगज्जन्मस्थेमप्रविलयमहायासमवशः ॥
अनुकम्पाप्रयुक्तेन सृज्यमानाश्च जन्तवः ।
सुखिनः किन्न सृज्यन्ते तत्कर्मापेक्षया यदि ॥
ततः स्वतन्त्रताहानिः किञ्च तैरेव हेतुभिः ।
उपपन्नेऽपि वैचित्र्ये किन्तत्कल्पनयाऽनया ॥

अतो नास्ति तादृशः पुरुषः यस्समस्तजगन्निर्माणक्षमः
साक्षात्कृतधर्माधर्मो वेदानारचयति ।
अपि च यदि वेदाः केनचिदसृज्यन्त ततस्तेनामी विरचिता इति तत्कर्ता
स्मर्येत ।
न च जीर्णकूपादविवास्मरणं युक्तं, युज्यते हि तत्र
प्रयोजनाभावात् कर्त्तुरस्मरणं, वेदे
त्वनेकद्रव्यत्यागात्मकबहुतरायाससाध्यानि कर्माणि
प्रत्ययिततरनिर्मातृस्मरणमन्तरेण के वा श्रद्दधीरन्, तथा हि
नित्या वेदाः अस्मर्यमाणस्मरणार्हकर्त्तृकत्वाद् ये
यथोक्तसाध्या न भवन्ति ते यथोक्तसाधना अपि न भवन्ति यथा
भारतादयः, अमी तु यथोक्तसाधना इति यथोक्तसाध्या एव,
तस्मादपौरुषेया वेदा इति ।
स्वसिद्धान्ताभिनिवेशव्यामुग्धबुद्धिभिरभिहितमिदम् ।
यदनुभवनिबन्धनं वेदप्रामाण्यं तदनुभवनिबन्धनं
पञ्चरात्रप्रामाण्यमिति ।
ननु च किमिदमपौरुषेयत्वं वेदानां, यदि
नित्यवर्णारभ्दत्वं समानमिदं पञ्चरात्रतन्त्राणाम् ।
अथ पदानां नित्यता, सापि समानैव, न चानुपूर्वी नित्यता,
न हि नित्यानामानुपूर्वी स्वभाव उपपद्यते,
उच्चारणानुपूर्व्यादानुपूर्वी वर्णानामिति चेत् सा तर्हि
तदनित्यत्वादेव अनित्येति कः खलु विशेषः पञ्चरात्रश्रुत्योः ।
अयममेव विशेषो यदेकत्र स्वतन्त्र एव पुरुषस्तां
तामानुपूर्वी रचयति इतरत्र परतन्त्रो नियमेन
पूर्वाध्येतृसिद्धामेव विवक्षति, क्रमावान्तरजातिश्च
प्रत्यभिज्ञाबलप्रतिष्ठिता नापलापमर्हतीत्त्यलं प्रविस्तरेण ।
सिद्धमिदं न
विलक्षणपुरुषानुभवनिबन्धनप्रामाण्यवर्णनं साधीय इति ।

यतो न साक्षात्कृतपुण्यपापः पुमान् प्रमाणप्रतिपन्नसत्त्वः ।
अतो जगन्मोहयितुं प्रणीतं नरेण केनापि हि तन्त्रमेतत् ॥
ननु च केवलतर्कबलादयं यदि सिषाधयिषापदमीश्वरः ।
भवतु नाम तथा सति दूषणं श्रुतिशिरःप्रमितो हि महेश्वरः ॥

यदा तु सकलभुवननिर्माणक्षमसर्वज्ञसर्वेश्वरपरम-
पुरुषप्रतिपादकानि नित्त्यागमवचनान्येव बहुलमुपलभ्यन्ते
कथं तदा तदनुभवमूलस्मरणप्रामाण्यानङ्गीकरणम् ।
न च परिनिष्ठतवस्तुगोचरतया तानि
प्रमाणमर्यादामतिपतन्ति तादृशामपि
प्रमाणान्तरसम्भेदातिदूरगोचराणां पौरुषेयवचसां
स्वरससमासादितप्रामाण्यवारणायोगात् ।
न च सिद्धे वस्तुनि साधकबाधकयोरन्यतरोपनिपातसम्भव-
प्रसक्तेर्भावितानुबादविपर्ययपर्यालोचनया तद्गोचरवचसः
प्रामाण्यप्रच्युतिः कार्यनिष्ठस्यापि तत्प्रसङ्गात्, कार्यमपि हि
मानान्तरवेद्यमेव लौकिकं समिदाहरणादि, तच्च
मानान्तरेणापि वेदमोदनपाकवादित्यभ्युपगमात् ।
अथ
विलक्षणाग्निहोत्रादिविषयकार्यस्यासम्भावितमानान्तरतया
तत्प्रतिपादयद्वचः प्रमाणं, हन्त तर्हि
निरतिशयावबोधैश्वर्यमहानन्दसन्दोहवपुषि भगवति न
मानान्तरगन्धसम्बन्ध इति सर्वं समानमन्यत्राभिनिवेशात् ।

अपि च प्रवृत्तप्रमाणान्तरमपि स्वगोचरं तद्गोचरतया
नावभासयतीति परमपि प्रमाणमेव
कुतस्तदुपनिपातसम्भावनयाऽनुवादत्वं, कथं वा
प्रत्यस्तमितसमस्तपुरुषाशयदोषसंस्पर्शनित्यागमभुवः
प्रत्त्ययस्य पूर्वोपमर्दकतयोन्नियमानस्य
सम्भाव्यमानविविधविप्लवैः प्रमाणान्तररैपवादापादनमिति
यत्किञ्चिदेतत् ।
इत्थञ्च श्रुतिशतसमधिगतविविधबोधैश्वर्यादिवैभवे
भगवति सामान्यदर्शनावसितासार्वक्ष्यविग्रहवत्तादयो दोषा
नावकाशमश्नुवते हुतभुजीव शैत्यादयः ।

ततश्च ।

श्रुतिमूर्ध्नि प्रसिद्धेन सर्वज्ञेनैव निर्मितम् ।
तन्त्रं मिथ्येति वक्तुं नः कथं जिह्वा प्रवर्तते ॥
अहो मन्दस्य मीमांसाश्रमहानिर्विजृम्भते ।
मीमांसामांसलञ्चेतः कथमित्थं प्रमाद्यति ॥
कार्ये मानान्तरापूर्वे समस्तं वैदिकं वचः ।
प्रमाणमिति हि प्राज्ञाः मन्यन्ते मान्यबुद्धयः ॥
पदानां तत्परत्वेन व्युत्पत्तेरवधारणात् ।
न खल्वन्यपरे शब्दे व्युत्पत्तेरस्ति सम्भवः ॥

तथा हि वृद्धयोर्व्यवहरतोरेकतरवृद्धप्रयुक्तशब्द-
श्रवणसमनन्तरजनितान्यतरवृद्धसमवेतचेष्टां दृष्ट्वा
अन्यथाऽनुपपत्त्युन्नीयमाना
शब्दशक्तिस्तदुपपादककार्यपर्यवसायिन्येवावसीयते, प्रतीता हि
स्वकार्यसन्ताने कार्यसंविदेव तत्तद्विशिष्टचेष्टाहेतुतया
तदयमिहापि तादृशीं प्रवृत्तिं पश्यन्नेवमाकलयति ।
नूनमितस्सकाशादस्य कार्यसंविदाविरासीत् यदयमेतदनन्तरं
प्रवर्तत इति, एवं च
समस्तव्यवहारानुगतप्रवृत्तिनिमित्तकार्यप्रतिपादनपरतया
व्युत्पन्ने शब्दे यत्पदावापोद्धारानुयायिनोयेऽर्थभागास्ते
प्रथमावगतप्रधानभूतकार्यानुगुणतया तैस्तैरभिधीयन्ते
इत्यध्यवस्यति, तत्र च लिङादयोऽव्यभिचरितकार्यसंविदः
कार्यशरीरमेव साक्षात्समर्पयन्ति तिङादयस्तु
तदपेक्षिताधिकाराद्यनुबन्धप्रतिपादनमुखेन
तत्समन्वयमनुभवन्तीति ।
न च पुत्रजननादिस्वरूपावेदनपर्यवसायिनः
पदनिचयस्याविरलपुलकोदयवदनविकासादिभिरभिमतसुतजन्मादि-
प्रतिपादनशक्तिनिश्चयः
अजातातिवृत्तप्रत्त्युत्पन्नविविधहर्षहेतूपनीपातेयममुयेति
निर्धृत्त्य प्रतिपत्तुमशक्यत्वात् ।
एतेन व्युत्पन्नेतरपदसमभिव्याहृतवर्तमाननिर्देशेऽपि
कार्यैदम्पर्यविरहितपदशक्तिनिश्चयप्रतिविधिरनुसंधातव्य ।

पदान्तराणि यादृङ्क्षि व्युत्पद्यन्ते च तादृशम् ।
इदञ्च पदमित्येव तत्र व्युत्पद्यते नरः ॥
तानि कार्यान्वितस्वार्थबोधकानीति साधितम् ।
अथ तद्बुद्धिहेतुत्वात् प्रामाण्यं भूतगोचरम् ॥
इष्यते तदनेकान्तं पदेष्विति न शोभते ।
अथ तत्परता हेतुस्ततश्च स्यादसिद्धता ॥
न ह्यकार्यरूपे वस्तुनि क्वचिदपि शाब्दी बुद्धिः प्रर्यवस्यति ।

याः पुनर्लौकिकशब्दश्रवणसमनन्तरभाविन्योऽन्वयाव-
गतयस्ता आनुमानिक्योऽभिहिताः न शाब्द्य इत्युपपद्यत एव
तासामतत्पर्यवसानम् ।

यदि तत्परताग्राहः शब्दानां नैव विद्यते ।
अग्निहोत्रञ्जुहोतीति विधिः कस्मादुपेयते ॥
अथ तत्र प्रमाणत्वे संवृत्तेऽपि च तावता ।
पुरुषार्थत्वलाभाय विधिरभ्युपगम्यते ॥
तदसन्न प्रमाणानां प्रयोजनवशानुगा ।
प्रवृत्तिः किन्तु तन्मूलः प्रयोजनपरिग्रहः ॥

न खलु कनकमभिलषतः शिलावलोकनमनभिमतमिति
कनकावलोकनताऽश्रयितुमुचिता ।

तात्पर्यमेव शब्दानां यावत्कार्ये न कल्पितम् ।
न तावद्वर्तमानादि निर्देशे विधिकल्पनम् ॥

एवञ्चोपनिषदामपि
तत्रतत्राम्नायमानज्ञानोपासनादिविधिशेषतयाऽर्थो
व्याकरणीयः, तदयमर्थः सर्वज्ञामानन्दमात्मानं
जानीयात् इति ।
न च तावता स्वरूपमपि सिध्यतीत्यध्यवसेयम् असत्येव रूपे
तादृशि तथा विधानोपपत्तेः । यथैतदपितर्येव पितरञ्जानीयादिति
तथा चानुद्गीथ ओङ्कार उद्गीथविधानमिति ।
यानि पुनरात्मसत्यत्वनित्यत्ववादीनि वाक्यानि
तान्यविशेषितकालकर्मविधानाक्षिप्यमाणामुष्मिकफलभोगो-
चितचेतनकर्तृप्रतिपादनपराणि अतो न किञ्चिदपि वचो भूतेऽर्थे
प्रमाणम् ।
अतः (अत एवार्थवादानाममीति पा. ।) सर्वार्थवादानामपि
परिनिष्ठितरुद्ररोदनादिप्रतिपादनपरतावारणोपपादनेन
विदूरतरवर्तिविधिपदान्वयस्तावकतयाऽपि प्रदर्शितः
तस्मादपर्यालोचितपूर्वापरपदतात्पर्याणामापातायात-
श्रद्धाविरचितविग्रहोऽयमुद्ग्राहितः पुरुष इत्यलमतिविस्तरेण ।
सिद्धमिदं न श्रुतितोऽप्यभिमतपुरुषातिशयः सिध्यतीति ।
अपि च भवतु भूतमपि वस्तु शास्त्रस्य विषयः, अथ च
कथमिव चोदनाजनितधियमवधीर्य धर्माधर्मौ विजानाति
कश्चिदित्यभ्युपेयते सर्वज्ञता हि प्रसिद्धैरेव प्रमाणैः
यथायथमर्थानवगच्छतोऽपि संगच्छते, न हि तदस्ति वचनं
यदस्य प्रसिद्धबुद्ध्युत्पादनहेतुहानमुखेन सार्वज्ञ्यं
ज्ञापयति ।
यद्यपि किञ्चिदभविष्यत् तथाऽपि
परस्परान्वयाऽनुचितपदार्थतयाऽर्थवादतयैव समर्थनीयं
प्रमाणान्तरावगतयोग्यतादिपुरस्सरी पदेभ्यो
वाक्यार्थबुद्धिरुपजायमाना
प्रथमतरनिपतितापेक्षितप्रमाणान्तरविरोधे कथमिव
जनिमनुभवतीति सम्भावयामः ।

प्रत्यक्षादिप्रतिक्षिप्तगोचरं वचनं यदि ।
अपि को नु तादात्म्यं विहन्त्यादित्ययूपयोः ॥
अपि चास्ति नरः कश्चित् तादृशातिशयाश्रयः ।
सिषाधयिषितग्रन्थप्रामाण्यस्य किमागतम् ॥

ननु च तादृशपुरुषेण विरचितमिदमिति
पञ्चरात्रगोत्रानुसारिणः स्मरन्ति । पाशुपता वा किन्न स्मरन्ति,
तेऽपि स्वदर्शनादर्शकमखिलजगदध्यक्षमाचक्षते
तथाऽन्येऽपि ।
न च सर्वेऽमी सर्वज्ञा विरुद्धार्थोपदेशानुपपत्तेः ।
य एव च वादिनामेकस्य वादिनः सर्वज्ञसिद्धौ हेतुर्भवति स
सर्वेषां साधारणः तदिह बहुषु
परस्परविरुद्धमर्थमहमहमिकयोपदिशत्सु कतमं
सर्वज्ञमध्यवसामः ।

यथाऽह ।

सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु ।
तुल्यहेतुषु सर्वेषु को नामैकोनिरूप्यताम् ॥

इति, ।

स्वतन्त्राधिगमाधीनं सर्वज्ञपरिकल्पनम् ।
परस्परप्रतीघातात्सर्वाप्रामाण्यमावहेत् ॥
ननु, श्रुतिस्मृतिप्रसिद्धेन वासुदेवेन भाषितम् ।
कथं तन्त्रान्तरैरेतत् तुल्यकक्ष्यां निवेक्ष्यते ॥
तथा हि पौरुषे सूक्ते श्रूयते तस्य वैभवम् ।
पद्भ्यां भूमिर्दिशश्श्रोत्रादित्यादीदन्तथा परम् ॥
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति, ।
तथा स ब्रह्मा स शिव इति, तद्विष्णोः परमम्पदम् ।
न तस्य कश्चित् पतिरस्ति लोके
न चेशिता तस्य च नैव लिङ्गम् ।
इतीरयन्ति श्रुतयोऽस्य भूतिं
जगज्जनिस्थेमपिधाचिन्हाम् ॥

विष्णोस्सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसावित्याह स्म पराशरः ॥
इत्थं तमेव सर्वेशं मनुरप्याह तद्यथा ।
नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् । इति,
इत्थं नानाश्रुतिमुनिवचस्सन्ततस्तूयमान-
ज्ञानैश्वर्यः परमपुरुषः पञ्चरात्रं व्यधत्त ।
तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रैः समानं
पातृत्वेन प्रसजति तदा सोमपस्ते सुरापैः ॥
नैतज्ज्यायः किमङ्ग श्रुतिषु भगवतो न प्रसिद्धा विशुद्ध-
ज्ञानैश्वर्यादिधर्मास्त्रिपुरविजयिनस्तेन यत्किञ्चिदेतत् ।
यद्वा देवस्स एव त्रिभुवनभवनत्राणविध्वंसहेतुः ।
वेदान्तैकप्रमाणः कथयति स कथं वेदगोष्ठीबहिःष्ठम् ॥

तथा हि भगवतः पशुपतेरपि
सार्वज्ञ्यसर्वैश्वर्यावेदिकाः श्रुतयो बहुलमुपलभ्यन्ते
यस्सर्वज्ञस्स सर्ववित् । तमीश्वराणां परमं महेश्वरम्
इत्याद्याः ।

सर्वज्ञेश्वरशब्दौ च नर्ते देवात्पिनाकिनः ।
उत्पत्तिशक्त्या वर्तेते सत्यप्यन्यत्र तद्वति ॥
किञ्च सर्वज्ञशब्देन सर्वज्ञे प्रतिपादिते ।
पौनरुक्त्यं प्रसज्येत सर्वविद्ग्रहणस्य वः ॥
अतः सर्वज्ञशब्दोऽयं महादेवैकगोचरः ।
तथा च स्कन्दलिङ्गादिपुराणानि पिनाकिनः ॥
उपक्षीणानि सार्वज्ञ्यसर्वैश्वर्योपपादने ।
ततश्च तत्प्रणीतत्वात् प्रामाण्यमनया दिशा ॥
प्राप्तं पाशुपतं तन्त्रं तत्रान्योन्यविरोधतः ।
सर्वतन्त्रप्रमाणत्वविपर्यासः प्रसज्यते ॥

अपि च भवतु भगवान् वासुदेव एवौपनिषदः पुरुषः, अथ च
स कथमिव श्रुतिपरिपन्थितन्त्रमेतत्प्रणयेतेत्युत्प्रेक्ष्येत य एवमाह
श्रुतिस्मृती ममैवाज्ञे इति ततश्च ।

वासुदेवाभिधानेन केनचिद् विप्रलिप्सुना ।
प्रणीतं प्रस्तुतं तन्त्रमिति निश्चिनुमो वयम् ॥

अस्तु वा समस्तजगदध्यक्षो वासुदेव एवास्य तन्त्रस्य प्रणेता
तथाऽपि ।

मायामोहनविग्रहेण हरिणा देवद्रुहां संहतिम् ।
हन्तुं मोहयताऽहितान्यभिहितान्याहुर्हि तच्छद्मना ॥
एवं किन्नु नयन्नयन्निजमहामायागुहागव्हरम् ।
व्याजहे? किमिदं न वेति विशये जाते कथं निर्णयः ॥
प्रत्त्युत भ्रमयन्नेव व्याजहारेति गम्यते ।
वैदिकैरगृहीतत्त्वात् तथाऽर्हतमतः यथा ॥

वैदिकापरिग्रहश्च प्रागेव प्रपञ्चित इति, तस्मान्न
स्वतन्त्रानुभवमूलतया प्रमाणम् ।

नापि मन्वादिस्मरणवदित्यनुपपन्नं पञ्चरात्रस्मरणम् ।

यदि मन्वादिवद्देवः शुश्रूषापरितोषितात् ।
आचार्याल्लब्धवेदार्थस्तन्त्रमेतदचीक्लपत् ॥
स्वातन्त्र्यकल्पनाऽमुष्य व्यर्था मिथ्या तथा सति ।
अनधीतोऽपि वेदोऽस्य प्रतिभातीत्यलौकिकम् ॥
अत्र वार्त्तिककारेण ये दोषास्समुदीरिताः ।
ते च सर्वेऽनुसंधेयाः पुरुषातिशयादयः ॥

किञ्च ।

शैवं पाशुपतञ्चैव बौद्धमप्यार्हतं तथा ।
कापालं पञ्चरात्रञ्चेत्त्येवं पाषण्डता स्मृतेः ॥
वैदिकं तान्त्रिकं चेति विभागकरणादपि ।
गम्यते पञ्चरात्रस्य वेदबाह्यत्वनिश्चयः ॥
शैवं पाशुपतं सौम्यं लागुडञ्च चतुर्विधम् ।
तन्त्रभेदः समुद्दिष्टः सङ्करं न समाचरेत् ॥ इति , ।

तथा ।

भाक्तं भागवतञ्चैव सात्वतं च त्रिधा मतम् ।
इत्येवं तन्त्रभेदोक्तिः पञ्चरात्रेऽपि दृश्यते ॥

किञ्च ।

श्रुतिस्मृतिप्रतिक्षिप्तजीवजन्मादिगोचरम् ।
न्यायहीनं वचस्तथ्यमिति हास्यमिदम्महत् ॥
तथा च श्रुतिः अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा
मात्रासंसर्गस्तस्य भवति इति तथा जीवापेतं वाब किलेदम्म्रियते
न जीवो म्रियते इति ।
स्यादेतत् उच्छेदाभावमात्रप्रतिपादकमेतद्वचनं न
जन्माभावमवगमयतीति ।

न, अनुच्छेदाभिधानेन जन्माभावोऽवसीयते ।
न ह्यस्ति संभवो भावो जातो नैव क्षरेदिति ॥

ननु च, सदेव सौम्येदमिति सदेकत्वावधारणात् ।
प्राक्सृष्टिकालाज्जीवानामभावोऽध्यवसीयते ।

यदि जीवाः पृथग्भूताः प्राक् सृष्टेः स्युः परात्मवत् ।
कथमेतत्सदेवेति तदेकत्वावधारणम् ।
अत्रोच्यते सदेवे?ति यदेकत्वावधारणम् ।
तत्सिसृक्षितवाय्वम्बुवियत्प्रभृतिगोचरम् ॥
पर्युदासिष्यताऽनेन वचसा चेतनो यदि ।
गगनादेरिवास्यापि जननं निरदेक्ष्यत ॥
न च निर्दिश्यते तेन न जीवो जनिमृच्छति ।
तत्तेजोऽसृजतेत्त्यादौ जीवसर्गो हि नः श्रुतः ॥

ननु च यतो वा इमानि भूतानि इत्यत्र जीवानामेव
जननजीवनप्रायणाभिसंवेशनानि प्रतीयन्ते ।

तथा हि भूतशब्दोऽयं जीवानामभिधायकः ।
भ्रामयन् सर्वभूतानीत्येवमादिषु दर्शनात् ॥
जीवन्तीति हि शब्दोऽयं जीवेष्वेवावकल्पते ।
तेन जायन्त इत्येतज् ज्ञायते जीवगोचरम् ॥

तदिदमनुपपन्नं भूतशब्दो विहायः-
पवनहुतभुगम्भोमेदिनीषु प्रसिद्धः ।
पदमिदमितरस्मिंल्लक्षणावृत्ति तेषां
बहुविधपरिणामो गीयते जीवनञ्च ॥
प्रथममधिगता ये खादयो भूतशब्दा-
त्तदनुगुणतयाऽर्थं वक्ति जीवन्ति शब्दः ।
यदि च भवति जीवे भूतशब्दस्तदानी-
मपि वदति तदीयञ्जन्म देहानुबन्धि ॥
अतो जीवपरत्त्वेऽपि भूतशब्दस्य युज्यते ।
जायन्त इति शब्दोऽयं गौर्ज्जातो गच्छतीति वत् ॥
तथाजोह्येक इत्त्याद्याः श्रुतयोऽन्याश्च सन्ति नः ।
जीवानुत्पत्तिवादिन्यस्तथा भगवतोवचः ॥

प्रकृतिं पुरुषञ्चैव विद्ध्यनादी उभावपि । अजो
नित्त्यश्शाश्वतोऽयं पुराणः । न जायते म्रियते वा कदाचित् । इत्यादि ।

न्यायश्च ।

विवादाध्यासितो जीवो न जातु जनिमृच्छति ।
द्रव्यत्वे सत्त्यमूर्तत्वाच्चिद्रूपत्वात्परात्मवत् ॥
पश्यन्तः पौरुषेयत्वे दूषणान्युक्तया दिशा ।
अनन्यगतयः केचित् तन्त्रं नित्यमतिष्ठिपन् ॥
तदेतत् स्वहृदयनिहितविशदतरकर्त्रस्मरणप्रतिहतमभिधीयत
इत्युपेक्षणीयम् ।

किञ्च ।

इत्थं पाशुपतादीनां न्यायः किं दण्डवारितः ।
तथाऽस्त्विति यदि ब्रूयाद् व्याघातस्स्यात् परस्परम् ॥
सर्वलोकप्रसिद्धा च वासुदेवप्रणीतता ।
न हातुं शक्यते यद्वद्वेदस्यापौरुषेयता ॥

अथो कश्चिद् ब्रूयादनुदयविपर्यासविशयैस्त्रिरूपे प्रामाण्ये
कतरदिह जोघुष्यत इति । स वक्तव्यः किन्नु त्वदभिलषितं लागुडमते
तदेवेति ज्ञात्वा नियमितमदश्शाम्यतु भवान् ।
तदेवमुदीरितन्यायश्रुतिस्मृतीतिहासपुराणन्यायविरुद्धाभि-
धानेन, समस्तशिष्टजनपरिग्रहविरहेण च,
स्वर्गापवर्गावसानोपदेशव्याजेन केनापि जगद्वञ्चयितुं
विरचितानि पञ्चरात्रतन्त्राणीति मन्यामहे ।

ईदृशापस्मृतिविषयमेव तद्वचः ।

या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥

इति ।

ईदृशदुर्मार्गानुगामिन एव तेऽपि एषां वाङ्मात्रेणापि
अर्चनं निषिध्यते, उक्तञ्च ।

एत एव च ते येषां वाङ्मात्रेणापि नार्चनम् ।
पाषण्डिनो विकर्मस्थान वैडालव्रतिकांञ्छठान् ॥
हैतुकान् बकवृत्तिंश्च वाङ्मात्रेणापि नार्चयेत् ।

इति ।

इत्युपन्यस्तया नीत्या पञ्चरात्रमशेषतः ।
अप्रमाणमिति प्राप्तमेवं प्रप्तेऽभिधीयते ॥
विवादाध्यासितं तन्त्रं प्रमाणमिति गृह्यताम् ।
निर्दोषज्ञानजन्मत्वाज् ज्योतिष्टोमादिवाक्यवत् ॥
न तावदनुमानेऽस्मिन् न्यायशास्त्रपरीक्षिताः ।
दोषा मृगयितुं शक्यास्तत्र पक्षः परीक्ष्यताम् ॥
पक्षो नाम प्रतिज्ञाऽर्थः स च सिद्धेन केनचित् ।
स्वयं सिद्धो विशिष्टस्सन् यः साधयितुमीप्सितः ॥

तत्र न तावदप्रसिद्धविशेषणः पक्षः, प्रामाण्यनाम्नः
पदार्थस्य उभयवादिसिद्धत्वात् प्रत्यक्षादौ,
नाप्यप्रसिद्धविशेष्यः पञ्चरात्रशास्त्रस्य सर्वलोकप्रसिद्धत्वात्,
नापि सिद्धसाधनः, प्रस्तुतशास्त्रप्रामण्यस्य
प्रतिवादिनोऽसिद्धत्वात्, न च प्रत्यक्षविरुद्धः
अप्रामाण्यस्यातीन्द्रियत्वात्, नाप्यनुमानविरुद्धः, अनुपलम्भनात्

ननूपलभ्यत एवानुमानम् – पञ्चरात्रशास्त्रमप्रमाणम्
वेदबाह्यत्वात् बौद्धागमवत् ।

अत्र ब्रूमः कतरदिहाप्रामाण्यं सिषाधयिषितं यदि
ज्ञानानुत्पत्तिलक्षणं ततः प्रत्यक्षविरोधः, प्रत्यक्षं हि
विदितपदतदर्थसङ्गतेः श्रोतुः
पञ्चरात्रशास्त्रवाक्यश्रवणसमनन्तरमुपजायमानं
तदर्थविषयं ज्ञानम् ।
नापि संशयलक्षणं तत एव विरोधात् न खलु पद्ममध्ये
चतुर्बाहुं पूजयेत्पुरुषोत्तमम् इतीदं वचनं पूजयेन्न वेति
संशयितं प्रत्ययमुत्पादयति, नापि विपर्यपलक्षणं
योग्यानुपलम्भाभावात्, अनागतविपर्ययोत्प्रेक्षायाः
प्रत्यक्षविरोधात् अशेषव्यवहारोच्छेदहेतुत्वाच्च, प्रपञ्चयिष्यते
चैतदुपरिष्टात् ।
आगमविरुद्धञ्च ।

पञ्चरात्रागमे स्वार्थस्तथैवेत्यवबोधनात् ।
अथ तस्याप्रमाणत्वे तद्विरोधो न दूषणम् ॥

हन्त एवं सति तदप्रामाण्येऽनुमानप्रामाण्यम्
अनुमानप्रामाण्ये तदप्रामण्यमित्यन्योन्याश्रयणम् ।
अपि च किमिदं वेदबाह्यत्वं यदि वेदान्यत्वं ततः
प्रत्यक्षादिभिरनैकान्तः । अथ शब्दत्वे सतीति हेतुर्विशेष्यते ततो
निग्रहस्थानं, यथाऽहुः निर्विशेषहेतुप्रयोगे
पुनर्विशेषणोपादानं निग्रहः, इति, अनैकान्तिकश्च मन्वादिवाक्यै

अथैतद्दोषहानाय वेदबाह्यत्वशब्दतः ।
आवेदमूलतां मन्द मन्यसे किन्नु तार्किक ? ॥

तेनायमर्थः शब्दत्वे सत्यवेदमूलत्वादिति, ततो वेदैरनैकान्त्यम्,
अथवा अवेदत्वे सति शब्दत्वे सति अवेदमूलत्वादिति हेतुः, तथापि ।

सन्ति नद्यास्तटे वृक्षा इत्याद्याप्तोपदेशनैः ।
अवेदमूलैर्दुर्वारमनैकान्त्यं प्रसज्यते ॥

अथ अवेदत्वे सति शब्दत्वे सति कार्यविषयत्वे सति अवेदमूलत्वं
हेतुः, अत्रापि अजीर्णे मन्दमश्नीयादित्यादौ व्यभिचारिता ।
अथोक्तविशेषणविशिष्टत्वे धर्माधर्मविषयत्वेऽपि
सत्त्यवेदमूलत्वादिति हेतुः, ततो भागासिद्धो हेतुः, न हि
पञ्चरात्रशास्त्रं कृत्स्नं धर्माधर्मविषयम् ।
ब्रह्मविषयाणामेव वचसां बाहुल्यात् ।
अथ प्रमाणान्तरायोग्यार्थत्वे सतीति विशेषः तत्रापि
सैवासिद्धिः, भगवत्प्रत्यक्षस्य
धर्माधर्मादिसमस्तवस्तुगोचरस्य श्रुतिशतप्रसिद्धत्वात्
तच्चैतदनन्तरमेव वक्ष्यामः,
तदलमनेनाशिक्षिताक्षपादमतानामप्रतिष्ठितप्रतिभाविजृम्भिते
न ।
संभाव्यमानान्यप्यनुमानान्तराणि परस्तादुपन्यस्य
निरस्यन्ते अतो नानुमानविरुद्धः पक्षः ।
नाप्यागमविरुद्धः
पञ्चरात्रशास्त्रप्रामाण्यप्रतिपादकस्य इदम्महोपनिषदम्
इत्याद्यागमशतस्य प्रदर्शयिष्यमाणत्वात् ।
स्ववचन – स्वाभ्युपगम –
सर्वलोकप्रसिद्धिविरोधाश्शब्दविरोधप्रकारास्त्वनाशङ्कनीया
एव, तथा हि न तावत् स्ववचनविरोधः, स हि त्रेधा उक्तिमात्रविरोधः,
धर्मोक्तिविरोधः, धर्म्युक्तिविरोधश्चेति, तत्र न
तावदुक्तिमात्रविरुद्धोऽयं पक्षः, न हि पञ्चरात्रशास्त्रं
प्रमाणमिति प्रतिज्ञावचनं स्वार्थं व्याहन्ति यथा
यावज्जीवमहं मौनी इति, नापि धर्मोक्तिविरोधः, न हि प्रामाण्यं
पञ्चरात्रोद्देशेन विधीयमानं पक्षं प्रतिक्षिपति
सर्ववाक्यानामिव मिथ्यात्ववचनम्, नापि धर्म्युक्तिविरोधः,
सत्यपि धर्मिणि धर्मान्वयस्याऽविरुद्धत्वात्, न हि जननीत्वमिव
वन्ध्यात्वेन पञ्चरात्रशास्त्रत्वं प्रामाण्येन विरुद्धम्, (प्. ३२)
न हि विवादाध्यासितस्य प्रामाण्यप्रतिज्ञाने तत्र
श्रुत्युक्तधर्मिविशेषविरोधः ।
विहितर्हिसानामिवाधर्मत्वप्रतिज्ञाने
विवादाध्यासस्योपलक्षत्वात्, अतो वा नागमविरोधः, तदेवं
प्रतिपन्नः पक्षः ।
नापि हेतोरनैकान्तिकत्वादयो दोषाः । तथा हि न
तावदनैकान्तिकः, स हि द्वेधा साधारणासाधारणभेदात् यथा
पृथिवी नित्यत्वसाधने प्रमेयत्वं साधारणः,
असाधारणस्यतत्रैव गन्धवत्त्वं, तत्र न
तावन्निर्दोषज्ञानकारणत्वं प्रमाणाप्रमाणसाधारणं
येन साधारणानैकान्तिकं स्यात्, न हि
निर्द्दोषज्ञानकारणत्वमप्रमाणभूतविप्रलम्भकवचनादिषु
विपक्षेषु दृष्टचरम् ।
नाप्यसाधारणः ज्योतिष्टोमादिवाक्यदृष्टान्ताभिधानेनैव
सपक्षान्वयस्य प्रदर्शित् ।
नापि विरुद्धः, विपरीतव्याप्त्यभावात्, न हि
निर्द्दोषज्ञानकारणत्वमप्रामाण्येन व्याप्तम् ।
न च कालात्ययापदिष्टः प्रत्यक्षविरोधाभावात्
आगमानुगुण्याच्च ।
न चासिद्धत्वम्, असिद्धिर्हि आश्रयतः स्वरूपतो वा
तावदाश्रयासिद्धिः, पञ्चरात्रशास्त्रस्याश्रयत्वात्, नापि
स्वरूपासिद्धः, सोऽपि त्रेधा अज्ञान – सन्देह – विपर्ययभेदात्, न
तावदज्ञानासिद्धिः, तत्प्रतिपादकशब्दोच्चारणात्, नापि
संदिग्धासिद्धः, निर्दोषत्वस्य वादिनः स्वयं सिद्धत्वात्,
प्रतिवादिनोऽपि दोषानुपलम्भादेवानायाससिद्धत्वात्,
विपर्ययासिद्धिस्तु दूरोत्सारितैव ।
ननु कथं पौरुषेयत्वसामान्यादापतन्ती दोषसंभावना
अपनीयते पञ्चरात्रमन्त्राणां कथं
वाक्यत्वसामान्यादापतन्ती वेदेषु सा वार्यते, अपौरुषेयत्वादिति
चेत्तादिहापि सर्वज्ञावाप्तकामपरमपुरुषप्रणीततयेत्यवगम्य
शाम्यतु भवान् ।

एतदुक्तं भवति ।

नैव शब्दे स्वतो दोषाः प्रामाण्यपरिपन्थिनः ।
सन्ति किन्तु स्वतस्तस्य प्रमाणत्वमिति स्थितिः ॥
वक्तुराशयदोषेण केषुचित्तदपोद्यते ।
अङ्गुल्यग्रेऽस्ति मातङ्गयूथमित्येवमादिषु ॥
प्रस्तुतग्रन्थसंदर्भे वक्तुराशयगामिनीम् ।
दोषशङ्कां त्रयीमूर्द्धध्वनिरेवापमार्ष्टि नः ॥
वदन्ति खलु वेदान्ताः सर्वज्ञं जगतः पतिम् ।
महाकारुणिकं तस्मिन् विप्रलम्भादयः कथम् ॥

ननु च ।

सिद्धे वस्तुनि शब्दानां प्रामाण्यं नेत्यवादिषम् ।
तत्परेषु प्रयोगेषु व्युत्पत्त्यग्रहणादिति ॥
तदसत्सिद्धमप्यर्थमाचक्षाणाः प्रयोगतः ।
लौकिकाः प्रतिपद्यन्तेः शक्तिं कार्यपरादिव ॥

तद्यथा पुत्रस्ते जात इति
वचनश्रवणानन्तरजनितविशिष्टवदनविकासावसानसमनन्तरं
हृष्टोऽयमिति प्रतिपद्य हर्षोऽयं प्रियार्थावगमनिबन्धन इति
स्वात्मन्याकलयन् मध्यमवृद्धस्यापि तन्निबन्धनमेव
हर्षमनुमिमानस्तद्भावभावितया शब्दस्यैव
प्रियार्थाऽवबोधकतामव्यवस्यति ।
तत्राप्यतीतानागतादिभेदभिन्नेषु
हर्षहेतुषूपप्लवमानेषु कस्य वक्ताऽयमिति विचिकित्सोदये सति ।

तदनन्तरसंजातजातकर्मावबोधतः ।
तद्धेतुभूतः कोऽपीति निश्चिन्वन्नात्मनः पुरा ॥
कर्तव्यं जातकर्मेति प्रतीतेः किन्नु कारणम् ।
प्रतीतं प्रियमित्येवं विमृशन्नवगच्छति ॥
पुत्रजन्मैव निवान्यदिति व्युत्पित्सुरर्भकः ।

तत्र च ।

आवापोद्धारभेदेन पदानां शक्तिनिश्चयः ।
उपपद्यत इत्येवं सिद्धासिद्धार्थवाचिता ॥

ननु न तद्भावभावितामात्रेण कार्यकारणभावः, अति प्रसङ्गात्

न च जातकर्मकर्तव्यताऽवगतिर्नियमेन
प्रियार्थावगमपुरस्सरी, दृश्यते हि
कुटुम्बभरणायासविदूयमानमनसोऽप्रीतिपूर्विकापि
तत्कर्तव्यतावगतिः, कार्यावगतिः किं शब्दकारणिका दृष्टा येन
गामानयेत्यादौ गवानयनादिकर्तव्यतावगतिः
शब्दकारणिकाऽभ्युपेयते ।
अथ आकस्मिकत्वानुपपत्तेः सन्निहितशब्द एव तदवगमहेतुरिति
चेत् समानोऽयं विधिरितरत्रापि ।

यापि प्रवृत्तिहेत्वर्थप्रतिपादकता क्वचित् ।
लिङादिप्रत्ययावापहैतुकी साऽवसीयते ॥
यश्च कार्यपरतामेवाखिलपदानामातिष्ठते,
तेनाप्यावापोद्धारविनिर्द्धारितासंसृष्टशरीराणामेव
गवाश्वादीनां तत्पदार्थता समर्थनीया, समर्थ्यमानापि
कार्यान्वयिन्येव समर्थ्यत इति चेत् अलं व्यसनेन
अन्यान्विताभिधानेनापि व्यवहारोपपत्तेः ।

अवश्याश्रयणीयेयमन्वितार्थाभिधायिता ।
कार्यान्विताभिधायित्वमन्यथा दुर्वचं यतः ॥

अव्याप्तञ्चैतत् कार्यान्वितमेव सर्वत्र पदाभिधेयमिति
लिङादिषु व्यभिचारात्, लिङादयो हि
परिनिष्ठिताधिकाराद्यनुबन्धसंबन्धिनमेव स्वार्थमभिदधति

अथ तेष्वान्विताभिधानमितरत्र कार्यान्विताभिधानमिति चेत्
तदर्द्धजरतीयं, ततो वरं सर्वत्रान्विताभिधानमेवाश्रीयताम् ।

तस्मादाकाङ्क्षितासन्नयोग्यार्थान्तरसङ्गतेः ।
स्वार्थे पदानां व्युत्पत्तिरास्थेया सर्ववादिभिः ॥
यद्यपि प्रवृत्त्यनुपपत्तिसमधिगमनीयैव शब्दशक्तिस्तथाऽपि ।
तटस्थोपायतामात्रं शब्दशक्तिविनिश्चये ।
कार्यस्याश्रयितुं युक्तं प्रयोक्त्राकाशदेशवत् ॥
अनन्यलभ्यश्शब्दार्थ इति न्यायविदस्स्थिताः ।
तस्मान्नोपायभूतस्य कार्यस्यास्ति समन्वयः ॥
व्युत्पन्नव्यवहारेषु पयःप्रतरणादिवत् ।

यथैव हि ब्रह्मजातीयादिवज्रविशेषावधारणोपयोगिनोऽपि
पयःप्रतरणादेरवधृतरत्नसत्त्वस्य न
व्यवहारदशायामुपयोगः, एवं
व्युत्पत्तिग्रहणसमयसमुपयुक्तस्यापि कार्यस्य न
व्युत्पन्नदशायामुपयोगः ॥
यदि च कार्यान्वितमेवार्थं शब्दाः प्रतिपादयन्ति कथं
तेभ्यः परिनिष्ठितनदीतारफलादिसंसर्गावगमः, नायं
मुख्यो लाक्षणिक इति चेत् क्व वा शब्दानां मुख्यप्रयोगः ।
मानान्तरापूर्वे कार्य इति चेन्न तत्राव्युत्पन्नत्वेन
प्रयोगानुपपत्तेः ।

न हि मानान्तरापूर्वे व्युत्पत्तिरुपपद्यते ।
न चाव्युत्पन्नशब्देभ्यः प्रत्ययोऽतिप्रसङ्गतः ॥

योऽपि मन्यते लोके किर्याकार्ये व्युत्पन्नशब्दः
फलपदसमभिव्याहारबलप्रतिलब्धतत्साधनभावभङ्गुरयाग्
आदिधात्वर्थोत्तीर्णापूर्वकार्याभिधानशक्तिर्वेदे मोदते, लोके तु
सं (सममुग्धेनेति पा. ।)मुग्धेनापि व्यवहारोपपत्तेर्न
शब्दार्थतत्त्वावधारणमाद्रियते इति ।
तस्यापीदं मनोरथमात्रं, न हि क्रियाकार्ये
व्युत्पन्नस्थायिकार्यं प्रतिपादयति अतिप्रसङ्गात् ।
यदि वृद्धव्यवहारे
समधिगतपदसामर्थ्येऽनुरुध्यमानेऽन्वयावगतिर्नोपपद्यते,
मोपपादि न न तु तदनुपपत्त्या कॢप्तशक्तिपरित्यागेन
शब्दशक्त्यन्तरं भजते कामं लक्षणाऽश्रीयताम् ।
न हि विरुद्धार्थपदसमभिव्याहारे
पदानामभिधानमेवान्यथा नीयते,
सर्वशब्दार्थेष्वनाश्वासप्रसङ्गात् ।

किञ्च मानान्तरापूर्वकार्यबोधनशक्तता ।
न कर्मफलसम्बन्धसिद्ध्यै तावदुपेयते ॥
नैयोगिकस्स सम्बन्धो न पुनर्वैनियोगिकः ।
धात्वर्थोत्तीर्णकार्यात्मा न कर्मफलसङ्गमात् ॥
ऋते सिध्यति सबन्धस्स च तस्मादृते न हि ।

ततश्च दुरुत्तरमितरेतराश्रयणम् ।

साध्यस्वर्गविशिष्टस्य पुरुषस्य प्रवर्तकः ।
न स्यादिति तदिष्टार्थसाधनं न भवेद्विधिः ॥
भङ्गुरो न च धात्वर्थः करणत्वेन कल्पते ।
इति तद्भिन्नकार्यार्थबोधकत्वं यदुच्यते ॥
तदसन्न हि साध्येन स्वर्गेणायं विशेष्यते ।
स्वर्गं कामयमानो हि पुरुषोऽत्र नियुज्यते ॥

न हि स्वर्गोऽधिकारिविशेषणं साध्यत्वात् ।

सिद्धमेव हि सर्वस्य नियोज्यस्य विशेषणम् ।
जीवनादि तथैवेह कामनैव विशेषणम् ॥

अपि च नियोज्यविशेषणतामनुभवतः स्वर्गादेः कीदृशं
साध्यत्वम् ।

यदि साधनसंबन्धयोग्यत्वं नैव तावता ।
स्वर्गेण सिध्यता भाव्यं यावद्योगमजन्मतः ॥
सिद्धिपर्यन्तता तस्य नियोगैकप्रमाणिका ।
नियोगस्तत्प्रमाणश्चेत्त्यन्योन्याश्रयणं ध्रुवम् ॥
यदि स्वर्गस्य साध्यत्वं न नियोगस्य साध्यता ।
साध्यद्वयञ्च नैकस्मिन् वाक्ये सम्बन्धमर्हति ॥

स्वतन्त्रं हि साध्यद्वयमेकवाक्यतां निरणाद्धि
नानुगुणम्, अनुगुणञ्चैतत्साध्यद्वयं
नियोगसिद्धिनान्तरीयकत्वात् स्वर्गसिद्धेः, यदाह नियोगसिद्धौ
सर्वं तदनुगुणम् इति केन नेष्यते नियोगसिध्यर्था फलसिद्धिरिति च,
तस्मादविरोध इति चेत्तन्न ।

स्वर्गसिद्धिं विना किन्नु नियोगस्य न सिध्यति ।
नाधिकारो न विषयो न चान्यद्विध्यपेक्षितम् ॥
न हि नित्याधिकारेषु नियोगस्तामपेक्षते ।
न चान्यदिच्छतोऽन्यत्र नियुक्तिर्नोपपद्यते ॥
नियोगस्यैव माहात्म्यं नित्योष्विव नियुज्यते ।
नियोगो हि
प्रधानतयाऽधिगम्यमानस्वर्गमभिलषन्तमप्यात्मन्याकर्षति
यथा अनिच्छन्तमपि नित्ये कर्मणि निष्फले प्रवर्तयति ॥

किञ्च ।

स्वर्गं कामयमानो हि निमिषत्युन्मिषत्यपि ।
न च ते स्वर्गसिद्ध्यर्था यागः किन्नैवमिष्यते ॥
तत्साधनतया नैके गृह्यन्त इति चेन्मतम् ।
यागादयः किं तद्बुद्धिग्राह्या विधिबहिष्कृताः ॥

तत्र च ।

साध्यसाधनसंबन्धप्रतिपादनतत्पराः ।
यावन्न विधयस्तावन्नैष्फल्यं सर्वकर्मणाम् ॥

तस्माल्लिङादिभ्यः प्रथममिष्टसाधनताऽवगमः,
ततोरागतः प्रवृत्तिरित्त्येव युक्तं, तदपूर्वकार्याभिधान एव
मुख्या शक्तिः इतरत्र लाक्षणिकीत्यनुपपन्नम्, अत एव यथायथं
लौकिकशब्देभ्यस्तत्सिद्धार्थगोचरा बुद्धयो जायन्ते ।
ननु न ताः शब्दमहिमभुवः आनुमानिक्यो हि ताः, तथा हि
व्युत्पत्तिसमयसंविदितार्थप्रतिपादनसामर्थ्यान्यपि पदानि क्वचिद्
व्यभिचारदर्शनजनितसंशयप्रतिबधानि न श्रुतमात्राण्यर्थं
न्निश्चाययन्ति न चानिश्चितोऽर्थोज्ञातो भवति
अनिश्चयात्मनोज्ञानस्याभावात् ।

तत्राज्ञातेऽपि वाक्यार्थे श्रोतैवं विचिकित्सते ।
ब्रवीत्यन्योन्यसंबन्धयोग्यार्थानि पदान्ययम् ॥
न चाविज्ञातसंबन्धान् शब्दानाप्ताः प्रयुञ्जते ।
तेनेदृशान्वयज्ञानमस्यास्तीत्यवगच्छति ॥
एवमन्वयज्ञाने अनुमिते तदुपदर्शितोऽर्थो न
शब्दमाकाङ्क्षति अतो लौकिकस्य वचसो वक्त्रनुभवपरतन्त्रतया
तत्रैव पर्यवसानमिति ।
तदसत्, न हि स्वभावतोऽर्थमवगमयन् शब्दः
क्वचिद्वक्त्राशयदोषवशीकाराद्वितथ इत्यन्यत्रापि
तत्संभावनया स्वारसिकीमर्थावबोधकतामुञ्झितुमर्हति, न हि
मन्त्रप्रतिहत (अत्र मन्त्रप्रतिहतिदशायामिति युक्तः पाठोऽथवा
हतशब्दे भावे क्तप्रत्यय इत्यनुसंधेयम् ।)दशायां हुतवहो न
दहतीत्त्यन्यत्रापि तादृशदशाशङ्क्या न दहति, नापि
शुक्तिरजतधियमर्थव्यभिचारिणीमिन्द्रियं दोषवशादुपलब्धमिति
घटादिकमपि नावगमयति, अतो विदितपदपदार्थसङ्गतेः
श्रोतुस्सहसैव शब्दोऽर्थमवबोधयति मूलज्ञानं न प्रतीक्षते ।

मूलज्ञानपरिज्ञानादर्वागर्थेऽपि चोदिते ।
कथमेवमयं वेदेत्यनुमानं प्रवर्तते ॥
किमज्ञासीदयं वक्ता किञ्चिदित्यनुमित्समे ।
विशिष्टार्थान्वयज्ञानमनुमातुमथेच्छसि ॥
न तावदयमज्ञासीद् वक्ता किञ्चिदितीयता ।
व्याहारव्यवहारौ वा स्यातां वाक्यार्थगोचरौ ॥

विशिष्टार्थान्वयगोचरचेतोऽनुमानन्तु
प्रथमतरप्रवृत्ततद्विषयशेमुषीमन्तरेणानुपपन्नमिति प्रागेव
शब्दार्थोऽवगन्तव्यः, न ह्यनासादितविषयविशेषसंसर्गाः
संविदः परस्परतो व्यतिभिद्यन्ते ।
न च तथाऽनुमिताभिरर्थविशेषः सिध्यति
यादृशान्वयप्रतिपादनयोग्या पदरचना सा
तदन्वयज्ञानमापादयतीति चेत्, अवगतस्तर्हि
प्रागेवार्थानामन्वयः, न हि बुद्धावनारोपित एवान्वयः
प्रयोगं व्यवच्छिनत्ति,

तस्मादस्ति नदीतीरे फलमित्येवमादिषु ।
या सिद्धविषया बुद्धि सा शाब्दी नानुमानिकी ॥
ततश्च अपूर्वकार्यगोचर एव शब्दः प्रमाणमिति ।
स्वसिन्धान्तचिराभ्यासव्या (व्यामुग्धाबलबुद्धिभिरिति पाठस्तु न
युक्त इति मन्यामहे ।) मुग्धबलबिद्धिभिः ॥
उक्तमुक्तेन मार्गेण युक्ताऽन्यत्रापि शक्तता ॥

ततश्च यान्येतानि विलक्षणपुरुषप्रतिपादकानि
वेदान्तवचांसि स एष सर्वाध्पतिः सर्वस्येशानः सर्वमिदं
प्रशास्ति तस्याध्यक्षमिदं सर्वम् इत्यादीनि तान्यपि तत्र प्रमाणं
तद्विषयासंदिग्धाविपर्ययज्ञानहेतुत्वात् ।

न च परिनिष्ठितवस्तुनि साधकबाधकयोरन्यतरोपनिपात-
संभावनाभावितानुवादविपर्ययपर्यालोचनया
तद्गोचरवचसां प्रामाण्यप्रच्युतिः, कार्यगोचराणामपि
तत्प्रसङ्गात्, कार्यमपि मानान्तरवेद्यमेव समिदाहरणादि, तच्च
मानान्तरेणापि वेद्यमोदनपाकवदित्यभ्युपगमात् ।
अथ
विलक्षणाग्निहोत्रादिविषयकार्यस्यासंभावितमानान्तरतया
तत्प्रतिपादयद्वचः प्रमाणं, हन्त तर्हि
निरतिशयावबोधैश्वर्यमहानन्दसंदोहवपुषि भगवति न
मानान्तरसंबन्धगन्ध इति सर्वं समानमन्यत्राभिनिवेशात् ।

….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.