भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
चतुर्थोऽध्याय:
तृतीयेऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षो: सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्य:, ज्ञानयोगाधिकारिणोऽप्यकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति सहेतुकमुक्तम् शिष्टतया व्यपदेश्यस्य तु विशेषत: कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम् अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदा:, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच्च भगवदवतारयाथात्म्यमुच्यते ।
श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरीक्षवाकवेऽब्रवीत् ॥ १ ॥
एवं परम्पराप्राप्तमिमं राजर्षयोऽविदु: ।
स कालेनेह महता योगो नष्ट: परन्तप ॥ २ ॥
स एवायं मया तेऽद्य योग: प्रोक्त: पुरातन: ।
भक्तोऽस्ति मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥
योऽयं तवोदितो योग: स केवलं युद्धप्रोत्साहनायेदानीमुदित इति न मन्तव्यम् । मन्वन्तरादावेव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगमहमेव विवस्वते प्रोक्तवान्, विवस्वांश्च मनवे, मनुरिक्ष्वकवे । इत्येवं संप्रदायपरम्परया प्राप्तमिमं योगं पूर्वे राजर्षयोऽविदु: । स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्याद्विनष्टप्रायोऽभूत् । स एवायमस्खलित-स्वरूप: पुरातनो योग: सख्येनातिमात्रभक्त्या च मामेव प्रपन्नाय ते मया प्रोक्त: सपरिकरस्सविस्तरं उक्त इत्यर्थ: । मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितमुत्तमं रहस्यं ज्ञानम्॥१-२-३॥
अस्मिन् प्रसङ्गे भगवदवतारयाथात्म्यं यथावज्ज्ञातुमर्जुन उवाच –
अर्जुन उवाच
अवरं भवतो जन्म परं जन्म विवस्वत: ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
कालसङ्ख्यया अवरमस्मज्जन्मसमकालं हि भवतो जन्म । विवस्वतश्च जन्म कालसङ्ख्यया परम् अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातम् । त्वमेवादौ प्रोक्तवानिति कथमेतदसंभावनीयं यथार्थं जानीयाम् ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश्च युज्यत इति नात्र कश्चिद्विरोध: । न चासौ वक्तारमेनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे (भ.गी.१०.१२,१३) इति । युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश्चासकृच्छ्रुतम्, कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्यय:। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् (भा.स.३८.२६) इत्येवमादिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतमिदं कृत्स्नं जगदित्यर्थ: ॥ अत्रोच्यते जानात्येवायं भगवन्तं वसुदेवसूनं पार्थ: । जानतोऽप्यजानत इव पृच्छतोऽयमाशय: निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेव-मनुष्यादिसजातीयं जन्म किमिन्द्रजालादिवन्मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्मप्रकार:? किमात्मकोऽयं देह:? कश्च जन्महेतु:? कदा च जन्म? किमर्थं च जन्मेति । परिहारप्रकारेण प्रश्नार्थो विज्ञायते ॥ ४ ॥
श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥
अनेन जन्मनस्सत्यत्वमुक्तम्, बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टान्ततयोपादानाच्च ॥ ५ ॥
अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह –
अजोऽपि सनव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ ६ ॥
अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारमजहदेव स्वां प्रकृतिमधिष्ठाय आत्ममायया संभवामि । प्रकृति: स्वभाव: स्वमेव स्वभावमधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्यर्थ: । स्वस्वरूपं हि, आदित्यवर्णं तमस: परस्तात् (पु), क्षयन्तमस्य रजस: पराके (सा.उ.१७.२.४.२), य एषोऽन्तरादित्ये हिरण्यमय: पुरुष: (छा.उ.१.६.६), तस्मिन्नयं पुरुषो मनोमय: अमृतो हिरण्मय: (तै.उ.शी.६.१), सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (ना.६.१.८), भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस्सर्वगन्धस्सर्वरस: (छा.३.१४.२), माहारजनं वास: (बृ.४.३.६) इत्यादिश्रुतिसिद्धम् । आत्ममायया आत्मीयया मायया । माया वयुनं ज्ञानम् इति ज्ञानपर्यायोऽत्र मायाशब्द: । तथा चाभियुक्तप्रयोग:, मायया सततं वेत्ति प्राणिनां च शुभाशुभम् इति । आत्मीयेन ज्ञानेन आत्मसङ्कल्पेनेत्यर्थ: । अतोऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वमैशं स्वभावमजहत्स्वमेव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वनात्मसङ्कल्पेन देवादिरूप: संभवामि । तदिदमाह, अजायमानो बहुधा विजायते (उ.ना) इति श्रुति: । इतरपुरुषसाधारणं जन्म अकुर्वन् देवादिरूपेण स्वसङ्कल्पेनोक्तप्रक्रियया जायत इत्यर्थ: । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि, तदात्मानं सृजाम्यहम्, जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत: इति पूर्वापराविरोधाच्च ॥ ६ ॥
जन्मकालमाह –
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥
न कालनियमोऽस्मत्संभवस्य । यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्य-व्यवस्थयावस्थितस्य कर्तव्ययस्य ग्लानिर्भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानं तदाहमेव स्वसङ्कल्पेनोक्तप्रकारेणात्मानं सृजामि ॥ ७ ॥ जन्मन: प्रयोजनमाह –
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥
साधव: उक्तलक्षणधर्मशीला: वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिक्मलभमाना: क्षणमात्रकालं कल्पसहस्रं मन्वाना: प्रतिशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि ।कृतत्रेतादियुगविशेषनियमोऽपि नास्तीत्यर्थ: ॥८॥
जन्म कर्मं च मे दिव्यमेवं यो वेत्ति तत्त्वत: ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥
एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादि-समस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, मामेव प्राप्नोति । मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपाप: अस्मिन्नेव जन्मनि यथोदितप्रकारेण मामाश्रित्य मदेकप्रियो मदेकचित्तो मामेव प्राप्नोति ॥ ९ ॥ तदाह –
वीतरागभयक्रोधा मन्मया मामुपाश्रिता: ।
बहवो ज्ञानतपसा पूता मद्भावनागता: ॥ १० ॥
मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ता: । तथा च श्रुति:, तस्य धीरा: परिजानन्ति योनिम् (उ.ना) इति । धीरा: धीमतामग्रेसरा एवं तस्य जन्मप्रकारं जानन्तीत्यर्थ:।१०।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: ॥ ११ ॥
न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते समाश्रयन्ते तान् प्रति तथैव तन्मनीषितप्रकारेण भजामि मां दर्शयामि । किमत्र बहुना, सर्वे मनुष्या: मदनुवर्तनैकमनोरथा मम वर्त्म मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरमपि स्वकीयाइश्चक्षुरादिकरणै: सर्वश: स्वापेक्षितै: सर्वप्रकारैरनुभूयानुवर्त्न्ते ॥ ११ ॥
इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वमाह –
काङ्क्षन्त: कर्मणां सिद्धिं यजन्त इह देवता: ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
सर्व एव पुरुषा: कर्मणां फलं काङ्क्षमाणा: इन्द्रादिदेवतामात्रं यजन्ते आराधयन्ति, न तु कश्चिदनभिसंहितफल: इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते । कुत एतत्? यत: क्षिप्रमस्मिन्नेव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर्भवति । मनुष्यलोकशब्द: स्वर्गादीनामपि प्रदर्शनार्थ: । सर्वमेव लौकिका: पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिन: क्षिप्रफलाकाङ्क्षिण: पुत्रप_ान्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणीन्द्रादिदेवताराधनमात्राणि कुर्वते न तु कश्चित्संसारोद्विग्नहृदयो मुमुक्षु: उक्तलक्षणं कर्मयोगं मदाराधनभूतमारभत इत्यर्थ: ॥ १२ ॥
यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुमाह –
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टम् । सृष्टिग्रहणं प्रदर्शनार्थम् । मयैव रक्ष्यन्ते, मयैव चोपसंह्रियते । तस्य विचित्रसृष्त्यादे: कर्तारमप्यकर्तारं मां विद्धि ॥ १३ ॥ कथमित्यत्राह –
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥
यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति न मां संबध्नन्ति । न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि । सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानीत्यर्थ: । अत: प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर्नाहं कर्ता यतश्च सृष्टा: क्षेत्रज्ञा: सृष्टिलब्धकरणकलेबरा: सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुङ्जते सृष्ट्याद्कर्मफले च तेषामेव स्पृहेति ने मे स्पृहा । तथाह सूत्रकार: वैषम्यनैर्घृण्ये न सापेक्षत्वादिति । तथा च भगवान् पराशर: निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तय: ॥ निमित्तमात्रं मुक्त्वेदं नान्यत्किंचिदपेक्षते। नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥ (वि.पु.१.४.५१,५२) इति । सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टे: कारणमात्रमेवायं परमपुरुष: देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव। अतो निमित्तमात्रं मुक्त्वा सृष्टे: कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यदपेक्षते स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थ: । एवमुक्तेन प्रकारेण सृष्त्यादे: कर्तारमप्यकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो मामभिजानाति, स कर्मयोगारम्भविरोधिभि: फलसङ्गादिहेतुभि: प्राचीनकर्मभिर्न संबध्यते । मुच्यत इत्यर्थ: ॥ १४ ॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: ।
कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् ॥ १५ ॥
एवं मां ज्ञात्वा विमुक्तपापै: पूर्वैरपि मुमुक्षुभिरुक्तलक्षणं कर्म कृतम् । तस्मात्त्वमुक्तप्रकारमद्विषयज्ञान-विधूतपाप: पूर्वैर्विवस्वन्मन्वादिभि: कृतं पूर्वतरं पुरातनं तदानीमेव मयोक्तं वक्ष्यमाणाकारं कर्वैव कुरु ॥ १५ ॥
वक्ष्यमाणस्य कर्मणो दुर्ज्ञानतामाह –
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥
मुमुक्षुणानुष्ठेयं कर्म किंरूपम्, अकर्म च किम् । अकर्मेति कर्तुरात्मनो याथात्म्यज्ञानमुच्यते अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपमित्युभयत्र कवय: विद्वांसोऽपि मोहिता: यथावन्न जानन्ति। एवमन्तर्गतज्ञानं यत्कर्म, तत्ते प्रवक्ष्यामि, यज्ज्ञात्वानुष्ठाय अशुभात् संसारबन्धान्मोक्ष्यसे । कर्तव्यकर्मज्ञानं ह्यनुष्ठानफलम् ॥१६॥
कुतोऽस्य दुर्ज्ञानतेत्याह –
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: ॥ १७ ॥
यस्मान्मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यमस्ति विकर्मणि च । नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म । अकर्मणि ज्ञाने च बोद्धव्यमस्ति । गहना दुर्विज्ञाना मुमुक्षो: कर्मणो गति: ॥ १७ ॥
विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतयैकशास्त्रार्थत्वानुसन्धानम् । तदेतत्‘व्यवसायात्मिका बुद्धिरेका‘ इत्यत्रैवोक्तमिति नेह प्रपञ्च्यते । कर्माकर्मणोर्बोद्धव्यमाह –
कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: ।
स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् ॥ १८ ॥
अकर्मशब्देनात्र कर्मेतरात्प्रस्तुतमात्मज्ञानमुच्यते । कर्मणि क्रियमाण एवात्मज्ञानं य: पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव य: कर्म पश्येत् । किमुक्तं भवति? क्रियमाणमेव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं य: पश्येत्, तच्च ज्ञानं कर्मयोगान्तरगततया कर्माकारं य: पश्येदित्युक्तं भवति । क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति। एवमात्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म य: पश्येत्, स बुद्धिमान् कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्त: मोक्षायार्हा:, स एव कृत्स्नकर्मकृत्कृत्स्नशास्त्रार्थकृत् ॥१८॥
प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथमुपपद्यत इत्यत्राह –
यस्य सर्वे समारम्भा: कामसंकल्पवर्जिता: ।
ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: ॥ १९ ॥
यस्य मुमुक्षो: सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भा: कामार्जिता: फलसङ्गरहिता: । सङ्कल्पवर्जिताश्च । प्रकृत्या तद्गुणैश्चात्मानमेकीकृत्यानुसन्धानं सङ्कल्प: प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिता: । तमेवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणमाहुस्तत्त्वज्ञा: । अत: कर्मणो ज्ञानाकारत्वमुपपद्यते ॥ १९ ॥
एतदेव विवृणोति –
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय: ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति स: ॥ २० ॥
कर्मफलसङ्गं त्यक्त्वा नित्यतृप्त: नित्ये स्वात्म्न्येव तृप्त:, निराश्रय: अस्थिरप्रकृतौ आश्रयबुद्धिरहितो य: कर्माणि करोति, स कर्मण्याभिमुख्येन प्रवृत्तोऽपि नैव किंचित्कर्म करोति कर्मापदेशेन ज्ञानाभ्यासमेव करोतीत्यर्थ: ॥ २० ॥ पुनरपि कर्मणो ज्ञानाकारतैव विशोध्यते –
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह: ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥
निराशी: निर्गतफलाभिसन्धि: यतचित्तात्मा यतचित्तमना: त्यक्तसर्वपरिग्रह: आत्मैक-प्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहित:, यावज्जीवं केवलं शारीरमेव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यतीत्यर्थ: ॥२१॥
यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सर: ।
सम: सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥
यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्ट:, द्वन्द्वातीत: यावत्साधनसमाप्त्यवर्जनीय-शीतोष्णादिसह:, विमत्सर: अनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सर:, समस्सिद्धावसिद्दौ च युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्यो: समचित्त:, कर्मैव कृत्वापि ज्ञाननिष्ठां विनापि न निबध्यते न संसारं प्रतिपद्यते ॥२२॥
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस: ।
यज्ञायाचरत: कर्म समग्रं प्रविलीयते ॥ २३ ॥
आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रह-विनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते – निश्शेषं क्षीयते ॥२३॥
प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वमुक्तम् इदानीं सर्वस्य सपरिकरस्य कर्मण: परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वमाह –
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
ब्रह्मार्पणमिति हविर्विशेष्यते । अर्प्यतेऽनेनेत्यर्पणं स्रुगादि । तद्ब्रह्मकार्यत्वाद्ब्रह्म । ब्रह्म यस्य हविषोऽर्पणं तद्ब्रह्मार्पणम्, ब्रह्म हवि: ब्रह्मार्पणं हवि: । स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतमिति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयमिति य: समाधत्ते, स ब्रह्मकर्मसमाधि:, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ब्रह्मात्मकतया ब्रह्मभूतमात्मस्वरूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकमेवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम् न ज्ञाननिष्ठाव्यधानेनेत्यर्थ: ॥ २४ ॥ एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदानाह –
दैवमेवापरे यज्ञं योगिन: पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
दैवं देवार्चनरूपं यज्ञमपरे कर्मयोगिन: पर्युपासते सेवन्ते । तत्रैव निष्ठां कुर्वन्तीत्यर्थ: । अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैवोपजुह्वति अत्र यज्ञशब्दो हविस्स्रुगादियज्ञसाधने वर्तते ‘ब्रह्मार्पणं ब्रह्म हवि:‘ इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति ॥ २५ ॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥ २६ ॥
अन्ये श्रोत्रादीनामिन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिन: इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते ॥ २६ ॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥
अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च जुह्वति । मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थ: ॥ २७ ॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: ॥ २८ ॥
केचित्कर्मयोगिनो द्रव्ययज्ञा: न्यायतो द्रव्याण्युपादाय देवतार्चने प्रयतन्ते, केचिच्च दानेषु, केचिच्च यागेषु, केचिच्च होमेषु । एते सर्वे द्रव्ययज्ञा: । केचित्तपोयज्ञा: कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश्चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्द: कर्मनिष्ठाभेदप्रकरणात्तद्विषय: । केचित्स्वाध्यायाभ्यासपरा: । केचित्तदर्थज्ञानाभ्यासपरा: । यतय: यतनशीला:, संशितव्रता: दृढसङ्कल्पा: ॥ २८ ॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणा: ॥ २९ ॥
अपरे नियताहारा: प्राणान् प्राणेषु जुह्वति ।
अपरे कर्मयोगिन: प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रिविधा: पूरकरेचककुम्भकभेदेन अपाने जुह्वति प्राणमिति पूरक:, प्राणेऽपानमिति रेचक:, प्राणापानगती रुद्ध्वा ….. प्राणान् प्राणेषु जुह्वति इति कुम्भक: । प्राणायामपरेषु त्रिष्वप्यनुषज्यते नियताहारा इति ॥
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: ॥ ३० ॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे सह यज्ञै: प्रजा: सृष्ट्वा (उ.१०) इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविद: तन्निष्ठा: तत एव क्षपितकल्मषा: यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृता: सनातनं ब्रह्म यान्ति ॥
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम ॥ ३१ ॥
अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोक: न प्राकृतलोक:, प्राकृतलोकसंबन्धिधर्मार्थकामाख्य: पुरुषार्थो न सिध्यति । कुत इतोऽन्यो मोक्षाख्य: पुरुषार्थ:? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात्तदितरपुरुषार्थ: अयं लोक: इति निर्दिश्यते । स हि प्राकृत:॥३१॥
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥
एवं हि बहुप्रकारा: कर्मयोगा: ब्रह्मणो मुखे वितता: आत्मयाथात्म्यावाप्तिसाधनतया स्थिता: तानुक्तलक्षणानुक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिक-कर्मजान् विद्धि । एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे ॥ ३२ ॥
अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वमुक्तम् तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यमाह-
श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ: परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
उभयाकारे कर्मणि द्रव्यमयादंशाज्ज्ञानमयांश: श्रेयान् सर्वस्य कर्मण: तदितरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्ते: तदेव सर्वैस्साधनै: प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते । तदेव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते ॥ ३३ ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: ॥ ३४ ॥
तदात्मविषयं ज्ञानं अविनाशि तु तद्विद्धि इत्यारभ्य एषा तेऽभिहिता (२.३९) इत्यन्तेन मयोपदिष्टम्, ‘तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिः विशदाकारं ज्ञानिभ्यो विद्धि । साक्षात्कृतात्मस्वरूपास्तु ज्ञानिन: प्रणिपातादिभ्यस्सेविता: ज्ञानबुभुत्सया परित: पृच्छतस्तवाशयमालक्ष्य ज्ञानमुपदेक्ष्यन्ति ॥ ३४ ॥
आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणमाह –
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
यज्ज्ञानं ज्ञात्वा पुनरेवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्येव द्रक्ष्यसि, यतस्तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यम् । प्रकृतिसंसर्गदोषविनिर्मुक्तमात्मरूपं सर्वं सममिति च वक्ष्यते, निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता: (भ.गी.५.१९) इति । अथो मयि सर्वभूतान्यशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात्परिशुद्धस्य सर्वस्यात्मवस्तुन: । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: (भ.गी.१४.२) इति हि वक्ष्यते । तथा, तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३१) इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुन: परस्वरूपसाम्यमवगम्यते । अत: प्रकृतिविनिर्मुक्तं सर्वमात्मवस्तु परस्परं समं सर्वेश्वरेण च समम् ॥ ३५ ॥
अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ ३६ ॥
यद्यपि सर्वेभ्य: पापेभ्य: पापकृत्तमोऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रमात्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि ॥ ३६ ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
सम्यक्प्रवृद्धोऽग्निरिन्धनसञ्चयमिव, आत्मयाथात्म्यज्ञानरूपोऽग्निर्जीवात्मगतमनादि-कालप्रवृत्त अनन्तकर्मसञ्चयं भस्मीकरोति ॥ ३७ ॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥ ३८ ॥
यस्मादात्मज्ञानेन सदृशं पवित्रं शुद्धिकरमिह जगति वस्त्वन्तरं न विद्यते, तस्मादात्मज्ञानं सर्वपापं नाशयतीत्यर्थ: । तत्तथाविधं ज्ञानं यथोपदेशमहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्ध: कालेन स्वात्मनि स्वयमेव लभते ॥ ३८ ॥
तदेव विस्पष्टमाह –
श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय: ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
एवमुपदेशाज्ज्ञानं लब्ध्वा चोपदिष्टज्ञानवृद्धौ श्रद्धावान् तत्पर: तत्रैव नियतमना: तदितरविषयात्संयतेन्द्रियोऽचिरेण कालेनोक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति परं निर्वाणमाप्नोति ॥ ३९ ॥
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मन: ॥ ४० ॥
अज्ञ: एवमुपदेशलब्धज्ञानरहित:, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधान: अत्वरमाण:, उपदिष्टे च ज्ञाने संशयात्मा संशयमना: विनश्यति विनष्टो भवति । अस्मिन्नुपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनोऽयमपि प्राकृतो लोको नास्ति, न च पर: । धर्मार्थकामरूपपुरुषार्थाश्च न सिध्यन्ति, कुतो मोक्ष इत्यर्थ: शास्त्रीयकर्मसिद्धिरूपत्वात्सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश्च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् । अत: सुखलवभागित्वमात्मनि संशयात्मनो न संभवति ॥ ४०॥
योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
यथोपदिष्टयोगेन संन्यस्तकर्माणं ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति ॥ ४१ ॥
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मन: ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥
तस्मादनाद्यज्ञानसंभूतं हृत्स्थमात्मविषयं संशयं मयोपदिष्टेनात्मज्ञानासिना छित्त्वा मयोपदिष्टं कर्मयोगमातिष्ठ तदर्थमुत्तिष्ठ भारतेति ॥ ४२ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये चतुर्थोऽध्याय: ॥४॥