भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
तृतीयोऽध्याय:
तदेवं मुमुक्षुभि: प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशय- असंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्ति-कात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं य आत्मापहतपाप्मा (छा.८.७.१) इत्यादिप्रजापति-वाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यमुक्तम् ।
प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुरात्मनस्स्वरूपदर्शनम्, यस्तमात्मानमनुविद्य विजानाति (छा.८.७.१) इत्युक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपमशरीरं प्रतिपाद्य, एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति दहरविद्याफलेनोपसंहृतम् ।
अन्यत्रापि, अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति (कठ. २.१२) इत्येवमादिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेनेति प्रत्यगात्मज्ञानमपि विधाय, न जायते म्रियते वा विपश्चित् (२.१८) इत्यादिना प्रत्यगात्मस्वरूपं विशोध्य, अणोरणीयान् (२.२०), इत्यारभ्य, महान्तं विभुमात्मानं मत्वा धीरो न शोचति (२.२२), नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ (२.२३) इत्यादिभि: परस्वरूपं तदुपासनमुपासनस्य च भक्तिरूपतां प्रतिपाद्य, विज्ञानसारथिर्यस्तु मन:प्रग्रहवान्नर: । सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम् ॥ (३.९) इति परविद्याफलेन उपसंहृतम् । अत: परमध्यायचतुष्टयेन इदमेव प्राप्तु: प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति –
अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद, निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥
यदि कर्मणो बुद्धिरेव ज्यायसीति ते मता, किमर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतदुक्तं भवति ज्ञाननिष्ठैवात्मावलोकनसाधनम् कर्मनिष्ठा तु तस्या: निष्पादिका आत्मावलोकन-साधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्या इत्यभिहिता । इन्द्रियव्यापारोपरति-निष्पाद्यमात्मावलोकनं चेत्सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञान-निष्ठायां एवाहं नियोजयितव्य:। किमर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसीति ॥ अतो मिश्रवाक्येन मां मोहयसीव प्रतिभाति । तथा ह्यात्मावलोकनसाधनभूताया: सर्वेन्द्रियव्यापारोपरति-रूपाया: ज्ञाननिष्ठाया: तद्विपर्ययरूपं कर्म साधनम्, तदेव कुर्विति वाक्यं विरुद्धं व्यामिश्रमेव । तस्मादेकममिश्ररूपं वाक्यं वद, येन वाक्येनाहमनुष्ठेयरूपं निश्चित्य श्रेय: प्राप्नुयाम् ॥ १-२ ॥
श्रीभगवानुवाच
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ ३ ॥
पूर्वोक्तं न सम्यगवधृतं त्वया । पुरा ह्यस्मिन् लोके विचित्राधिकारिपूर्णे, द्विविधा निष्ठा ज्ञानकर्मविषया यथाधिकारमसङ्कीर्णैव मयोक्ता । न हि सर्वो लौकिक: पुरुष: संजातमोक्षाभिलाष: तदानीमेव ज्ञानयोगाधिकारे प्रभवति, अपि त्वनभिसंहितफलेन केवलपरमपुरुषाराधनवेषेणानुष्ठितेन कर्मणा विध्वस्तस्वान्तमल:, अव्याकुलेन्द्रियो ज्ञाननिष्ठायामधिकरोति । यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: (भ.गी.१८.४६) इति परमपुरुषाराधनैकवेषता कर्मणां वक्ष्यते । इहापि, कर्मण्येवाधिकारस्ते (भ.गी.२.४७)इत्यादिना अनभिसंहितफलं कर्म अनुष्ठेयं विधाय, तेन विषयव्याकुलतारूपमोहादुत्तीर्णबुद्धे: प्रजहाति यदा कामान् (भ.गी.२.५५) इत्यादिना ज्ञानयोग उदित: । अत: साङ्ख्यानामेव ज्ञानयोगेन स्थितिरुक्ता । योगिनां तु कर्मयोगेन । सङ्ख्या बुद्धि: तद्युक्ता: साङ्ख्या: आत्मैकविषयया बुद्ध्या संबन्धिन: साङ्ख्या: अतदर्हा: कर्मयोगाधिकारिणो योगिन: । विषयव्याकुलबुद्धियुक्तानां कर्मयोगेऽधिकार: अव्याकुलबुद्धीनां तु ज्ञानयोगेऽधिकार उक्त इति न किंचिदिह विरुद्धं व्यामिश्रमभिहितम् ॥ ३ ॥
सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां जातायां सहसैव ज्ञानयोगो दुष्कर इत्याह –
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ ४ ॥
न शास्त्रीयाणां कर्मणामनारम्भादेव, पुरुषो नैष्कर्म्यं ज्ञाननिष्ठां प्राप्नोति । न चारब्धस्य शास्त्रीयस्य त्यागात् यतोऽनभिसंहितफलस्य परमपुरुषाराधनवेषस्य कर्मण: सिद्धि: सा । अतस्तेन विना तां न प्राप्नोति । अनभिसंहितफलै: कर्मभिरनाराधितगोविन्दैरविनष्टानादिकालप्रवृत्तानन्त-पापसञ्चयैर: अव्याकुलेन्द्रियतापूर्विका आत्मनिष्ठा दुस्संपादा ॥ ४ ॥
एतदेवोपपादयति –
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: ॥ ५ ॥
न ह्यस्मिन् लोके वर्तमान: पुरुष: कश्चित्कदाचिदपि कर्माकुर्वाणस्तिष्ठति न किंचित्करोमीति व्यवसितोऽपि सर्व: पुरुष: प्रकृतिसंभवै: सत्त्वरजस्तमोभि: प्राचीनकर्मानुगुणं प्रवृद्धैर्गुणै: स्वोचितं कर्म प्रति अवश: कार्यते प्रवर्त्यते । अत उक्तलक्षणेन कर्मयोगेन प्राचीनं पापसंचयं नाशयित्वा गुणांश्च सत्त्वादीन् वशे कृत्वा निर्मलान्त:करणेन संपाद्यो ज्ञानयोग: ॥ ५ ॥
अन्यथा ज्ञानयोगाय प्रवृत्तो मिथ्याचारो भवतीत्याह –
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचार: स उच्यते ॥ ६ ॥
अविनष्टपापतया अजितान्त:करण: आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमना: विषयानेव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरतीति स मिथ्याचार उच्यते । आत्मज्ञानायोद्युक्तो विपरीतो विनष्टो भवतीत्यर्थ: ॥ ६ ॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते ॥ ७ ॥
अत: पूर्वाभ्यस्तविषयसजातीये शास्त्रीये कर्मणि इन्द्रियाण्यात्मावलोकनप्रवृत्तेन मनसा नियम्य तै: स्वत एव कर्मप्रवणैरिन्द्रियैरसङ्गपूर्वकं य: कर्मयोगमारभते, सोऽसंभाव्यमानप्रमादत्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्यते ॥ ७ ॥
नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्यकर्मण: ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: ॥ ८ ॥
नियतं व्याप्तम् प्रकृतिसंसृष्टेन हि व्याप्तं कर्म, अनादिवासनया प्रकृतिसंसृष्टस्त्वं नियतत्वेन सुशकत्वादसंभावितप्रमादत्वाच्च कर्मण:, कर्मैव कुरु अकर्मण: ज्ञाननिष्ठाया अपि कर्मैव ज्याय: । नैष्कर्म्यं पुरुषोऽशुनुते (भ.गी.३.४) इति प्रक्रमादकर्मशब्देन ज्ञाननिष्ठैवोच्यते । ज्ञाननिष्ठाधिकारिणोऽप्यनभ्यस्तपूर्वतया ह्यनियतत्वेन दु:शकत्वात्सप्रमादत्वाच्च ज्ञाननिष्ठाया:, कर्मनिष्ठैव ज्यायसी कर्मणि क्रियमाणे च आत्मयाथात्म्यज्ञानेनात्मनोऽकर्तृत्वानुसन्धानमनन्तरमेव वक्ष्यते । अत आत्मज्ञानस्यापि कर्मयोगान्तर्गतत्वात् स एव ज्यायानित्यर्थ: । कर्मणो ज्ञाननिष्ठाया ज्यायस्त्ववचनं ज्ञाननिष्ठायामधिकारे सत्येवोपपद्यते ।
यदि सर्वं कर्म परित्यज्य केवलं ज्ञाननिष्ठायामधिकारोऽपि, तर्हि अकर्मण: ज्ञाननिष्ठस्य ज्ञाननिष्ठोपकारिणी शरीरयात्रापि न सेत्स्यति । यावत्साधनसमाप्ति शरीरधारणं चावश्यं कार्यम् । न्यायार्जितधनेन महायज्ञादिकं कृत्वा तच्छिष्टाशनेनैव शरीरधारणं कार्यम्, आहारशुद्धौ सत्त्वशुद्धि: सत्त्वशुद्धौ ध्रुत्वा स्मृति: (छा.उ. ७.२६.२) इत्यादिश्रुते: । ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् (भ.गी.३.१३) इति वक्ष्यते। अतो ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रापि न सेत्स्यति । यतो ज्ञाननिष्ठस्यापि ध्रियमाणशरीरस्य यावत्साधनसमाप्ति महायज्ञादि नित्यनैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश्च कर्मयोगेऽप्यात्मनोऽकर्तृत्व-भावनयात्मयाथात्म्यानुसन्धानमन्तर्भूतम्, यतश्च प्रकृतिसंसृष्टस्य कर्मयोग: सुशकोऽप्रमादश्च, अतो ज्ञाननिष्ठायोग्यस्यापि ज्ञानयोगात्कर्मयोगो ज्यायान् । तस्मात्त्वं कर्मयोगमेव कुर्वित्यभिप्राय: ॥ ८ ॥
एवं तर्हि द्रव्यार्जनादे: कर्मणोऽहङ्कारममकारादिसर्वेन्द्रियव्यकुलतागर्भत्वेनास्य पुरुषस्य कर्मवासनया बन्धनं भविष्यतीत्यत्राह –
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन: ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर ॥ ९ ॥
यज्ञादिशास्त्रीयकर्मशेषभूताद्द्रव्यार्जनादे: कर्मणोऽन्यत्र आत्मीयप्रयोजनशेषभूते कर्मणि क्रियमाणे अयं लोक: कर्मबन्धनो भवति । अतस्त्वं यज्ञार्थं द्रव्यार्जनादिकं कर्म समाचर । तत्रात्मप्रयोजनसाधनतया य: सङ्ग: तस्मात्सङ्गान्मुक्तस्तं समाचर । एवं मुक्तसङ्गेन यज्ञाद्यर्थतया कर्मणि क्रियमाणे यज्ञादिभि: कर्मभिराराधित: परमपुरुषोऽस्यानादिकालप्रवृत्तकर्म-वासनामुच्छिद्य अव्याकुलात्मावलोकनं ददातीत्यर्थ:॥९॥
यज्ञशिष्टेनैव सर्वपुरुषार्थसाधननिष्ठानां शरीरधारणकर्तव्यताम्, अयज्ञशिष्टेन शरीरधारणं कुर्वतां दोषं चाह-
सह यज्ञै: प्रजा: सृष्ट्वा पुरोवाच प्रजापति: ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥
पतिं विश्वस्य (ना.उ) इत्यादिश्रुतेर्निरुपाधिक: प्रजापतिशब्द: सर्वेश्वरं विश्वस्य स्रष्टारं विश्वात्मानं परायणं नारायणमाह । पुरा सर्गकाले स भगवान् प्रजापतिरनादिकाल-प्रवृत्ताचित्संसर्गविवशा: उपसंहृतनामरूपविभागा: स्वस्मिन् प्रलीना: सकलपुरुषार्थानर्हा: चेतनेतरकल्पा: प्रजा: समीक्ष्य परमकारुणिकस्तदुज्जीवयिषया स्वाराधनभूतयज्ञनिर्वृत्तये यज्ञै: सह ता: सृष्ट्वैवमुवाच अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम् एष वो यज्ञ: परमपुरुषार्थलक्षणमोक्षाख्यस्य कामस्य तदनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥ १० ॥ कथम्?
देवान् भावयतानेन ते देवा भावयन्तु व: ।
परस्परं भावयन्त: श्रेय: परमवाप्स्यथ ॥ ११ ॥
अनेन देवताराधनभूतेन देवान्मच्छरीरभूतान्मदात्मकानाराधयत । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९.२४) इति हि वक्ष्यते । यज्ञेनाराधितास्ते देवा मदात्मका: स्वाराधनापेक्षितान्न-पानादिकैर्युष्मान् पुष्णन्तु । एवं परस्परं भावयन्त: परं श्रेयो मोक्षाख्यमवाप्स्यथ ॥११ ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविता: ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव स: ॥ १२ ॥
यज्ञभाविता: यज्ञेनाराधिता: मदात्मका देवा: इष्टान् वो दास्यन्ते उत्तमपुरुषार्थलक्षणं मोक्षं साधयतां ये इष्टा भोगास्तान् पूर्वपूर्वयज्ञभाविता देवा दास्यन्ते उत्तरोत्तराराधनोपेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्यर्थ: । स्वाराधनार्थतया तैर्दत्तान् भोगान् तेभ्योऽप्रदाय यो भुङ्क्ते चोर एव स: । चोउर्यं हि नाम अन्यदीये तत्प्रयोजनायैव परिकिप्ते वस्तुनि स्वकीयताबुद्धिं कृत्वा तेन स्वात्मपोषणम्। अतोऽस्य न परमपुरुषार्थानर्हातामात्रम्, अपि तु निरयगामित्वं च भविष्यतीत्यभिप्राय: ॥ १२ ॥
तदेव विवृणोति –
यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्विषै: ।
ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥
इन्द्राद्यात्मनावस्थितपरमपुरुषाराधनार्थतयैव द्रव्याण्युपादाय विपच्य तैर्यथावस्थितं परमपुरुषमाराध्य तच्छिष्टाशनेन ये शरीरयात्रां कुर्वते, ते त्वनादिकालोपार्जितै: किल्बिषै: आत्मयाथात्म्यावलोकनविरोधिभि: सर्वैर्मुच्यन्ते । ये तु परमपुरुषेणेन्द्राद्यात्मना स्वाराधनाय दत्तानि आत्मार्थत्योपादाय विपच्याश्नन्ति, ते पापात्मनोऽघमेव भुञ्जते । अघपरिणामित्वादघमित्युच्यते । आत्मावलोकनविमुखा: नरकायैव पचन्ते॥१३॥
पुनरपि लोकदृष्ट्या शास्त्रदृष्ट्या च सर्वस्य यज्ञमूलत्वं दर्शयित्वा यज्ञानुवर्तनस्यावश्यकार्यतां अननुवर्तने दोषं चाह –
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभव: ।
यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: ॥ १४ ॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह य: ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥
अन्नात्सर्वाणि भूतानि भवन्ति पर्जन्याच्चान्नसंभव: इति सर्वलोकसाक्षिकम् । यज्ञात्पर्जन्यो भवतीति च शास्त्रेणावगम्यते, अग्नौ प्रास्ताहुति: सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टि: (ब्र.पु.२९.४) इत्यादिना । यज्ञश्च द्रव्यार्जनादिकर्तृव्यापाररूपकर्मसमुद्भव:, कर्म च ब्रह्मोद्भवम्। अत्र च ब्रह्मशब्दनिर्दिष्टं प्रकृतिपरिणामरूपं शरीरम् । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते (मु.१.२.९) इति हि ब्रह्मशब्देन प्रकृतिनिर्दिष्टा । इहापि मम योनिर्महद्ब्रह्म इति वक्ष्यते । अत: कर्म ब्रह्मोद्भवमिति प्रकृतिपरिणामरूपशरीरोद्भवं कर्मेत्युक्तं भवति । ब्रह्माक्षरसमुद्भवमित्यत्राक्षर-शब्दनिर्दिष्टो जीवात्मा, अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्मसाधनभूतं शरीरमक्षरसमुद्भवम् तस्मात्सर्वगतं ब्रह्म सर्वाधिकारिगतं शरीरं नित्यं यज्ञे प्रतिष्ठितं यज्ञमूलमित्यर्थ: । एवं परमपुरुषेण प्रवर्तितमिदं चक्रमन्नाद्भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्यादन्नम्, यज्ञात्पर्जन्य:, यज्ञश्च कर्तृव्यापाररूपात्कर्मण:, कर्म च सजीवाच्छरीरात्, सजीवं शरीरं पुनरप्यन्नादित्यन्योन्यकार्यकारणभावेन चक्रवत्परिवर्तमानमिह साधने वर्तमानो य: कर्मयोगाधिकारी ज्ञानयोगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञशिष्टेन देहधारणमकुर्वन् सोऽघायुर्भवति । अघारम्भायैव यस्यायु:, अघपरिणतं वा, उभयरूपं वा सोऽघायु: । अत एवेन्द्रियारामो भवति, नात्माराम: इन्द्रियाण्येवास्योद्यानानि भवन्ति अयज्ञशिष्टवर्धितदेहमनस्त्वेनोद्रिक्त-रजस्तमस्क: आत्मावलोकनविमुखतया विषयभोगैकरतिर्भवति । अतो ज्ञानयोगादौ यतमानोऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवति ॥ १४-१५-१६॥
असाधनायत्तात्मदर्शनस्य मुक्तस्येव महायज्ञादिवर्णाश्रमोचितकर्मानारम्भ इत्याह –
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव: ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ १७ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: ॥ १८ ॥
यस्तु ज्ञानयोगकर्मयोगसाधननिरपेक्ष: स्वत एवात्मरति: आत्माभिमुख:, आत्मनैव तृप्त: नान्नपानादिभिरात्मव्यतिरिक्तै:, आत्मन्येव च सन्तुष्ट:, नोद्यानस्रक्चन्दनगीतवादित्रनृत्तादौ, धारणपोषण-भोग्यादिकं सर्वमत्मैव यस्य, तस्यात्मदर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टात्मस्वरूपत्वात्। अत एव तस्यात्मदर्शनाय कृतेन तत्साधनेन नार्थ: न किंचित्प्रयोजनम् अकृतेनात्मदर्शनसाधनेन न कश्चिदनर्थ: असाधनायत्तात्मदर्शनत्वात् । स्वत एवात्मव्यतिरिक्तसकलाचिद्वस्तुविमुखस्यास्य सर्वेषु प्रकृतिपरिणाम-विशेषेष्वाकाशादिषु सकार्येषु न कश्चित्प्रयोजनतया साधनतया वा व्यपाश्रय: यतस्तद्विमुखीकरणाय साधनारम्भ: स हि मुक्त एव ॥ १७ – १८॥
तस्मादसक्तस्सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पुरुष: ॥ १९ ॥
यस्मादसाधनायत्तात्मदर्शनस्यैव साधनाप्रवृत्ति:, यस्माच्च साधने प्रवृत्तस्यापि सुशकत्वाच्च अप्रमादत्वादन्तर्गतात्मयाथात्म्यानुसन्धानत्वाच्च ज्ञानयोगिनोऽपि मात्रया कर्मानुवृत्त्यपेक्षत्वाच्च कर्मयोग एवात्मदर्शननिर्वृत्तौ श्रेयान्, तस्मादसङ्गपूर्वकं कार्यमित्येव सततं यावदात्मप्राप्ति कर्मैव समाचर । असक्त:, कार्यमिति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्माचरन् पुरुष: कर्मयोगेनैव परमाप्नोति आत्मानं प्राप्नोतीत्यर्थ:॥ १९ ॥
कर्मणैव हि संसिद्धिमास्थिता जनकादय: ।
यतो ज्ञानयोगाधिकारिणोऽपि कर्मयोग एवात्मदर्शने श्रेयान् अत एव हि जनकादयो राजर्षयो ज्ञानिनामग्रेसरा: कर्मयोगेनैव संसिद्धिमास्थिता: आत्मानं प्राप्तवन्त: ॥ एवं प्रथमं मुमुक्षोर्ज्ञानयोगानर्हातया कर्मयोगाधिकारिण: कर्मयोग एव कार्य इत्युक्त्वा ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगात्कर्मयोग एव श्रेयानिति सहेतुकमुक्तम् । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्मयोग एव कार्य इत्युच्यते –
लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हासि ॥ २० ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन: ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
लोकसंग्रहं पश्यन्नपि कर्मैव कर्तुमर्हासि । श्रेष्ठ: कृत्स्नशास्त्रज्ञातयानुष्ठातृतया च प्रथितो यद्यदाचरति, तत्तदेवाकृत्स्नविज्जनोऽप्याचरति अनुष्ठीयमानमपि कर्म श्रेष्ठो यत्प्रमाणं यदङ्गयुक्तमनुतिष्ठति तदङ्गयुक्तमेवाकृत्स्नविल्लोकोऽप्यनुतिष्ठति ।
अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रेष्ठेन स्ववर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम् अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्रच्यावयेत् ॥ २०-२१ ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥
न मे सर्वेश्वरस्याप्तकामस्य सर्वज्ञस्य सत्यसङ्कल्पस्य त्रिषु लोकेषु देवमनुष्यादिरूपेण स्वच्छन्दतो वर्तमानस्य किंचिदपि कर्तव्यमस्ति, यतोऽनवाप्तं कर्मणावाप्तव्यं न किंचिदप्यस्ति । अथापि लोकरक्षायै कर्मण्येव वर्ते ॥ २२ ॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित: ।
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: ॥ २३ ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमा: प्रजा: ॥ २४ ॥
अहं सर्वेश्वर: सत्यसङ्कल्प: स्वसङ्कल्पकृतजगदुदयविभवलयलील: छन्दतो जगदुपकृतिमर्त्यो जातोऽपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहेऽवतीर्णस्तत्कुलोचिते कर्मण्यतन्द्रितस्सर्वदा यदि न वर्तेय, मम शिष्टजनाग्रेसरवसुदेवसूनोर्वर्त्म अकृत्स्नविद: शिष्टा: सर्वप्रकारेणायमेव धर्म इत्यनुवर्तन्ते ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानमलब्ध्वा निरयगामिनो भवेयु: । अहं कुलोचितं कर्म न चेत्कुर्याम्, एवमेव सर्वे शिष्टलोका मदाचरायत्तधर्मनिश्चया: अकरणादेवोत्सीदेयु: नष्टा भवेयु: । शास्त्रीयाचाराननुपालनात्सर्वेषां शिष्टकुलानां संकरस्य च कर्ता स्याम् । अत एवेमा: प्रजा: उपहन्याम् । एवमेव त्वमपि शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिरानुजोऽर्जुनस्सन् यदि ज्ञाननिष्ठायामधिकरोषि ततस्त्वदाचारानुवर्तिनोऽकृत्स्नविद: शिष्टा मुमुक्षव: स्वाधिकारमजानन्त: कर्मनिष्ठायां नाधिकुर्वन्तो विनश्येयु: । अतो व्यपदेश्येन्ा विदुषा कर्मैव कर्तव्यम् ॥ २३ – २४॥
सक्ता: कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान् युक्त: समाचरन् ॥ २६ ॥
अविद्वांस: आत्मन्यकृत्स्नविद:, कर्मणि सक्ता: कर्मण्यवर्जनीयसंबन्धा: आत्मन्यकृत्स्नवित्तया तदभ्यासरूपज्ञानयोगेऽनधिकृता: कर्मयोगाधिकारिण: कर्मयोगमेव यथा आत्मदर्शनाय कुर्वते, तथा आत्मनि कृत्स्नवित्तया कर्मण्यसक्त: ज्ञानयोगाधिकारयोग्योऽपि व्यपदेश्य: शिष्टो लोकरक्षार्थं स्वाचारेण शिष्टलोकानां धर्मनिश्चयं चिकीर्षु: कर्मयोगमेव कुर्यात् । अज्ञानामात्मन्यकृत्स्नवित्तया ज्ञानयोगोपादानाशक्तानां मुमुक्षूणां कर्मसङ्गिनामनादिकर्मवासनया कर्मण्येव नियतत्वेन कर्मयोगाधिकारिणां कर्मयोगादन्यदात्मावलोकनसाधनमस्तीति न बुद्धिभेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्नवित्तया ज्ञानयोगशक्तोऽपि पूर्वोक्तरीत्या, ‘कर्मयोग एव ज्ञानयोगनिरपेक्ष: आत्मावलोकनसाधनम्‘ इति बुद्ध्या युक्त: कर्मैवाचरन् सकलकर्मसु अकृत्स्नविदां प्रीतिं जनयेत् ॥ २५ – २६॥
कर्मयोगमनुतिष्ठतो विदुषोऽविदुषश्च विशेषं प्रदर्शयन् कर्मयोगापेक्षितमात्मनः अकर्तृत्वा-नुसन्धानप्रकारमुपदिशति –
प्रकृते: क्रियमाणाणि गुणै: कर्माणि सर्वश: ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७ ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयो: ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
प्रकृतेर्गुणै: सत्त्वादिभि: स्वानुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कारविमूढात्मा, अहं कर्तेति मन्यते अहङ्कारेण विमूढ आत्मा यस्यासावहङ्कारविमूढात्मा अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमान: तेन अज्ञातस्वरूपो गुणकर्मसु अहं कर्तेति मन्यत इत्यर्थ: । गुणकर्मविभागयो: सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित्, गुणास्सत्त्वादय: गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुणकर्मसु अहं कर्तेति न सज्जते ॥ २७ – २८॥
प्रकृतेर्गुणसंमूढा: सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ २९ ॥
अकृत्स्नविद: स्वात्मदर्शनाय प्रवृत्ता: प्रकृतिसंसृष्टतया प्रकृतेर्गुणैर्यथावस्थितात्मनि संमूढा: गुणकर्मसु क्रियास्वेव सज्जन्ते, न तद्विविक्तात्मस्वरूपे । अतस्ते ज्ञानयोगाय न प्रभवन्तीति कर्मयोग एव तेषामधिकार: । एवंभूतांस्तान्मन्दानकृत्स्नविद: कृत्स्नवित्स्वयं ज्ञानयोगावस्थानेन न विचालयेत्। ते किल मन्दा: श्रेष्ठजनाचारानुवर्तिन: कर्मयोगादुत्थितमेनं दृष्ट्वा कर्मयोगात्प्रचलितमनसो भवेयु: । अत: श्रेष्ठ: स्वयमपि कर्मयोगे तिष्ठनात्मयाथात्म्यज्ञानेनात्मनः अकर्तृत्वमनुसन्दधान:, कर्मयोग एवात्मावलोकने निरपेक्षसाधनमिति दर्शयित्वा तानकृत्स्नविदो जोषयेदित्यर्थ: । ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगादस्यैव ज्यायस्त्वं पूर्वमेवोक्तम् । अतो व्यपदेश्यो लोकसंग्रहायैतमेव कुर्यात् ॥ २९ ॥
प्रकृतिविविक्तात्मस्वभावनिरूपणेन गुणेषु कर्तृत्वमारोप्य कर्मानुष्ठानप्रकार उक्त: गुणेषु कर्तृत्वानुसन्धानं चेदमेव आत्मनो न स्वरूपप्रयुक्तमिदं कर्तृत्वम्, अपि तु गुणसम्पर्ककृतमिति प्राप्ताप्राप्तविवेकेन गुणकृतमित्यनुसन्धानम् इदानीमात्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वमारोप्य कर्मकर्तव्यतोच्यते
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर: ॥ ३० ॥
मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माण्यध्यात्मचेतसा संन्यस्य, निराशीर्निर्ममश्च विगतज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच्चेत: तदध्यात्मचेत: । आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेनेत्यर्थ: । अन्त: प्रविष्ट: शास्ता जनानां सर्वात्मा ….. अन्त: प्रविष्टं कर्तारमेतम् (यजु.आ.३.११.२१,२३), आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, स त आत्मान्तर्याम्यमृत: (बृ.५.७.२३) इत्येवमाद्या: श्रुतय: परमपुरुषप्रवर्त्यं तच्छरीरभूतमेनमात्मानम्, परमपुरुषं च प्रवर्तयितारमाचक्षते । स्मृतयश्च प्रशासितारं सर्वेषाम् (मनु.१२.१२२) इत्याद्या: । सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च (भ.गी.१५.५५), ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ (भ.गी.१८.५३१) इति वक्ष्यते । अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परमपुरुषे संन्यस्य, तानि च केवलं मदाराधनानीति कृत्वा तत्फले निराशी:, तत एव तत्र कर्मणि ममतारहितो भूत्वा विगतज्वरो युद्धादिकं कुरुष्व स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणै: स्वाराधनैकप्रयोजनाय परमपुरुष: सर्वशेषी सर्वेश्वर: स्वयमेव स्वकर्माणि कारयतीत्यनुसन्धाय, कर्मस्ममतारहित:, प्राचीनेनानादिकालप्रवृत्तानन्त-पापसञ्चयेन कथमहं भविष्यामीत्येवंभूतान्तर्ज्वरविनिर्मुक्त:, परमपुरुष एव कर्मभिराराधितो बन्धान्मोचयिष्यतीति सुखेन कर्मयोगमेव कुरुष्वित्यर्थ: । तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् (श्वे.६.७), पतिं विश्वस्य, पतिं पतीनाम् (श्वे.६.७) इत्यादिश्रुतिसिद्धं हि सर्वेश्वरत्वं सर्वशेषित्वं च । ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम् ॥ ३० ॥ अयमेव साक्षादुपनिषत्सारभूतोऽर्थ इत्याह –
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा: ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: ॥ ३१ ॥
ये मानवा: शास्त्राधिकारिण: अयमेव शास्त्रार्थ इति एतन्मे मतं निश्चित्य तथानुतिष्ठन्ति, ये चाननुतिष्ठन्तोऽप्यस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये चाश्रद्दधाना अपि एवं शास्त्रार्थो न संभवतीति नाभ्यसूयन्ति अस्मिन्महागुणे शास्त्रार्थे दोषमनाविष्कुर्वन्तो भवन्तीत्यर्थ: ते सर्वे बन्धहेतुभिरनादिकालारब्धैस्सर्वै: कर्मभिर्मुच्यन्ते तेऽपि इत्यपिशब्दादेषां पृथक्करणम् । इदानीं अननुतिष्ठन्तः अप्यस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश्च श्रद्धया चानसूयया च क्षीणपापा: अचिरेणेममेव शास्त्रार्थमनुष्ठाय मुच्यन्त इत्यर्थ: ॥ ३१ ॥
भगवदभिमतमौपनिषदमर्थमननुतिष्ठतामश्रद्दधानानामभ्यसूयतां च दोषमाह
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतस: ॥ ३२ ॥
ये त्वेतत्सर्वमात्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवर्त्यमिति मे मतं नानुतिष्ठन्ति नैवमनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये चाभ्यसूयन्तो वर्तन्ते तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् तत एव नष्टान्, अचेतसो विद्धि चेत:कार्यं हि वस्तुयाथात्म्यनिश्चय: तदभावादचेतस: विपरीतज्ञाना: सर्वत्र विमूढाश्च ॥ ३२ ॥
एवं प्रकृतिसंसर्गिणस्तद्गुणोद्रेककृतं कर्तृत्वम्, तच्च परमपुरुषायत्तमित्यनुसन्धाय कर्मयोगयोग्येन ज्ञानयोगयोग्येन च कर्मयोगस्य सुशकत्वादप्रमादत्वादन्तर्गतात्मज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात्सप्रमादत्वाच्शरीरधारणाद्यर्थतया कर्मापेक्षत्वात्कर्मयोग एव कर्तव्य: व्यपदेश्यस्य तु विशेषत: स एव कर्तव्य: इति चोक्तम् । अत: परमध्यायशेषेण ज्ञानयोगस्य दुश्शकतया सप्रमादतोच्यते –
सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति ॥ ३३ ॥
प्रकृतिविविक्तमीदृशमात्मस्वरूपम्, तदेव सर्वदानुसन्धेयमिति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवानपि स्वस्या: प्रकृते: प्राचीनवासनायास्सदृशं प्राकृतविषयेष्वेव चेष्टते कुत:? प्रकृतिं यान्ति भूतानि अचित्संसृष्टा जन्तवोऽनादिकालप्रवृत्तवासनामेवानुयान्ति तानि वासनानुयायीनि भूतानि शास्त्रकृतो निग्रह: किं करिष्यति॥ ३३ ॥ प्रकृत्यनुयायित्वप्रकारमाह –
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥
श्रोत्रादिज्ञानेन्द्रियस्यार्थे शब्दादौ वागादिकर्मेन्द्रियस्य चार्थे वचनादौ प्राचीनवासनाजनित-तदनुबुभूषारूपो यो रागोऽवर्जनीयो व्यवस्थितस्दनुभवे प्रतिहते चावर्जनीयो यो द्वेषो व्यवस्थित:, तावेवं ज्ञानयोगाय यतमानं नियमितसर्वेन्द्रियं स्ववशे कृत्वा प्रसह्य स्वकार्येषु संयोजयत:। ततश्चायमात्मस्वरूपानुभवविमुखो विनष्टो भवति । ज्ञानयोगारम्भेण रागद्वेषवशमागम्य न विनश्येत्। तौ हि रागद्वेषौ अस्य दुर्जयौ शत्रू ज्ञानाभ्यासंवारयत: ॥३४॥
श्रेयान् स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेय: परधर्मो भयावह: ॥ ३५ ॥
अत: सुशकतया स्वधर्मभूत: कर्मयोगो विगुणोऽप्यप्रमादगर्भ: प्रकृतिसंसृष्टस्य दुश्शकतया परधर्मभूताज्ज्ञानयोगात्सगुणादपि किंचित्कालमनुष्ठितात्सप्रमादाच्छ्रेयान् स्वेनैवोपादातुं योग्यतया स्वधर्मभूते कर्मयोगे वर्तमानस्यैकस्मिन् जन्मन्यप्राप्तफलतया निधनमपि श्रेय:, अनन्तरायहततयानन्तरजन्मन्यपि अव्याकुलकर्मयोगारम्भसंभवात् । प्रकृतिसंसृष्टस्य स्वेनैवोपादातुमशक्यतया परधर्मभूतो ज्ञानयोग: प्रमादगर्भतया भयावह: ॥३५॥
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुष: ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित: ॥ ३६ ॥
अथायं ज्ञानयोगाय प्रवृत्त: पुरुष: स्वयं विषयाननुभवितुमनिच्छन्नपि केन प्रयुक्तो विषयानुभवरूपं पापं बलान्नियोजित इव चरति ॥ ३६ ॥
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भव: ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
अस्योद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य ज्ञानायारब्धस्य रजोगुणसमुद्भव: प्राचीनवासनाजनित: शब्दादिविषय: कामो महाशन: शत्रु: विषयेष्वेनमाकर्षति । एष एव प्रतिहतगति: प्रतिहतिहेतुभूतचेतनान् प्रति क्रोधरूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति । एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि ॥ ३७ ॥
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
यथा धूमेन वह्निराव्रियते, यथा आदर्शो मलेन, यथा च उल्बेनावृतो गर्भ:, तथा तेन कामेन इदं जन्तुजातमावृतम् ॥ ३८ ॥
आवरणप्रकारमाह –
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥
अस्य जन्तो: ज्ञानिन: ज्ञानस्वभावस्यात्मविषयं ज्ञानमेतेन कामकारेण विषयव्यामोह-जननेन नित्यवैरिणा आवृतम् दुष्पूरेण प्राप्त्यनर्हाविषयेण, अनलेन च पर्याप्तिरहितेन ॥ ३९ ॥
कैरुपकरणैरयं काम आत्मानमधिष्ठितीत्यत्राह –
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४०॥
अधितिष्ठत्येभिरयं काम आत्मानमितीन्द्रियाणि मनो बुद्धिरस्याधिष्ठानम् एतैरिन्द्रियमनोबुद्धिभि: कामोऽधिष्ठानभूतैर्विषयप्रवणैर्देहिनं प्रकृतिसंसृष्टं ज्ञानमावृत्य विमोहयति विविधं मोहयति, आत्मज्ञानविमुखं विषयानुभवपरं करोतीत्यर्थ: ॥ ४० ॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥
यस्मात्सर्वेन्द्रियव्यापारोपरतिरूपे ज्ञानयोगे प्रवृत्तस्यायं कामरूप: शत्रु: विषयाभिमुख्यकरणेन आत्मनि वैमुख्यं करोति, तस्मात्प्रकृतिसंसृष्टतयेन्द्रियव्यापारप्रवणस्त्वमादौ मोक्षोपायारम्भसमय एव, इन्द्रियव्यापाररूपे कर्मयोगे इन्द्रियाणि नियम्य, एनं ज्ञानविज्ञाननाशनम् आत्मस्वरूपविषयस्य ज्ञानस्य तद्विवेकविषयस्य च नाशनं पाप्मानं कामरूपं वैरिणं प्रजहि नाशय ॥ ४१ ॥
ज्ञानविरोधिषु प्रधानमाह –
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन: ।
मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स: ॥ ४२ ॥
ज्ञानविरोधे प्रधानानीन्द्रियाण्याहु:, यत इन्द्रियेषु विषयव्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्य: परं मन: इन्द्रियेषु उपरतेष्वपि मनसि विषयप्रवणे आत्मज्ञानं न संभवति । मनसस्तु परा बुद्धि: मनसि वृत्त्यन्तरविमुखेऽपि विपरीताध्यवसायप्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धिपर्यन्तेषु उपरतेष्वपीच्छापर्याय: कामो रजस्समुद्भवो वर्तते चेत्, स एवैतानीन्द्रियादीन्यपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धि । तदिदमुच्यते, यो बुद्धे: परस्तु स: इति।बुद्धेरपि य: परस्स काम इत्यर्थ: ॥ ४२ ॥
एवं बुद्धे: परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
एवं बुद्धेरपि परं कामं ज्ञानयोगविरोधिनं वैरिणं बुद्ध्वा आत्मानं मन: आत्मना बुद्ध्या कर्मयोगेऽवस्थाप्य एनं कामरूपं दुरासदं शत्रुं जहि नाशयेति ॥ ४३ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये तृतीयोऽध्याय: ॥ ३॥