01 श्रीमद्गीताभाष्यम् प्रथमाध्याय:

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

प्रथमाध्याय:

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मष: ।

वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

श्रिय: पति:, निखिलहेयप्रत्यनीककल्याणैकतान:, स्वेतरसमस्तवस्तुविलक्षणानन्त-ज्ञानानन्दैक स्वरूप:, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसंख्येय-कल्याणगुणगणमहोदधि:, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशय-औज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूप: , स्वोचितविविध-विचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषण:, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्य-निरवद्यनिरतिशयकल्याणदिव्यायुध:, स्वाभिमतानुरूपनित्यनिरवद्य-स्वरूपरूपगुणविभवैश्वर्य-शीलाद्यनवधिकातिशयासंख्येय कल्याणगुणगण श्रीवल्लभ:, स्वसङ्कल्पानुविधायिस्वरूप-स्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्यनिरवद्यनिरतिशय – ज्ञानक्रियैश्वर्याद्यनन्तगुणगण-अपरिमितसूरिभिरनवरताभिष्टुतचरणयुगल:, वाङ्मनसापरिच्छेद्यस्वरूपस्वभाव:, स्वोचितविविध-विचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाव्िाभवानन्तपरिमाण-नित्यनिरवद्याक्षरपरमव्योमनिलय:, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्ण निखिलजगदुदय-विभवलयलील:, परं ब्रह्म पुरुषोत्तमो नारायण:, ब्रह्मादिस्थावरान्तमखिलं जगत्सृष्ट्वा, स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचर:, अपारकारुण्यसौशील्य-वात्सल्यौदार्यमहोदधि:, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वन् तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि समाश्रयणीयत्वायावतीर्योर्व्यां सकलमनुजनयनविषयतां गत:, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकट-यमलार्जुनारिष्टप्रलम्ब-धेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य, अनवधिकदयासौहार्दानुराग-गर्भावलोकनालापामृतैर्विश्वमाप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूर-मालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहन-व्याजेन परमपुरुषार्थलक्षण-मोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तम: सर्वेश्वरेश्वरो जगदुपकृतिमर्त्य: आश्रितवात्सल्यविवश: पार्थं रथिनमात्मानं च सारथिं सर्वलोकसाक्षिकं चकार ।

धृतराष्ट्र उवाच –

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव:  ।

मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय          ॥ १ ॥

एवं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्र: सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ ।

सञ्जय उवाच –

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा  ।

आचार्यमुपसंगम्य राजा वचनमब्रवीत्                   ॥ २ ॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्  ।

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता                   ॥ ३ ॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि  ।

युयुधानो विराटश्च द्रुपदश्च महारथ:                    ॥ ४ ॥

धृष्टकेतुश्चेकितान: काशीराजश्च वीर्यवान्  ।

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव:          ॥ ५ ॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्  ।

सौभद्रो द्रौपदेयाश्च सर्व एव महारथा:                   ॥ ६ ॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम  ।

नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते             ॥ ७ ॥

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जय:  ।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च          ॥ ८ ॥

अन्ये च बहव: शूरा मदर्थे त्यक्तजीविता:  ।

नानाशस्त्रप्रहरणास्सर्वे युद्धविशारदा:                   ॥ ९ ॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्  ।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्          ॥ १० ॥

अयनेषु च सर्वेषु यथाभागमवस्थिता:  ।

भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि           ॥ ११ ॥

दुर्योधन: स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलमवलोक्य, आत्मविजये तस्य बलस्य पर्याप्ततामात्मीयस्य बलस्य तद्विजये चापर्याप्त-तामाचार्याय निवेद्य अन्तर्विषण्णोऽभवत् ॥ २.११ ॥

तस्य संजनयन् हर्षं कुरुवृद्ध: पितामह:  ।

सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान्            ॥ १२ ॥

तत: शङ्खाश्च भेर्यश्च पणवानकगोमुखा:  ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्          ॥ १३ ॥

तत: श्वेतैर्हायैर्युक्ते महति स्यन्दने स्थितौ  ।

माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु:              ॥ १४ ॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जय:  ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर:         ॥ १५ ॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर:  ।

नकुल: सहदेवश्च सुघोषमणिपुष्पकौ                    ॥ १६ ॥

काश्यश्च परमेष्वास: शिखण्डी च महारथ:  ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित:              ॥ १७ ॥

द्रुपदो द्रौपदेयाश्च सर्वत: पृथिवीपते  ।

सौभद्रश्च महाबाहु: शङ्खान् दध्मु: पृथक्पृथक्            ॥ १८ ॥

तस्य विषादमालक्ष्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकारयत् ॥  तत:  तं घोषमाकर्ण्य सर्वेश्वरेश्वर: पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतु: ॥ १२-१८ ॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।

नभश्च पृथिवीं चैव तुमुलोऽप्यनुनादयन्           ॥ १९ ॥

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वज:  ।

प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डव:                  ॥ २० ॥

हृषीकेशं तदा वाक्यमिदमाह महीपते  ।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत           ॥ २१ ॥

ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान् शङ्खान् पृथक्पृथक्प्रदध्मु: । स घोषो दुर्योधनप्रमुखानां सर्वेषामेव भवत्पुत्राणां हृदयानि बिभेद । अद्यैव नष्टं कुरूणां बलम् इति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयोऽकथयत् ॥ १९-२१ ॥

अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्कादहनवानरध्वज: पाण्डुतनयो

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्  ।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे         ॥ २२ ॥

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागता:  ।

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव:            ॥ २३ ॥

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत  ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्           ॥ २४ ॥

भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम्  ।

उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति         ॥ २५ ॥

तत्रापश्यत्स्थितान् पार्थ: पितॄनथ पितामहान्  ।

ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिल – जनान्तरबाह्यकरणानां सर्वप्रकारनियमनेऽवस्थितमाश्रितवात्सल्यविवशतया स्वसारथ्येऽवस्थितम्, ‘युयुत्सून् यथावदवेक्षितुं तदीक्षनक्षमे स्थाने रथं स्थापय‘ इत्यचोदयत् ॥

आचार्यान्मातुलान् भ्रात्न् पुत्रान् पौत्रान् सखींस्तथा  ॥ २६ ॥

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि  ।

तान् समीक्ष्य स कौन्तेय: सर्वान् बन्धूनवस्थितान्  ॥ २७ ॥

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्             ॥ २८ ॥

सीदन्ति मम गात्राणि मुखं च परिशुष्यति  ।

वेपथुश्च शरीरे मे रोमहर्षश्च जायते                    ॥ २९ ॥

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते  ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन:              ॥ ३० ॥

निमित्तानि च पश्यामि विपरीतानि केशव  ।

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे          ॥ ३१ ॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा            ॥ ३२ ॥

येषामर्थे काङ्क्षितं नो राज्यं भोगास्सुखानि च ।

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च    ॥३३ ॥

आचार्या: पितर: पुत्रास्तथैव च पितामहा:  ।

मातुला: श्वशुरा: पौत्रा: स्याला: संबन्धिनस्तथा     ॥ ३४ ॥

स च तेन चोदितस्तत्क्षणादेव भीष्मद्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथाचोदितमकरोत्। ईदृशी भवदीयानां विजयस्थितिरिति चावोचत् ॥

स तु पार्थो महामना: परमकारुणिको दीर्घबन्धु: परमधार्मिक: सभ्रातृको एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूधन  ।

अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते              ॥ ३५ ॥

निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन  ।

पापमेवाश्रयेदस्मान् हत्वैतानाततायिन:            ॥ ३६ ॥

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् ।

स्वजनं हि कथं हत्वा सुखिन: स्याम माधव             ॥ ३७ ॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतस:  ।

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्                  ॥ ३८ ॥

कथं न ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम्  ।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन                    ॥ ३९ ॥

कुलक्षये प्रणश्यन्ति कुलधर्मा: सनातना:  ।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत          ॥ ४० ॥

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय:  ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्कर:          ॥ ४१ ॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च  ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रिया:         ॥ ४२ ॥

दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै:  ।

उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता:            ॥ ४३ ॥

उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन  ।

नरके नियतं वासो भवतीत्यनुशुश्रुम                    ॥ ४४ ॥

अहो बत महत्पापं कर्तुं व्यवसिता वयम्  ।

यद्राज्यसुखलाभेन हन्तुं स्वजनमुद्यता:           ॥ ४५ ॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणय:  ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्          ॥ ४६ ॥

भवद्भिरतिघोरैर्मारणैर्जतुगृहदाहादिभिरसकृद्वञ्चितोऽपि परमपुरुषसहायेनात्मना

सञ्जय उवाच      

एवमुक्त्वार्जुन: संख्ये रथोपस्थ उपाविशत् ।

विसृज्य सशरं चापं शोकसंविग्नमानस:           ॥ ४७ ॥

हनिष्यमाणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्न-सर्वगात्र: सर्वथाहं न योत्स्यामि इत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानस: सशरं चापं विसृज्य रथोपस्थ उपाविशत् ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये प्रथमाध्याय: ॥ १॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.