भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
सप्तमोऽध्याय:
प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूते: श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तु: प्रत्यगात्मनो याथात्म्यदार्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र, यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥ (भ.गी.१८.४६) इत्यारभ्य, विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते । ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ (भ.गी.१८.५४) इति संक्षिप्य वक्ष्यते।
उपासनं तु भक्तिरूपापन्नमेव परप्राप्त्युपायभूतमिति वेदान्तवाक्यसिद्धम् । तमेव विदित्वातिमृत्युमेति (श्वे.३.८), तमेवं विद्वानमृत इह भवति (पु) इत्यादिना अभिहितं वेदनम्, आत्मा वा अरे द्रष्टव्य: ….. निदिध्यासितव्य: (बृ.६.५.६), आत्मानमेव लोकमुपासीत (बृ.३.४.१५), सत्त्वशुद्धौ ध्रुवा स्मृति: स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष: (छा.७.२६.२), भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया:। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु.२.२.८) इत्यादिभिरैकार्थ्यात्स्मृति-सन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यमित्यवगम्यते । पुनश्च, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (क.२.२३) इति विशेषणात्परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रियरूपं स्मृति-सन्तानमेवोपासनशब्द-वाच्यमिति हि निश्चीयते । तदेव हि भक्तिरित्युच्यते, स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते (लै.उ) इत्यादिवचनात् । अत: तमेवं विद्वानमृत इह भवति, नान्य: पन्था अयनाय विद्यते (पु), नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप (भ.गी.११.५३,५४) इत्यनयोरेकार्थत्वं सिद्धं भवति ।
तत्र सप्तमे तावदुपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्ति:, उपासकविधाभेद:, ज्ञानिनश्श्रैष्ठ्यं चोच्यते ॥
श्रीभगवानुवाच
मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
मय्याभिमुख्येन असक्तमना: मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश्च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणादेव विशीर्यमाणस्वरूपतया मयि सुगाढं बद्धमना: तथा मदश्रय: स्वयं च मया विना विशीर्यमाणतया मदाश्रय: मदेकाधार:, मद्योगं युञ्जन् योक्तुं प्रवृत्त: योगविषयभूतं मामसंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनोक्तेन ज्ञास्यसि, तज्ज्ञानमवहितमना: त्वं शृणु ॥ १ ॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
अहं ते मद्विषयमिदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि। विज्ञानन् विविक्ताकारविषयं ज्ञानम्। यथाहं मद्व्यतिरिक्तात्समस्तचिदचिद्वस्तुजातान्निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येय-कल्याणगुण गणानन्तमहाविभूतितया च विविक्त:, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि । किं बहुना यद्ज्ञानं ज्ञात्वा मयि पुनरन्यज्ज्ञातव्यं नावशिष्यते ॥ २ ॥
वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापतामाह –
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: ॥ ३ ॥
मनुष्या: शास्त्राधिकारयोग्या: । तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते । सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तस्सिद्धये यतते । मद्विदां सहस्रेषु कश्चिदेव तत्त्वत: यथावस्थितं मां वेत्ति । न कश्चिदित्यभिप्राय: स महात्मा सुदुर्लभ: (१९), मां तु वेद न कश्चन (२६) इति हि वक्ष्यते ॥ ३ ॥
भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगत: प्रकृतिरियं गन्धादिगुणक- पृथिव्यप्तेजोवाय्वाकाशादिरूपेण मन:प्रभृतीन्द्रियरूपेण महदहंकाररूपेण चाष्टधा भिन्ना मदीयेति विद्धि॥४॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
इयं ममापरा प्रकृति: इतस्त्वन्यामितोऽचेतनायाश्चेतनभोग्यभूताया: प्रकृतेर्विसजातीयाकारां जीवभूतां परां तस्या: भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि ययेदमचेतनं कृत्स्नं जगद्धार्यते ॥ ५ ॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा ॥ ६ ॥
एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावच-भावेन अवस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानीत्युपधारय । मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्येव । तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगत:, तयोर्द्वयोरपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगत: अहमेव प्रभवोऽहमेव च प्रलयोऽहमेव च शेषीत्युपधारय । तयो: चिदचित्समष्टिभूतयो: प्रकृतिपुरुषयोरपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम् । महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तम: परे देव एकीभवति (सुबा.२), विष्णोस्स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरुषश्च विप्र (वि.पु.१.२.२४), प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषामाधार: परमेश्वर: । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ (वि.पु.६.४.३०,३१) इत्यादिका हि श्रुतिस्मृतय:॥६॥
मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश्चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतर: तथा ज्ञानशक्तिबलादिगुणयोगेन चाहमेव परतर: । मत्तोऽन्यन्मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिदपि परतरं नास्ति ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
सर्वमिदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवदात्मतयावस्थिते मयि प्रोतमाश्रितम् । यस्य पृथिवी शरीरम् (बृ.५.७.३), यस्यात्मा शरीरम् (बृ.५.७.२२), एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण: (सुब्.७) इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोरन्तर्यामिब्राह्मणादिषु सिद्धम् ॥ ७ ॥
अत: सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात्सर्वप्रकार: परमपुरुष एवावस्थित इति सर्वैश्शब्दैस्तस्यैवाभिधानमिति तत्तत्सामानाधिकरण्येन आह –
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: ।
प्रणवस्सर्ववेदेषु शब्द: खे पौरुषं नृषु ॥ ८ ॥
पुण्यो गन्ध: पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥
बलं बलवन्ताञ्चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
एते सर्वे विलक्षणा भावा मत्त एवोत्पन्ना:, मच्छेषभूता: मच्छरीरतया मय्येवावस्थिता: अतस्तत्तत्प्रकारोऽहमेवावथित: ॥ ८,९,१०,११ ॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥
किं विशिष्य अभिधीयते? सात्त्विका राजसास्तामसाश्च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवा:, तान् सर्वान्मत्त एवोत्पन्नान् विद्धि ते मच्छरीरतया मय्येवावस्थिता इति च । न त्वहं तेषु नाहं कदाचिदपि तदायत्तस्थिति: अन्यत्रात्मायत्तस्थितित्वेऽपि शरीरस्य, शरीरेणात्मन: स्थितावप्युपकारो विद्यते मम तु तैर्न कश्चित्तथाविध उपकार:, केवललीलैव प्र् प्रयोजनमित्यर्थ:॥१२॥
त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्य: परमव्ययम् ॥ १३ ॥
तदेवं चेतनाचेतनात्मकं कृत्स्नं जगन्मदीयं काले काले मत्त एवोत्पद्यते, मयि च प्रलीयते, मय्येवावस्थितम्, मच्छरीरभूतम्, मदात्मकं चेत्यहमेव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारोऽवस्थित: । अत: कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश्चाहमेव सर्वै: प्रकारै: परतर:, मत्तोऽन्यत्केनापि कल्याणगुणगणेन परतरं न विद्यते । एवंभूतं मां त्रिभ्य: सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्य: परं मदसाधारणै: कल्याणगुणगणैस्तत्तद्भोग्यताप्रकारैश्च परमुत्कृष्टतमम्, अव्ययं सदैकरूपमपि तैरेव त्रिभिर्गुणमयैर्निहीनतरै: क्षणध्वंसिभि: पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितै: पदार्थैर्मोहितं देवतिर्यङ्मनुष्यस्थावरात्मनावस्थितं सर्वमिदं जगन्नाभिजानाति ॥ १३ ॥
कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश्चोत्कृष्टतमे त्वयि स्थितेऽप्यत्यन्तनिहीनेषु गुणमयेष्वस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिरुपजायत इत्यत्राह –
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद्दैवी देवेन क्रीढाप्रवृत्तेन मयैव निर्मिता, तस्मात्सर्वैर्दुरत्यया दुरतिक्रमा । अस्या: मायाशब्दवाच्यत्वमासुरराक्षसास्त्रादीनामिव विचित्रकार्यकरत्वेन, यथा च ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमैकाइकश्येन सूदितम् (वि.पु.१.१९.२८) इत्यादौ । अतो मायाशब्दो न मिथ्यार्थवाची । ऐन्द्रजालिकादिष्वपि केनचिन्मन्त्राउषधादिना मिथ्यार्थविषयाया: पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोग: । तथा मन्त्राउषधादिरेव तत्र माया सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिक:, मञ्चा: क्रोशन्तीतिवत् । एषा गुणमयी पारमार्थिकी भगवन्मायैव, मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.३.४.१०) इत्यादिष्वभिधीयते । अस्या: कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश्च । अतो भगवन्मायया मोहितं सर्वं जगद्भगवन्तमनवधिकातिशयानन्दस्वरूपं नाभिजानाति ॥ मायाविमोचनोपायमाह –
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
मामेव सत्यसङ्कल्पं परमकारुणिकमनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायामुत्सृज्य मामेवोपासत इत्यर्थ: ॥ १४ ॥
किमिति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्यत्राह –
न मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: ।
माययापहृतज्ञाना आसुरं भावमाश्रिता: ॥ १५ ॥
दुष्कृतिन: पापकर्माण: मां न प्रपद्यते । दुष्कृततारतम्येन ते चतुर्विधा भवन्ति मूढा:, नराधमा:, माययापहृतज्ञाना:, आसुरं भावमाश्रिता: इति । मूढा: विपरीतज्ञाना: पूर्वोक्तप्रकारेण भगवच्छेषतैकरसमात्मानं भोग्यजातं च स्वशेषतया मन्यमाना: । नराधमा: सामान्येन ज्ञातेऽपि मत्स्वरूपे मदौन्मुख्यानर्हा: । माययापहृतज्ञाना: मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभि: कूटयुक्तिभिरपहृतम्, ते तथा उक्ता: । आसुरं भावमाश्रिता: मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढमुपपन्नं येषां द्वैषायैव भवति ते आसुरं भावमाश्रिता: । उत्तरोत्तरा: पापिष्ठतमा: ॥ १५ ॥
चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
सुकृतिन: पुण्यकर्माणो मां शरणमुपगम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुर्विधा:, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तरा अधिकतमा भवन्ति । आर्त: प्रतिष्ठाहीन: भ्रष्टैश्वर्र्य: पुनर्तत्प्राप्तिकाम: । अर्थार्थी अप्राप्तैश्वर्यतया ऐश्वर्यकाम: । तयोर्मुखभेदमात्रम् । ऐश्वर्यविषयतयाइक्यादेक एवाधिकार: । जिज्ञासु: प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छु: । ज्ञानमेवास्य स्वरूपमिति जिज्ञासुरित्युक्तम्। ज्ञानी च, इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् (भ.गी.७.५) इत्यादिनाभिहितभगवच्छेषतैक-रसात्मस्वरूपवित् प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन् भगवन्तं प्रेप्सु: भगवन्तमेव परमप्राप्यं मन्वान: ॥ १६ ॥
तेषां ज्ञानी नित्ययुक्त: एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय: ॥ १७ ॥
तेषां ज्ञानी विशिष्यते । कुत:? नित्ययुक्त एकभक्तिरिति च । ज्ञानिनो हि –
मदेकप्राप्यस्य मया योगो नित्य: इतरयोस्तु यावत्स्वाभिलषितप्राप्ति मया योग: । तथा ज्ञानिनो मय्येकस्मिन्नेव भक्ति: इतरयोस्तु स्वाभिलषिते तत्साधनत्वेन मयि च । अत: स एव विशिष्यते । किञ्च, प्रियो हि ज्ञानिनोऽत्यर्थमहम् । अर्थशब्दोऽभिधेयवचन: ज्ञानिनोऽहं यथा प्रिय:, तथा मया सर्वज्ञेन सर्वशक्तिनाप्यभिधातुं न शक्यत इत्यर्थ: प्रियत्वस्येयत्तारहितत्वात् । यथा ज्ञानिनामग्रेसरस्य प्रह्लादस्य, स त्वासक्तमति: कृष्णे दश्यमानो महोरगै: । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थित: (वि.पु.१.१७.३९) इति । तथैव सोऽपि मम प्रिय: ॥ १७ ॥
उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥
सर्व एवैते मामेवोपासत इति उदारा: वदान्या: । ये मत्तो यत्किंचिदपि गृह्णन्ति, ते हि मम सर्वस्वदायिन: । ज्ञानी त्वात्मैव मे मतम् तदायत्तधारणोऽहमिति मन्ये । कस्मादेवम्? यस्मादयं मया विनात्मधारणासंभावनया मामेवानुत्तमं प्राप्यमास्थित:, अतस्तेन विना ममाप्यात्मधारणं न संभवति । ततो ममात्मा हि स: ॥ १८ ॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवस्सर्वमिति स महात्मा सुदुर्लभ: ॥ १९ ॥
नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलमिदम्, यन्मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनमपि तु बहूनां जन्मनां पुण्यजन्मनामन्ते अवसाने, वासुदेवशेषतैकरसोऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश्च स चासङ्ख्येयै: कल्याणगुणगणै: परतर इति ज्ञानवान् भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यदपि यन्मनोरथवर्ंित स एव मम तत्सर्वमिति मां प्रपद्यते मामुपास्ते स महात्मा महामना: सुदुर्लभ: दुर्लभतरो लोके । वासुदेवस्सर्वमित्यस्यायमेवार्थ:, प्रियो हि ज्ञानिनोऽत्यर्थमहम्, आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् इति प्रक्रमात् । ज्ञानवांश्चायमुक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिराप: इत्यारभ्य, अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम् (५) इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसतोक्ता अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा । मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय॥ (७) इत्यारभ्य, ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ (१२) इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वै: प्रकारै: सर्वस्मात्परतरत्वमुक्तम् अत: स एवात्र ज्ञानीत्युच्यते ॥१९॥
तस्य ज्ञानिनो दुर्लभत्वमेवोपपादयति –
कामैस्तैस्तैर्हृातज्ञाना: प्रपद्यन्तेऽन्यदेवता: ।
तं तं नियममास्थाय प्रकृत्या नियता: स्वया ॥ २० ॥
सर्व एव हि लौकिका: पुरुषा: स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियता: नित्यान्विता: तैस्तै: स्ववासनानुरूपैर्गुणमयैरेव कामै: इच्छाविषयभूतै: हृतमत्स्वरूपविषयज्ञाना: तत्तत्कामसिद्ध्यर्थमन्यदेवता: मद्व्यतिरिक्ता: केवलेन्द्रादिदेवता: तं तं नियममास्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियममास्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते ॥ २० ॥
यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
ता अपि देवता मदीयास्तनव:, य आदित्ये तिष्ठन् … यमादित्यो न वेद यस्यादित्यश्शरीरम् (बृ.५.९) इत्यादि श्रुतिभि: प्रतिपादिता: । मदीयास्तनव इत्यजानन्नपि यो यो यां यां मदीयामादित्यादिकां तनुं भक्त: श्रद्धयार्चितुमिच्छति तस्य तस्याजानतोऽपि मत्तनुविषयैषा श्रद्धेत्यनुसन्धाय तामेवाचलां निर्विघ्नां विदधाम्यहम् ॥२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च तत: कामान्मयैव विहितान् हि तान् ॥ २२ ॥
स तया निर्विघ्नया श्रद्धया युक्तस्तस्य इन्द्रादेराराधनं प्रतीहते । तत: मत्तनुभूतेन्द्रादिदेवताराधनात्तानेव हि स्वाभिलषितान् कामान्मयैव विहितान् लभते । यद्यप्याराधनकाले, आराध्येन्द्रादयो मदीयास्तनव:, तत एव तदर्चनं च मदाराधनम् इति न जानाति तथापि तस्य वस्तुनो मदाराधनत्वादाराधकाभिलषितं अहमेव विदधामि॥२२॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥
तेषामल्पमेधसामल्पबुद्धीनामिन्द्रादिमात्रयाजिनां तदाराधनफलमल्पम्, अन्तवच्च भवति । कुत:? देवान् देवयजो यान्ति यत इन्द्रादीन् देवान् तद्याजिनो यान्ति । इन्द्रादयोऽपि हि परिच्छिन्नभोगा: परिमितकालवर्तिनश्च । ततस्तत्सायुज्यं प्राप्ता: तैस्सह प्रच्यवन्ते । मद्भक्ता अपि तेषामेव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजना: मां प्राप्नुवन्ति न च पुनर्निवर्तन्ते। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते (८.१६) इति हि वक्ष्यते ॥२३॥
इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्ववतारमप्यकिञ्चित्करं कुर्वन्तीत्याह –
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: ।
परं भावमजानन्तो मम अव्ययमनुत्तमम् ॥ २४ ॥
सर्वै: कर्मभिराराध्योऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभाव: परमकारुण्यादश्रित-वात्सल्याच्च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुरवरीर्ण इति ममैवं परं भावमव्ययं अनुत्तममजानन्त: प्राकृतराजसूनुसमानमित: पूर्वमनभिव्यक्तमिदानीं कर्मवशाज्जन्मविशेषं प्राप्य व्यक्तिमापन्नं प्राप्तं मां बुद्धयो मन्यन्ते । अतो मां नाश्रयन्ते न कर्मभिराराधयन्ति च ॥ २४ ॥
कुत एवं न प्रकाश्यत इत्यत्राह –
नाहं प्रकाश: सर्वस्य योगमायासमावृत: ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतोऽहं न सर्वस्य प्रकाश: । मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण मूढोऽयं लोको मामतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसं उपलभ्यमानमपि अजं अव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानमास्थितं नाभिजानाति ॥ २५ ॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्यहं वेद जानामि । मां तु वेद न कश्चन मयानुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु मामेवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा मामेव समाश्रयन्न कश्चिदुपलभ्यत इत्यर्थ: । अतो ज्ञानी सुदुर्लभ एव ॥ २६ ॥ तथा हि –
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ २७ ॥
इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति । एतदुक्तं भवति गुणमयेषु सुखदु:खादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनरपि जन्मकाल एव तदेव द्वन्द्वाख्यमिच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति तेन मोहेन सर्वभूतानि संमोहं यान्ति तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्सम्श्लेषवियोगसुखदु:खस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदु:खस्वभाव: न तत्स्वभावं किमपि भूतं जायते इति ॥ २७ ॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता: भजन्ते मां दृढव्रता: ॥ २८ ॥
येषां त्वनेकजन्मार्जितेनोत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्य-विरोधि च अनादिकालप्रवृत्तं पापमन्तगतं क्षीणम् ते पूर्वोक्तेन सुकृततारतम्येन मां शरणमनुप्रपद्य गुणमयान्मोहाद्विनिर्मुक्ता: जरामरणमोक्षाय, महते चश्वैर्याय, मत्प्राप्तये च दृढव्रता: दृढसङ्कल्पा: मामेव भजन्ते ॥ २८ ॥
अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषानुपादेयांश्च प्रस्तौति –
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय मामाश्रित्य ये यतन्ते, ते तद्ब्रह्म विदु:, अध्यात्मं तु कृत्स्नं विदु:, कर्म चाखिलं विदु: ॥ २९ ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदु: ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतस: ॥ ३० ॥
अत्र य इति पुनर्निर्देशात्पूर्वनिर्दिष्टव्योऽन्ये अधिकारिणो ज्ञायन्ते साधिभूतं साधिदैवं मामैश्वर्यार्थिनो ये विदु: इत्येतदनुवादसरूपमप्यप्राप्तार्थत्वाद्विधायकमेव तथा साधियज्ञमित्यपि त्रयाणामधिकारिणामविशेषेण विधीयते अर्थस्वभाव्यात् । त्रयाणां हि नित्यनैमित्तिकरूप-महायज्ञादि अनुष्ठानमवर्जनीयम् । ते च प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदु: । ते चेति चकारात्पूर्वे जरामरणमोक्षाय यतमानाश्च प्रयाणकाले विदुरिति समुच्चीयन्ते अनेन ज्ञानिनोऽप्यर्थस्वाभाव्यात् साधियज्ञं मां विदु:, प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुरित्युक्तं भवति ॥ ३० ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये सप्तमोऽध्याय: ॥७॥