॥ श्रीरस्तु ॥
।श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः।
। श्रीमते हयग्रीवाय नमः।श्रीमद्यामुनमुनये नमः । श्रीमते रामानुजाय नमः।
।श्रीमते निगमान्तमहादेशिकाय नमः।
श्रीभगवद्यामुनमुनिविरचितगीतार्थसंग्रहव्याख्या
कवितार्किकसिंहसर्वतन्त्रस्वतन्त्रश्रीमद्वेदान्तदेशिकविरचिता
॥श्रीमद्गीतार्थसंग्रहरक्षा ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी। वेदान्ताचार्यवर्थों मे सन्निधत्तां सदा हृदि ॥
मानत्वं भगवन्मतस्य महतः पुंसस्तथा निर्णयस्तिस्रस्सिद्ध्य आत्मसंविदखिलाधीशानतत्त्वाश्रयाः ।
गीतार्थस्य च संग्रहः स्तुतियुगं श्रीश्रीशयोरित्यमूलयग्रन्थाननुसन्दधे यतिपतिस्तं यामुनेयं नुमः॥१॥
श्रीमद्वेङ्कटनाथेन यथाभाष्यं विधीयते । भगवद्यामुनेयोक्तगीतासंग्रहरक्षणम् ॥ २ ॥
तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः । तत्त्वमेको महायोगी हरिर्नारायणः परः ॥ (भा. शा. ३४७, ८३)
आलोडय सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ।। (ना. पु. १८. ३४) इत्यादिभिस्तत्त्वहितरूपं समताध्यात्मशास्त्रार्थसारं महर्षयस्संजगृहुः । तदेतदुभयं सर्वोपनिषत्सारसङ्कलनात्मिकायां भगवद्गीतायां प्रतिपाद्यतया प्रदर्शयंस्तत्राप्युपनिषदां तत्त्वप्राधान्यस्य शारीरके सूत्रितत्वादिहापि तत्प्रधानतया व्यपदिशति ।।
॥ श्रीगीतार्थसंग्रहः ॥
स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥ १ ॥
स्वे धर्मा: स्वधर्माः-स्ववर्णाश्रमनियतशास्त्रार्थाः, स्वेस्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः । (१८.४५) इति हि गीयते । स्वस्य धर्म इति समासेऽप्ययमेवार्थः । ज्ञानमत्र परशेषतैकरसयथावस्थितात्मविषयम् । वैराग्यं: परमात्मव्यतिरिक्तेषु सर्वेषु विरक्तिः, परमात्मनि यो रक्तो चिरक्तोऽपरमात्मनि । (बार्ह. स्मृ.) इति मुभुक्षोः स्वभावप्रतिपादनात् । तथा च पातञ्जलयोगानुशासनसूत्रं- द्दष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (१. १५) इति । कर्मयोगपरिकरभूतस्यापि वैराग्यस्य पृथगुपादानमपवर्गस्य तदन्वयव्यतिरेकानुविधायित्वेन तत्प्राधान्य ज्ञापनार्थं कन्दभूतरागनिवृत्त्या तन्मूलक्रोधादिसमस्तदोषनिवृत्तिज्ञापनार्थं च । तत्र स्वधर्मज्ञानयोः प्रथमं कर्मयोगज्ञानयोगरूपेणावस्थितयोरात्मसाक्षात्कारद्वारा भक्तियोगाधिकारनिवर्तकत्वेन तत्साधकत्वम् । तदभिप्रायेणोक्तमात्मसिद्धौ– उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्यः इति । उत्पन्नभक्तियोगानामपि विशदतमप्रत्यक्षसमानाकारस्य। तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपस्य आप्रयाणादनुवर्तनीयस्य अहरहरभ्यासाधेयातिशयस्य भक्तियोगस्य सत्वविवृद्धिसाध्यतया तद्विरोधिरजस्तमोमूलभूतपापनिबर्हणद्वारेण सत्त्वोपचयहेतुतयोपकारकत्वादात्मयाथात्म्यज्ञानपूर्वकैः परित्यक्तफलसङ्गकर्तृत्वादिभिः परमपुरुषाराधनैकवे पैर्नत्यनैमित्तिककर्मभिर्भक्तेरुपचीयमानत्ववेषेण साध्यत्वम् । तदेतत्सर्वमभिसन्धायोक्तं भगवता पराशरेण -इयाज सोऽपि सुवहून् यज्ञान् ज्ञानव्यपाश्रयः। ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ।। इति । (वि. ६.६.१२) महनीयविषये प्रीतिर्भक्तिः । * [प्रीति] स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते (लै. उ. ९.१९) इति वचनमपि पूज्य विषयविशेषनियतं योज्यम् । सैव वेदनोपासनध्यानादिशब्दैरध्यात्मशास्त्रेषु मोक्षोपायविधिवाक्यैस्सामान्यतो विशेषतश्च प्रतिपाद्यते, गुरुलधुविकल्पानुपपत्तेः, सामान्यशब्दानां समानप्रकरणोक्तविशेषविश्रमे च संभवति द्वारिद्वारादिकल्पनायोगात् , विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् निदिध्यासितव्यः (वृ. ४. ४, ५, ६. ५, ६) इत्यस्य स्थाने विज्ञानशब्दश्रवणाश्च, परमपुरुषवरणीयताहेतुभूतगुणबिशेषवतैव लभ्यत्वश्रुतेश्च, तद्वरणरयास्मिन् शास्त्रे भक्त्यधीनत्वोक्तेश्च । एवं सति वेदनेतरमोक्षोपायनिषेधकश्रुतीनां भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टु च परन्तप ।। (गी. ११. ५४) इत्यादिस्मृतीनां चाविरोधः । तदेतदुक्तं भक्त्येकगोचर इति । भक्तेरेव गोचरो नान्यस्येत्यर्थः । एतेन कर्मसमुच्चयवाक्यार्थज्ञानादिपक्षाः प्रतिक्षिप्ताः । गोचरत्वमिह फलत्वेन ब्राह्मम् , * भक्त्येकलभ्ये पुरुषे पुराणे (गा. पू. २१९. ३४) इत्यादिभिरैकरस्यात् , भक्तियोगलभ्य इति स्वोक्तसंवादाश्च । उपायतया फलतया चैकस्यैवावलम्बनादैश्वर्याद्यर्थभक्तिव्यवच्छेदार्थं वात्रैकशब्दः । अत्र ह्यैश्वर्याद्यर्वाचीनपुरुषार्थग्रहणं भूमविद्यायामिव निरतिशयपुरुषार्थप्रतिपादनार्थम् । तदभिप्रायेण च भाष्यम्- परमपुरुषार्थलक्षणमोक्षसाधनतया बेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतभक्तियोगमवतारयामास (गी. १) इति । यद्वा निरतिशयैश्वर्ययुक्ततया भक्त्यर्हत्वमिह तद्गोचरत्वम् । ऐकान्तिकत्वादिव्यञ्जनाय त्वेकशब्दः । परावरज्ञं भूतानाम् (भा. मो. २२९. ७) इत्याद्युक्तपरावरतत्त्वनिश्चयेन अन्य भक्त्युन्मूलनादव्यभिचारेण अनन्यविषयत्वमैकान्तिकत्वम् । सातिशयनिरतिशयपुरुषार्थविवेकेन तदेकभोग्यतया उत्तरावधिराहित्यमात्यन्तिकत्वम् । कारणवाक्यस्थानां सह्ब्रह्मादिसामान्यशब्दानां समान प्रकरणमहोपनिपदादिपठिताबाधितासंभवद्गत्यन्तरनारायणादिविशेषशब्दार्थविश्रमं व्यञ्जयितुं–नारायणः परं ब्रह्मेति विशेषतस्सामान्यतश्च व्यपदेशद्वयम् । अनेनाविभक्तिकेऽपि नारायणानुवाकवाक्ये पूर्वापरवाक्यच्छायानुसाराच्छाखान्तरसविसर्जनीयपठनाञ्च व्यतत्यं व्यञ्जितम् । तेन च सर्वपरविद्योपास्यविशेषनिर्धारणार्थतया केवलपरतत्त्वप्रतिपादनपरनारायणानुवाकसिद्ध एवास्य शास्त्रस्य विषयः । तद्विभूतित्वेन विश्वमेवेदं पुरुषः (तै. ना.) इतिवत्समानाधिकरणतया तत्राम्नातानां ब्रह्मशिवेन्द्रादीनां नारशब्दार्थानामिहापि ब्रह्माणमीशम् (गी. ११.१५) इत्यादिभिस्तद्विभूत्येकदेशाश्रयत्वं प्रतिपाद्यत इति ख्यापितम् । उक्तं च स्तोत्रे स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः । ब्रह्मा शिवश्शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रुषुषस्ते ॥ (११) इति । संवित्सिद्धौ चे अद्वितीयश्रुतिव्याख्याने च दर्शितम्–यथा चोकनृपस्सम्राडद्वितीयोऽस्ति । इति तत्तुल्यनृपतिनिवारणपरं वचः ॥ न तु तत्पुत्रतद्भत्यकलत्रादिनिषेधकम् । तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः । क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः । ज्ञानादिषाङ्गण्यनिधेरचिन्त्यविभवस्य ताः । विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः ।। इति । पुरुषनिणये च एतत्यप्रपञ्चे ग्राह्यः । तदेतद्यपदेशद्वयं श्रियःपतिरित्यादिना प्रारम्भभाष्येण व्याकृतम् । अत एव हि तत्रापि- परं ब्रह्म पुरुषोत्तमो नारायणः इत्यन्तेन समभिव्याहृतम् । प्रपञ्चितमेतदस्माभिस्तात्पर्यचन्द्रिकायामिति नात्र विस्तृणीमहे । निर्विशेषणस्यैव ब्रह्मशब्दस्य काष्ठाप्राप्तबृहत्वबृंहहणत्वयोगिनि परमात्मन्येव योगरूढत्वेऽपि तस्मादन्यत्र जीवादौ तद्गुणलेशयोगादौपचारिकप्रयोगरूढेस्तद्यवच्छेदाय परम् इति विशेषितम् । एवमेव ह्यन्यत्रापि विशेष्यते । व्योमातीतवादिमतनिरासार्थं वा परत्वोक्तिः । गीतैव तत्त्वहितयोर्यथावच्छासनात् गीताशास्त्रम् । उपनिषत्समाधिना सिद्धव्यवहारनिरूढेः स्त्रीलिङ्गनिर्देशः । एतेन शास्त्रान्तरादस्य शास्त्रस्याधिक्यं व्यञ्जितम् । स्वयं च महाभारते महर्षिणोक्तम्– अनोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् (आ. १. २७९) इति । उक्तं चाभियुक्तैः- यस्मिन् प्रसादसुमुखे कवयोऽपि ये ते शास्त्राण्यशासुरिह तन्महिमाश्रयाणि । कृष्णेन तेन यदिह स्वयमेव गीतं शास्त्रस्य तस्य सदृशं किमिवास्ति शास्त्रम् ।। इति । पञ्चमवेदे चास्यांशस्य प्राधान्यमुद्धृत्यााहुः भारते भगवद्गीता धर्मशास्त्रेषु मानवम् । वेदेषु पौरुषं सूक्तं पुराणेषु च वैष्णवम् ।। (पा.) इति । समीरितः –सम्यगीरितः; अज्ञानसंशयविपर्ययप्रतिक्षेपेण परमप्राप्यत्व प्रापकत्वसर्वकारणत्वसर्वरक्षकत्व सर्वसंहर्तृत्वसर्वाधिकत्वसर्वाधारत्वसर्वनियन्तृत्वसर्वशेषित्व सववेदवेद्यत्वसर्वहेयरहितत्वसर्वपापमोचकत्वसर्वसमाश्रयणीयत्वादिभिः स्वभावैस्समस्तवस्त्वन्तरविलक्षणतया पुरुषोत्तमत्वेन प्रतिपादित इत्यर्थः । समन्वयसूत्रवन्निरतिशयपुरुषार्थत्वविवक्षया वा समित्युपसर्गः । एवमनेन श्लोकेन शास्त्रार्थः संगृहीतः॥१॥
ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते । आत्मानुभूतिसिद्धयर्थे पूर्वषट्केन चोदिते ॥ २॥
अथ त्रिभिः श्लोकैस्त्रयाणां पट्कानामर्थं संगृह्णाति ।। ज्ञानात्मिका निष्ठा ज्ञानयोगः, कर्मात्मिा निष्ठा कर्मयोगः । नितिष्ठत्यस्मिन्नर्थे अधिकर्तव्येऽधिकारीति निष्ठा, नियता स्थितिरेव वा निष्ठा, यावत्फलं स्थिरपरिगृहीतमुपायानुष्ठानमित्यर्थः । अनयोः स्वरूपं ब्यञयिष्यति कर्मयोगस्तपस्तीर्थे (गी. सं. २३) इत्यादिना । योगलक्ष्ये -योगसाध्यतया लक्ष्यम् उद्देश्यं ययोस्ते योगलक्ष्ये । अत्र कर्मनिष्ठया ज्ञाननिष्ठामारुह्य तया योगप्राप्तिरिति द्वैतीयः क्रमः । तार्तीयस्तु ज्ञाननिष्ठाव्यवधानमन्तरेण कर्मनिष्ठयैव यावद्योगारम्भं दृढपरिगृहीतया अन्तर्गतात्मज्ञानया शिष्टतया व्यपदेश्यानां लोकानुविधेयानुष्ठानानामितरेपामपि निष्प्रमादसुकरोपायसक्तानां थोगावाप्तिरिति । योगोऽत्रासनादिविशेषपरिकरवान् साक्षात्कारार्थम् आत्मावलोकनापरनामा चित्तसमाधानविशेषरूपो व्यापारः, तत्साध्यसाक्षात्कार एव वा । तेन स्मृतिसन्ततिविशेषरूपात् स्वकारणभूतज्ञानयोगात्स्वकार्यभूतादात्मानुभवाञ्च भेदः । सुसंस्कृते -परमात्माधीनत्वतप्रीत्यर्थत्वफलान्तरसङ्गराहित्यादि बुद्धिविशेषैः परिकर्मिते इत्यर्थः । आत्मानुभूतिसिद्धयर्थे-सुखमात्यन्तिकं यत्तत् (गी. ६.२१) इत्याद्युक्तप्रकारेण वैषथिकानन्दविलक्षणस्वेतरसमस्तवैतृष्ण्यावहसुखस्वभावप्रत्यगात्मसाक्षात्कारविशेषरूपसिद्धिविशेषप्रयोजने, इत्यर्थः । पूर्वषट्केन चोदिते -कर्तव्यतयाऽनुशिष्टे इति यावत् । तादर्थ्यादुपोद्धातरूपस्य प्रथमाध्यायस्य न त्वेषाम् (२. १२) इत्यतः पूर्वस्य द्वितीयाध्यायैकदेशस्य च तदनुप्रवेशवाचोयुक्तिः । आहुश्चोपोद्धातलक्षणं चिन्तां प्रकृतसिद्धयर्थामुपोद्धातं प्रचक्षते इति । एवमनेन श्लोकेन प्रथमषट्कस्यावरतत्त्वविषयव्यवहितोपायपरत्वमुक्तम् ॥२॥
मध्यमे भगवत्तत्वयाथात्म्यावाप्तिसिद्धये । ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥
अथ मध्यमषट्कस्य परतत्त्वविषयाव्यवहितोपायपरत्वमाह । पूर्वश्लोके समासस्थयापि षट्कशब्दस्यात्र बुद्धया निष्कृष्य विपरिणतस्यानुषङ्गः । भगवच्छब्दो मध्यमषट्कोक्त [सकल] निखिलजगदेककारणत्वनिर्दोषत्वकल्याणगुणाकरत्वयोगिनि परस्मिन् ब्रह्मणि प्रत्यक्षरं प्रकृतिप्रत्ययरूढिभिश्च भगवत्पराशरादिभिर्निरुक्तो द्रष्टव्यः । यस्यैष संग्रह: – तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ।। (वि. ६.५.७७) इति । अयं च ब्रह्मशब्दस्य परस्मिन्नेव मुख्यत्वे निदर्शनतया शारीरकभाष्यारम्भे दर्शितः भगवच्छब्दवत् इति। भक्तेषु भागवतसमाख्या च भजनीये भगवच्छब्दस्य नामधेयतां व्यनक्ति । भगवानेव तत्त्वं–भगवत्तत्वम् । तत्वमिह प्रामाणिकः पदार्थः । तत्वेन प्रवेष्टुम् (गी. ११. ४४) इत्यस्यार्थं व्यनक्ति– याथात्म्यावाप्तिसिद्धय इति । ऐश्वर्यादिपुरुषार्थान्तरोत्क्तेरन्यार्थत्वमनेन सूचितम् । याथात्म्यमत्र अनवच्छेदेन पुष्कलमनारोपितं रूपम् । अवाप्ति:–अनवच्छिन्नानन्दतयाऽनुभूतिः, सैव सिद्धिः पुरुषार्थकाष्ठारूपत्वात् । तस्या वा सिद्धिर्लब्धिः । ज्ञानकर्माभिनिर्वर्तये इत्यनेनन प्रथममध्यमषट्कयोः क्रमनियामकस्सङ्गतिविशेषस्सूचितः । तदनुसारेण सप्तमारम्भे भाष्यम्- प्रथमेनाध्यायषट्केन परभप्राप्यभूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतात्म भूतस्य सत्यसङ्कल्प महाविभूते: श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतमात्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र- यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। इत्यारभ्य, विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् । (गी. १८. ४६-५४) इति संक्षिप्य वक्ष्यत इति । भक्तिरेव योगः भक्तियोगः । योगस्सन्नहनापायध्यानसङ्गतियुक्तिषु (ना. शा. ३. १७९) इति पाठाद्योगशब्दोऽत्र उपायपरः । ध्यानपरत्वेपि सामान्य विशेषरुपताऽन्वयसिद्धिः । प्रकीर्तितः -स्वरूपत इतिकर्तव्यतातो विषयतः कार्यतश्च प्रकृष्टतया कीर्तित इत्यर्थः ।। ३ ।।
एवं षट्कद्वयोक्तनानाविधतत्त्वहितविशोधनपरं क्रमादन्तिमषट्कत्रिकद्वयमित्यभिप्रायेणाह प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् । कर्म धीभक्तिरित्यादिः पूर्वशेपोऽन्तिमोदितः ॥४ ॥
प्रधानं –कारणावस्थमचिद्व्यम् । पुरुषः अचिन्मिश्रावस्थो विशुद्धावस्थश्चाव्यक्तं तु महदादिविशेषान्तं, तदारब्धदेवतिर्यङ्मनुष्यादिरूपं च कार्यजातम् । सर्वेश्वरः- यो लोकत्रयमाविश्य विभर्तयव्यय ईश्वरः । (f. १५. १७) इत्युक्तः पुरुषोत्तमः । एतेनार्वाचीनपरिच्छिन्नेश्वरव्यवच्छेदः । समाख्या चैषा सार्था भगवतः, अजस्सवेश्वरस्सिद्ध इति तन्नामपाठात् । एतेषां विवेचनं –परस्परव्यावर्तको धर्मः । तेन वा पृथक्त्वानुसन्धानम् । कर्मधीर्भक्तिरिति कर्मयोगादीनां स्वरूपग्रहणम्, इति –निर्दिष्टपदार्थवर्ग: आदिः यस्य स इत्यादिः । आदिशब्देन तदुपादानप्रकारः तदुपयुक्तशास्त्रवश्यत्वादिकं च गृह्यते । पूर्वशेष इत्यनेन प्रकृतशोधनरूपतया पुनरुक्तिपरिहारः सङ्गतिप्रदर्शनं च । अयं श्लोकः त्रयोदशारम्भभाष्येण स्पष्टं व्याख्यातः-*पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम् मध्यमे च परमप्राप्यभूतभगवत्तत्वयाथात्म्यतन्माहात्म्यज्ञानपूर्वकैकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयितैश्वर्यापेक्षाणामात्मकैवल्यमात्रापेक्षाणां च भक्तियोगस्तत्तदपेक्षितसाधनमिति चोक्तम् । इदानीमुपरितने तु षट्के प्रकृतिपुरुपतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्वयोदिता विशोध्यन्ते-इति । अत्र त्रिकभेदविचक्षा च षोडशारम्भे दर्शिता- अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयोस्संसृष्टयोश्च याथात्म्यम् , तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुकत्वम् , सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वम् , विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपादव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यं च वर्णितम्-इति । तदत्र तृतीयषट्के तत्वविशोधनपरं प्रथमत्रिकम् । अनुष्ठानशोधनपरं द्वितीयमिति प्रायिकतयाऽयं विभागो ग्राह्यः ॥ ४ ॥
अस्थानस्नेहकारुण्यधर्माधर्म[भ]धियाऽऽकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्॥५॥
एधं शास्त्रार्थप्षट्कत्रयार्थश्च चतुर्भिश्लोकैस्संगृहीतः । इतः परमष्टादशभिः श्लोकैः प्रत्यध्यायमर्थास्संगृह्यन्ते । तत्र शोकतदपनोदनरूपकथावान्तरसङ्गत्या महर्षिणा प्रथमद्वितीयाध्यायविभागे कृतेऽपि शास्त्रतदुपोद्धातरूपार्थविभागज्ञापनाय द्वितीयैकदेशमपि प्रथमश्लोकेन संगृह्णाति । तद्यञ्जनाय च तमुवाच हृषीकेशः (२. १०) इत्यस्मात्पूर्वम् अर्थव्याख्यानपूर्वकमयं श्लोको भाष्यकारैरुदाहृतः- एवमस्थाने समुपस्थितस्नेहकारुण्याभ्यामप्रकृतिं गतं क्षत्रियाणां युद्धं परमधर्ममप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थमुद्दिश्य आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्युपायताज्ञानेन च विनाऽस्य मोहो न शाम्यतीति मत्वा भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् अस्थानस्नेहकारुण्यधर्माधर्माधियाऽऽकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् ।। इति । अस्थानशब्दोऽत्र स्नेहकारुण्याभ्यामेवान्वेतव्यः । धर्मेऽप्यधर्मधी: धर्माधर्मधीः ; शुक्तिकारजतधीरितिवत् । प्रकृतिभ्रंशहेतुतया निमित्तभूताभ्यामस्थानस्नेहकारुण्याभ्यां जाता धर्माधर्मधीः अस्थानस्नेहकारुण्यधर्माधर्मधीरिति अत्र भाष्याभिप्रायः । बन्धुस्नेहेन परया च कृपया धर्माधर्भभयेन च अतिमात्रसन्नसर्वाङ्गः इति प्रथमाध्यायान्तभाष्यानुसारेण धर्माधर्मभयाकुलम् इतिपाठे त्रयाणां द्वन्द्वः । धर्माधर्मभयं रज्जुसर्पभयमितिवत् । उद्दिश्य व्याज्ञीकृत्येत्यर्थः । तदेतत्सूचितमारम्भे पाण्डुतनययुद्धप्रोत्साहनव्याजेन इति । प्रपन्नत्वात्तमुद्दिश्यैवेति वा विवक्षितम् । तदपि सूचितम् अस्य मोहो न शाम्यतीति मत्वा इति । तदत्र तमुवाच (२. १०) इत्यादिश्लोकपर्यन्तो ग्रन्थः शास्त्रावताररूपः । तावत्संग्रहणायात्र श्लोके प्रथमाध्याय इत्यनुक्तिः । अस्ति ह्युत्तरेषु सप्तदशसु तत्तद्ध्यायग्रहणम् । अनन्तरे च संग्रहश्लोके न त्वेवाहं जातु नासम् (२. १२) इत्यादेरथमभिप्रेत्य द्वितीयग्रहणम् । स च द्वितीयान्ते व्याख्यानपूर्वक [मुदाहृतः] मुद्धृतः- एवमात्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनतामजानतश्शरीरात्मज्ञानेन मोहितस्य तेन चे मोहेन युद्धान्निवृत्त [स्या] स्य मोहशान्तये नित्यात्मविषया सांख्यबुद्धिस्तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोग [विषया] बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीयाध्याये प्रोक्ता । तदुक्तम्- नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ॥ इति ॥ ५ ॥
नित्यात्मसङ्गकर्मेहगोचरा सांख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये॥६॥
संख्यया- बुद्धयाऽवधारणीयमात्मतत्त्वं सांस्व्यम् , तद्विषयबुद्धिस्सांख्यधीः । नित्यात्मगोचरेति तद्विकरणम् । एवमत्र असङ्गकर्महाशब्देनापि योगशब्दार्थविवरणादपौनरुक्त्यम् । सांख्ययोगयो:-सांख्ययोगयोर्धीः । स्थितधीः.. स्थितप्रज्ञता, ज्ञाननिष्ठेत्यर्थः । सा साध्यत्वेन लक्षं यस्यास्सा तथोक्ता । तन्मोहशान्तये उपकारस्य अर्जुनस्य देहात्मादिभ्रमनिवृत्त्यर्थम् । एवं द्वितीयाध्यायोक्तस्य प्रपञ्चनरूपतया षष्ठान्तानां चतुर्णामेकपेटिकात्वम् । एकीकरणाथं तृतीयारम्भेऽनुभाषितम्—तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यां तदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभुतं य आत्मा अपहतपाप्मा (छा. ८. ९. १) इत्यादिप्रजापतिवाक्योदितं प्रातुरात्मनो याथाम्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिप्पाद्यज्ञानयोगसाध्यमुक्तम्-इत्यारम्य अत: परमध्यायचतुष्टयेन इदमेव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति–इति ॥ ६॥
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् । सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥ ७ ॥
असक्त्या —परमपुरुषप्रीतिव्यतिरिक्तस्वर्गादिफलसंगत्यागपूर्वकमित्यर्थः । लोकरक्षायै -अनुविधेयानुष्ठानस्य कृत्स्नविदस्स्वस्यानुष्ठानानुसन्धानेनाकृत्स्नविदश्शिष्टलोकस्य निष्प्रमादलुण्टाकरहितघण्टापथप्रवर्तनार्थमित्यर्थः । एतेन लोकसंग्रहशब्दो (गी. ३, २०) व्याख्यातः । एवं लोकरक्षणार्थं प्रवृत्तेरन्ततः स्वरक्षापर्यन्तत्वं भाष्योक्तम्- अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्राच्यावयेदिति । गुणेषु -सत्त्वरजस्तमस्संज्ञकेषु प्रकृतिगुणेष्वित्यविर्थः । आरोप्य कर्तृताम् -स्वस्य देशकालावस्थादिनियतविषयज्ञानचिकीर्षाप्रयत्नाश्रयत्वलक्षणां कर्तृतां गुणप्रयुक्ततया अनुसन्धायेत्यर्थः । तथा च भाष्यम् –गुणेषु कर्तृत्वानुसन्धानं चेदमेव ; आत्मनो न स्वरूपप्रयुक्तमिदं कर्तृत्वम् ; अपि तु गुणसंपर्ककृतमिति प्राप्ताप्राप्तविवेकेन गुणकृतमित्यनुसन्धानम् (३. २९) इति । मयि सर्वाणि कर्माणि (३. ३०) इत्यत्र अस्मच्छब्दाभिप्रेतं व्यनक्ति- सर्वेश्वरे वा न्यस्येति । गुणानां तदाश्रयस्य त्रिगुणद्रव्यस्य तत्संसृष्टस्य वियुक्तस्य च जीवस्य नियन्तरि भगवति तस्यास्तन्मूलत्वभावनया निवेश्येत्यभिप्रायः । सूत्रकारश्च कर्ता शास्त्रार्थवत्वात् (२.३.३३) इत्यादिभिरात्मनः कर्तृत्वमुपपाद्य अनन्तरं तस्य परमात्माधीनत्वं परात्तु तच्छ्रुतेः (२.३.४०) इत्याह । सर्वेश्वरे कर्तृत्वानुसन्धानप्रकारश्चैवं भाषितः-इदानीमात्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वमारोप्य कर्मकर्तव्यतोच्यते (गी. ३. ३०) इति । पिण्डितार्थश्च दर्शितः स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणैस्स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी सर्वेश्वरस्स्वयमेव स्वकर्माणि कारयति (३. ३०) इत्यादिना ।।
प्रसङ्गात्स्व स्वभावोक्तिः कर्मणोऽकर्मताऽस्य च । भेदाज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥८॥
स्वशब्देनावतीर्णावस्थो भगवानिह विवक्षितः, तस्य स्वभावः -स्वासाधारणो भावः । स्वस्वभावोक्तिरुच्यत इति ओदनपाकः पच्यत इतिवत् । क्रियत इत्यर्थः । कर्मणोऽकर्मता कर्मण्यकर्म यः पश्येत् (गी.४.१८) इत्यादिभिरुक्ता; अकमशब्दोऽत्र तदन्यवृत्त्या कर्मयोगासन्नात्मज्ञानविषयः । अस्य च भेदाः- दैवमेवापरे यज्ञम् (४. २५) इत्यादिनोक्ताः देवार्चनेन्द्रियनिरोधप्राणायामयागदानहोमतपस्तीर्थसेवास्वाध्यायतदर्थाभ्यासादिरूपा वर्णाश्रमधर्मेतिकर्तव्यताकाः, यथाज्ञानं यथाशक्ति यथारुचि प्रधानतया परिगृहीताः कर्मयोगावान्तरविशेषा इत्यर्थः । ज्ञानस्य माहात्म्यम् श्रेयान् द्रव्यमयाद्यज्ञात् (४, ३३) इत्युक्तं प्राधान्यम् । अयं च श्लोकः तृतीयसंगतिपूर्वकं चतुर्थारम्भे व्याख्यातः तृतीयेऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोस्सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणोऽपि अकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति सहेतुकमुक्तम् , [वि] शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् , चतुर्थेन इदानीमस्यैव कर्मयोगस्य निखिलजगदुद्धारणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा, अन्तर्गतज्ञानतयाऽस्यैव ज्ञानयोगाकारतां प्रदर्श्य, कर्मेयोगस्वरूपं तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते; प्रसंगाञ्च भगवदवतारयाथात्म्यमुच्यत इति । ईदृशं चावतारयाथार्थ्यमत्र निरमन्थि, निखिलहेयप्रत्यनीककल्याणैकतानस्यापि भगवतो जन्म नेन्द्रजालवन्मिथ्या, अपि तु सत्यम् , अवतरंश्च भगवानस्मदादिवन्न ज्ञानसंकोचादिमान् भवति, किंतु अजत्वाव्ययत्वसर्वेश्वरत्वादिकं सर्वं पारमेश्वरं स्वभावमजहदेव अवतरति ; न चावतारविग्रहोऽप्यस्य गुणत्रयमयः प्राकृतः, प्रत्युत अप्राकृतशुद्धसत्त्वमयः ; नचास्य जन्म पुण्यापुण्यरूपेण कर्मणा, अपि तु स्वेच्छयैव ; नवा कर्मविपाककाले अस्य जन्म, अपि तु धर्मग्लान्यधर्मोत्थानकाले; नापि भगवज्जन्मनः सुखदुःखमिश्राणि फलानि, अपि तर्हि साधुपरित्राणदुप्कृद्विनाशनधर्मसंस्थापनादीनीति; स्वरूपतः प्रकारतो द्रव्यतः कारणतः कालतः प्रयोजनतश्च दिव्यत्वम् , एवं ज्ञानवतश्चैकस्मिन्नेव जन्मनि उपायपूर्त्याऽनन्तरजन्मप्रतिषेधेन भगवत्प्राप्तिर्गीयते * जन्म कर्म च मे दिव्यम् (४.९) इत्यादिना । अत एव हि याचेतसपराशरपाराशर्यशुककशौनकादयः परमर्षयः प्रायस्तत्रैव निष्ठां भूयसीमाद्रियन्त इति ।।।८।।
कर्मयोगस्य सौकर्यं शैघ्रयं काश्चन तद्विधाः । ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ॥९॥
तृतीयचतुर्थाभ्यां यथांशं संगतिप्रदर्शनपूर्वकमयं श्लोकः पञ्चमारम्भे व्याख्यातः- चतुर्थेऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदः, ज्ञानांशस्य च प्राधान्यमुक्तम् । ज्ञानयोगाधिकारिणोऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात्सुकरत्वान्निरपेक्षत्वाञ्च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्रयं कर्मयोगान्तर्गताकर्तृत्वानुसन्धानप्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यत इति । सौकर्यस्यात्रानुद्धरणं पूर्वोक्तानुवादताज्ञापनार्थम् । सौकर्यशब्देनात्र सुखं बन्धात्प्रमुच्यते (५. ३) इत्यस्य हेतुर्दर्शितः । शैघ्रयं तु योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति (५, ६) इत्युक्तम् । अत्र विधाशब्द इतिकर्तव्यतापरः, तथा खलु नैव किंचित्करोमि (५. ८) इत्यादेरधिष्ठिका यतस्सौकर्याच्छैघ्रयाञ्च कर्मयोग एव श्रेयानतस्तदपेक्षितं शृण्विति । अकर्तृत्वानुसन्धानप्रकारशब्दोऽप्येतत्परः । ब्रह्मशब्दोऽत्र ब्रह्मसमानाकारशुद्धात्मविषयः । ज्ञानशब्दश्चात्र समदर्शनरूपज्ञानविपाकविश्रान्तः । प्रकारशब्दस्तु तद्धेतुभूतप्रकारार्थः । अत एव हि येन प्रकारेणावस्थितस्य कर्मयोगिनस्समदर्शनरूपो ज्ञानविपाको भवति, तं प्रकारमुपदिशतीत्युक्त्वा न प्रहृष्येत्प्रियं प्राप्य (५. २०) इत्यादिकमवतारितम् । षष्ठारम्भस्त्वेवं संगमितः उक्तः कर्मयोगस्सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिरुच्यते, तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगी योगशिरस्कोऽनूद्यत इति । एतेन योगी युञ्जीत (६.१०) इत्यतः पूर्वस्य ग्रन्थस्यानुवादरूपत्वात् संग्रहे नोपन्यास इति ब्यञ्जितम्।।९ ।।
योगाभ्यासविधियोगी चतुर्धा योगसाधनम् । योगसिद्धिस्वयोगस्य पारम्यं षष्ठ उच्यते ॥१०॥
ननु अत्र पञ्चार्थास्संगृहीताः भाष्ये तु कथमेकः ? इत्थम् । स्पर्शान्कृत्वा बहिबाह्यान् (५. २७) इत्यादिना पञ्चमे प्रस्तुतो योगाभ्यासविधिरेवात्र प्रपन्च्यत इति तत्प्रधानोऽयमध्यायः, तदनुबन्धाः प्रसङ्गादन्ये प्रतिपाद्यन्त इति । एतेनाध्यायान्तरेष्वप्यनेकानुबन्ध एकैकार्थः प्रधानतम इति सूचितम् । तद्यथा–श्रवणाधिकारी, तन्मोहशमनं, कर्मयोगकर्तव्यत्वम् , तदावान्तरभेदः, तदन्तर्गतज्ञानविपाकः, योगाभ्यासविधिः, प्रतिबुद्धप्राधान्यम्, त्रिविधाधिकारवेद्योपादेयविभागः, सप्रकारो]रको भक्तियोगः, गुणविभूत्यानन्त्यम् , चैश्वरूप्यदर्शनोपायः, भक्त्यारोहक्रमः, विशुद्धक्षेत्रज्ञ विज्ञानम्, जैगुण्यविशोधनम् , पुरुषोत्तमवैलक्षण्यम् , शास्त्रवश्यत्वम् , शास्त्रीयविवेचनम्, सारोद्धारः इति । अतोऽत्र योगाभ्यासविध्यनुबन्धत्वेन योगिचातुर्विध्यादिप्रदर्शनम् । योगी चतुर्धा– सर्वभूतस्थमात्मानम् (गी. ६. २९) इत्यादिश्लोक चतुष्टयोदितसमदर्शनचातुर्विध्यात् । तत्र ह्येवं भाष्यम्- अथ योगविपाकदशा चतुष्प्रकारोच्यत इति । एवं तत्र समदर्शनविपाकक्रमोऽभिप्रेतः, आत्मनां ज्ञानत्वानन्दत्वादिभिरन्योन्यसाम्यदर्शनम् , शुद्धावस्थायामहतपाप्मत्वादिभिरीश्वरेण साभ्यदर्शनम् , परित्यक्तप्राकृतभेदानामसंकुचितज्ञानैकाकारतया ईश्वरेण तदपृथक्सिद्धविशेषणत्वादिभिरन्योन्यं च साम्यदर्शनम् , औपाधिकैः पुत्रादिभिरसंबन्धसाम्यदर्शनं चेति । योगसाधनम् -अभ्यासवैराग्यादिकम् । योगसिद्धिः –योगभ्रष्टस्यापि प्रत्यवायविरहः; पुण्यलोकाद्यवाप्तिर्विच्छिन्नप्रतिसन्धानाद्यनुरूपविशिष्टकुलोत्पत्ति: अभिक्रमनाशाभावेन क्रमाच्छेषपूरणेनापवर्गाविनाभावः इत्येवंरूपा । खयोगस्य पारम्यम्-वक्तुर्भगवतो वासुर्देवस्य भजनरूपो योगोऽत्र स्वयोग: ; तस्य पारम्यं–स्वापेक्षयोत्कृष्टराहित्यम् । एतञ्च मध्यमषट्कप्रतिपाद्यमपि तत्प्रस्तावनारूपेण योगिनामपि सर्वेषामिति प्रथमषट्कान्तिम श्लोकेन दर्शितम् । तथा हि तत्र भाष्यम् तदेवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनमुक्तम् , अथ परविद्यां प्रस्तौतीति ।। १० ।|
स्वयाथात्म्यं प्रकृत्याऽस्य तिरोधिशशरणागतिः । भक्तिभेदः प्रबुद्धस्य श्रैष्ठयं सप्तम उच्यते ॥ ११ ॥
तत्र भाष्यम् – सप्तमे तावदुपास्यभूतपरमपुरुष [स्वरूप] याथात्म्यम्, प्रकृत्या तत्तिरोधानम् , तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदो ज्ञानिनश्श्रैष्ठयं चोच्यत इति । तत्र प्रकृतिशब्देन मम माया दुरत्यया (७. १३) इति मायाशब्दो व्याख्यातः । गुणमयोति विशेषणात् सैव हि विवक्षितेति गम्यते । श्रुतावपि असन्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरूद्धः इति प्रस्तुतयोर्मायातद्वतोः मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे. ४. ९) इति स्वयमेव विवरणाञ्च । अतो विचित्रसृष्ट्युपकरणवस्तुत्वात् प्रकृताविह मायाशब्दप्रयोग इति भावः । अष्टमारम्भसङ्गतौ चैतच्छ्लोकार्थः स्पष्टमभिहितः- सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वम् , निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम् , आधारत्वम् , सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम् , सर्वनियन्तृत्वम् , सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम् , सत्वरजस्तमोमयैदेहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैरनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम् , अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या च तन्निवर्तनम् , सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षया चोपासकभेदम् , भगवन्तं प्रेप्सोर्नित्ययुक्ततया एकभक्तितया च अत्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठयं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौपीदिति ।। ११ ।।
ऐश्वर्याक्षरयाथात्म्यभगवचरणार्थिनाम् । वेद्योपादेयभावानामष्टमे भेद उच्यते ॥ १२ ॥
अष्टमश्चैवमवतारित:- इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान्विविनक्तीति । तत्रैष संग्रहः । ऐश्वर्यमत्र इन्द्रप्रजापतिपशुपतिभोगेभ्योऽतिशयितभोगः, अक्षरयाथात्म्यम् -विविक्तात्मस्वरूपम् , वेद्यास्तु अक्षरं ब्रह्म परमम्(८.२) इत्यादिनोक्ताः शुद्धात्मस्वरूपप्रभृतयः, उपादेयास्तु तत्तदिष्टफलानुरूपपरमपुरुषचिन्तनान्तिमप्रत्ययगतिचिन्तनादयः, त एव भावाः -पदार्थाः, तेषां भेदः -तत्तदधिकारानुरूपो विशेषः ॥ १२ ॥
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् । विशेषो नवमे योगे भक्तिरूपः प्रकीर्तितः ॥ १३ ॥
खमाहात्म्यम् –मया ततमिदं सर्वम् (९. ४) इत्यादिभिः शोधितम् । अवजानन्ति मां मृदा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ (७. २४) इति परत्वस्य मनुष्यदशायामप्यव्ययत्वमुक्तम् । प्रस्तुतावतारविचक्षया मनुष्यावस्थत्वोक्तिः । तन्मुखेन सर्वेप्वप्यवतारेषु अन्ययः परमो भाव उपलिलक्षयिषितः । उक्तं च श्रीवत्सचिह्नमिश्रैः – परो वा व्यूहो वा विभव उत वाऽर्चावतरणो भवन्वाऽन्तर्यामी वरवरद यो यो भवसि वै । स स त्वं सन्नैशान्वरगुणगणान् बिभ्रदखिलान् भजद्भयो भास्येवं सततमितरेभ्यस्त्वितरथा ।। (व. स्त. १८) इति । महात्मानस्तु मां पार्थेत्यादिना (९.१३) महात्मनां विशेषो विशोधितः । अत्र भक्तिरूपस्य योगस्यैव प्राधान्यं भाष्योक्तम् उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः, इदानीमुपास्यस्य परमपुरुषस्य माहात्म्यं ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपमुच्यते इति ॥ १३ ॥
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः । भक्त्युत्पत्तिविवृद्धयर्था विस्तीर्णा दशमोदिता ॥ १४ ॥
अत्र नमसंगतिपूर्वकं भाष्यम् — भक्तियोगस्सपरिकर उक्तः, इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भगवतो निरङ्कुशैश्वर्यादिकल्याणगुणानन्त्यं कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपंच्यत इति । एका दशारम्भे च भाषितम् एवं भक्तियोगनिप्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतस्सर्वात्मत्वं, तत एव तद्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशदुपश्रुत्य एवमेवेति निश्चित्य तथाभूतं भगवन्तं साक्षात्कर्तुकामोऽर्जुन उवाचेति ॥ १४ ॥
एकादशे स्वयाथात्म्यसाक्षात्कारावलोकनम् । दत्तमुक्तं विदिप्राप्तयोर्भक्त्येकोपायता तथा ॥ १५ ॥
साक्षात्कारहेतुभूतमवलोकनं साक्षात्कारावलोकनम् , अवलोक्यतेऽनेनेत्यवलोकनमिह दिव्यं चक्षुः । विदिप्राप्त्योरिति दर्शनस्याप्युपलक्षणम् । तथा हि गीयते– भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। (११. ५४) इति । अयं तु संग्रहो द्वादशारम्भे सङ्गतिं विवक्षद्भिर्व्याख्यातः- भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कशैश्वर्यं साक्षात्कर्तुकामायार्जुनायानवधिकातिशयकारुण्यौदार्यसौशील्यादिगुणसागरेण सत्यसङ्कल्पेन भगवता स्वैश्वर्यं यथावदवस्थितं दर्शितम् , उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनामैकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् । इति ॥ १५ ॥
भक्तेश्रैष्ठयमुपायोक्तिरशक्तस्यात्मनिष्ठता । तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ॥ १६ ॥
अत्र च भाष्यम् – अनन्तरमात्मप्राप्तिसाधनभूतादात्मोपासनाद्भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्रयात्सुसुखोपादानत्वाञ्च श्रैष्ठ्यं भगवदुपासनोपायश्च तदशक्तस्याक्षरनिष्ठता तदपेक्षिताश्चोच्यन्त इति । अत्रातिप्रीतिभक्ते इत्यस्योपादानमुपसंहारमात्रताव्यञ्जनार्थम् । उपायोक्तिः- अथ चित्तं समाधातुम् (१२. ९) इत्यादिश्लोकद्वयेन कृता । भगवति चित्तं समाधातुमशक्तस्य भगवद्भुणाभ्यासस्तत्राप्यशक्तस्य प्रीतिपूर्वकभगवदसाधारणकर्मकरणम्, तस्मिन्नप्यसमर्थस्थात्मनिष्ठेति क्रमः । तत्प्रकाराः –कर्मयोगाद्यपेक्षिताः अद्वेष्टा सर्वभूतानाम् (१२. १३) इत्यादिनोक्त उपादेयगुणप्रकाराः । तथाच तत्र भाषितम्– अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणानाह इति । अतिप्रीतिर्भक्ते ये तु धर्म्यामृतमिदं यथोक्तम् (१२. २०) इत्यादिना अध्यायान्तिमश्लोकेनोक्ता । तदभिप्रेतं चैवमुक्तम् [त] अस्मादात्मनिष्ठाद्भक्तियोगनिष्ठस्य श्रैष्ठयं प्रतिपादयन्यथोपक्रममुपसंहरति इति ॥ १६ ॥
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् । बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥ १७ ॥
अत्र भाप्यम्-तत्र तावत्त्रयोदशे देहात्मनोस्स्वरूपं देहयाथात्म्यशोधनं देहवियुक्तात्मप्राप्त्युपायो विविक्तात्मस्वरूप[स]शोधनं तथाविधस्यात्मनश्चाचित्संबन्धहेतुस्ततो विवेकानुसन्धानकारश्चोच्यत इति । अत्र देहस्वरूपमित्येनेनैवाभिप्रेतं देहात्मनोस्स्वरूपमिति देहयाथात्म्यशोधनमिति च विवृतम् । आत्माप्तिहेतुः अमानित्वाम् (१३. ७) इत्यादिभिरुक्तः । आत्मविशोधनं- ज्ञेयं यत्तत्प्रवक्ष्यामि (१३. १२) इत्युपक्रम्य कृतम् । बन्धहेतुस्वु कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु (१३. २१) इत्युक्तः । धयानेनात्मनि पश्यन्ति (१३. २४) इत्यादिना बिकानुसन्धानप्रकारो यथाधिकारं दुर्शितः ।। १७ ।।
गुणबन्धविधा तेषां कर्तुत्वं तन्निवर्तनम् । गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥ १८ ॥
अत्र प्रकृतिविशोषधनरूपतया संगतिपूर्वकं भाग्यम्- त्रयोदशे प्रकृतिपुरुषयोरन्योन्यसंस्सृष्टयो: स्यापयाथायं विज्ञाय अमानित्वादिभिर्भगवद्भक्त्यनुगृहीतैर्बन्धान्मुच्यत इत्युक्तम्, तत्र बन्धहेतुः पृर्वपूर्वसत्वागुणमयसुखादिसङ्ग इति चाभिहितम्– कारणं गुणसंयोगोऽस्य सदसद्योनिजन्मनु (१३, २१) इति । अथैदानीं गुणानां बन्धहेतुताप्रकारो गुणनिवर्तनप्रकारश्चोच्यते इति । गुणकर्तृत्वादेरिह भाष्येऽनुक्तिः पूर्ववदेवेति भाव्यम् । सत्वं सुखज्ञानसङ्गेन बध्नाति ; रजस्तु कर्मसङ्गेन ; तमस्तु प्रमदालस्यनिद्राभिरिति बन्धहेतुताप्रकारः । तेषां कर्तृत्वं प्रागुक्तप्रकारेण प्राप्ताप्राप्तविवेकेन तेष्वारोपितम् , तञ्चात्र नान्यं गुणेभ्यः कर्तारम् (१४. १९) इति स्मारितम् । गुणनिवर्तनप्रकारस्तु मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ (१४. २६) इत्यन्तेनोक्तः । अत एवात्र गतित्रयस्वमूलत्वमित्येतत् ब्रह्मणो हि प्रतिष्ठाऽहम् इत्यध्यायान्तिमश्लोकोक्तमेव संगृह्णाति । तत व हि तत्रैवं भाषितम् पूर्वत्र दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।। (७, १४) इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैश्वर्यभगत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वादेकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः, तत्पूर्वकब्रह्मभावश्च (१४. २७) इति । अवें गच्छन्ति (१४. १८) इत्याद्युक्ततगतित्रयविवक्षायां तु संग्रहक्रमभङ्गस्यात् ॥ १८ ॥
अचिन्मिश्राद्विशुद्धाञ्च चेतनात्पुरुषोत्तमः । व्यापनाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः ॥ १९ ॥
अत्र अचिन्मिश्राद्विशुद्धाञ्च इत्यस्य सूचनीयां सङ्गतिं विवृण्वन् क्षराक्षरशब्दव्याख्यानतां व्यनक्ति– क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोस्स्वरूपं विशोध्य विशुद्धस्थापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषरम प्राकृतगुसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धोऽनादिरित्युक्तम् , अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम् । इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमत्तां विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेयप्रत्यनीककल्याणैकतानतयात्यन्तोत्कर्षण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुमारभते इति । अत्र व्यापनभरणस्वाम्यानि यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः (१५. १७) इति प्रतिपादितानि । एवं प्राधान्यतश्चिदचिदीश्वररूपतत्त्वत्रयविशोधनं क्रमादध्यायत्रयेण कृतमित्यनुसन्धेयम् ॥ १९ ॥
देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता । तत्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥ २० ॥
अत्र पूर्वोत्तरसमस्तप्रतिष्ठापकष्षोडशाध्यायार्थस्संगृह्यते । एतदभिप्रायेण भाष्यम् — अनन्तरमुक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर्दैवासुरसर्गयोः विभागं श्रीभगवानुवाच इति । अत एव सप्तदशमवतारयन्नेवमन्वभाषत दैवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलमित्युक्तम् इति । अत्र शास्त्रवश्यता- तस्माच्छास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।। इति अध्यायान्तिमश्लोकेनोक्ता ॥ २० ॥
अशास्त्रमासुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् । लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥ २१ ॥
अत्र भाष्यम्- इदानीमशास्त्रविहितस्यासुरत्वेन अफलत्वं शास्त्रविहितस्य च गुणतस्त्र्यैविध्यं शास्त्रसिद्धस्य लक्षणं चोच्यते इति । शास्त्रं यस्य विधायकत्वेन नास्ति तदशास्त्रमित्यभिप्रायेणाशास्त्रविहितस्येत्युक्तम् । ओं तत्सदिति (१७. २३) शास्त्रसिद्धस्य त्रिविधं लक्षणमुक्तम् ॥ २१ ॥
ईश्वरे कर्तृताबुद्धिस्सत्वोपादेयताऽन्तिमे । स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥२२ ॥
तदेतत्पूर्वाध्यायसंगतिप्रदर्शनपूर्वकं व्याचष्टे. अतीतेनाध्यायद्वयेन अभ्युदयनिश्श्रेयससाधनभूतं वैदिकमेव थज्ञतपोदानादिकं कर्म, नान्यत् , वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रगवान्वयः, तत्र मोक्षाभ्युदयसाधनयोर्भेदस्तत् -सच्छब्दनिर्देश्यत्वेन, मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम् , तदारम्भश्च सत्त्वोद्रेकाद्भवति, [सत्त्वोद्रेकश्च] सत्त्ववृद्धिश्च सात्त्विकाहारसेवयेत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसन्यासयो रैक्यम् , त्यागस्य च स्वरूपं भगवति सर्वेश्वरे [च] सर्वकर्मणां कर्तृत्वानुसन्धानं, सत्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वं, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य च गीताशास्त्रस्य सारार्थो भक्तियोगः इत्येते प्रतिपाध्यन्ते इति । अत्र त्यागसन्यासशब्दावेकार्थाविति भगवदुक्तेनोत्तरेण ख्यापितम् । भाष्ये सर्वेश्वरे कर्तृत्वानुसन्धानं च। दैवं चैवात्र पञ्चमम् (१८.१४) इत्यत्रैव दर्शितम्- अत्र–कर्महेतुकलापे, दैवं पञ्चमम्-परमात्माऽन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः । उक्तं हि सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च (१५. १५) इति । वक्ष्यति च ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ (१८. ६१) इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वं परात्तु तच्छ्रुतेः (ब्र. २. ३. ४०) इत्युपपादितम् । नन्वेवं परमात्मायते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवतीति विधिनिषेधशास्त्राण्यनर्थकानि स्युः । इदमपि चोद्यं सूत्रकारेणैव परिहृतम् कृतप्रयत्नापेक्षस्तु विहिप्रतिषिद्धावैयर्थ्यादिभ्यः (२. ३. ४१) इति । एतदुक्तं भवति-परमात्मना दतैस्तदाधारैश्च करणकलेबरादिभिस्तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस्तदाहितशक्तिस्सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं प्रयत्नं चारभते । तदन्तस्वस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्धयैव प्रवृत्तिहेतुत्वमस्ति । यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेनीति । तत्र शास्त्रसारार्थः सर्वगुह्यतममित्यादिना सादरं संमुखीकृत्य मन्मना भव मद्भक्तः, सर्वधर्मान् परित्यज्य (५८.६६) इति श्लोकद्वयेन शिष्टः । चरमश्लोकार्थश्च तात्पर्यचन्द्रिकायाँ निक्षेपरक्षायां चास्माभिः यथाभाष्यं यथासंप्रदायं च समस्तपरपक्षप्रतिक्षेपपूर्वकमुपपादितः । तत्रायमस्मदीयसंग्रहः सुदुष्करेण शोचेद्यो येन येनेष्टहेगुना । स स तस्याहमेवेति चरमश्लोकसंग्रहः ॥ इति । सारार्थों भक्तियोग इति भाष्यं त्वङ्गाधिकारे प्रपतिं प्रत्यपि भक्तेरङ्गित्वेन प्राधान्यात् ।। २२ ।।
कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनन् । ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥ २३ ॥
अथ दशभिश्लोकैस्सुत्वग्रह्णाय कर्मयोगज्ञानयोगभक्तियोगादीनां स्वरूपादिकं विविनक्ति । तत्र कर्मयोगस्य लक्षणं पूर्वमेव दर्शितमिति कृत्वा तत्तदधिकारिणां ज्ञानशक्तियोग्यतानुगुण्येन यथाधिकारं परिग्रहार्थं चतुर्थाक्तानवान्तरभेदाननुक्तानपि सर्वानादिशब्देन संगृह्णन्नुदाहरति । आफलोदयं सादरं निरन्तरपरिग्रदोऽत्र सेवनम् ।। अथ तत्साध्यस्य ज्ञानयोगस्याधिकारिप्रदर्शनपूकं लक्षणमाह । निरन्तरचिन्तनरूपेणेति शेषः । तेन तत्फलदुपायज्ञानाभ्यां व्यवच्छेदः ॥ २३ ।।
भक्तियोगः परैकान्तग्रीत्या ध्यानादिषु स्थितिः । त्रयाणामपि योगानां त्रिभिरन्योन्यसङ्गमः ॥ २४ ॥
अथान्तरङ्गैस्सह भक्तियोगं लक्षयति । परस्मिन् ब्रह्मण्येकान्तेन प्रीतिः परैकान्तप्रीतिः । तेन महनीयविषये प्रीतिः भक्तिरिति लक्षणं सूचितम् । स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते (लै. उ. ९. १९) इत्याद्यनुसारेण लक्ष्यस्वरूपं ध्यानशब्देनोक्तम् । आदिशब्देनार्चनप्रणामाद्यन्तरङ्गवर्गसंग्रहः । उक्तं च वेदार्थसंग्रहे अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थ:-जीवपरयाथात्म्यज्ञानपूर्वकवर्णाश्रमधमेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रियस्तत्प्राप्तिफलः । इति । ननु-कर्मयोगेऽप्यात्मज्ञानमाराध्यप्रीतिश्चानुवर्तते, ज्ञानयोगेऽप्यन्त:करणशुद्धयर्थं नियतं कर्म न त्याज्यम् , तदाराध्येश्वरभक्तिश्च । एवं भक्तियोगेऽपि तदितरानुवृत्तिस्सिद्धा ; अतो विभागानुपपत्तिरित्यत्राह । प्रधानभूते कस्मिंश्चित्क्षीरशर्करान्यायेन गुणतया इतरानुप्रवेशो न विभागभञ्जक इति भावः ॥२४॥
नित्यनैमित्तिकानां च पराराधनरूपिणाम् । आत्मदृष्टेस्रयोऽप्येते योगद्वारेण साधकाः ॥ २५ ॥
नन्वेवं परैकान्तप्रीतिस्रिष्वपि समाना, । ऐकान्त्यं चानन्यदेवताकत्वपर्यन्तम् । यथोक्तं मोक्षधर्मे ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम् । (३५०.३६) इति । अश्वमेधिके च अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः । मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः ।। (१०४, ९१) इति । ततश्चाग्नीन्द्रादिनानादेवतासंकीर्णानां वर्णाश्रमधर्माणामैकान्त्यविरोधात् त्रिष्वपि योगेषु तत्परित्यग: प्राप्त इत्पत्राह । अत्र त्रिभिसंगम इत्यर्थतो बुद्धया विभज्यान्वेतव्य[:]म् । अयमभिप्राय:-नियतस्य (गी. १८.७) यतःप्रवृत्तिः (गी. १८.४६) आचारप्रभवः (भा. आनु. २५४. १३९) वर्णाश्रमाचारवता (वि. ३, ८. ९) इत्यादिभिर्वणाश्रमधर्मेतिकर्तव्यताकत्वसिद्धेः, अग्नीन्द्रादिशब्दानामपि प्रतर्दनविद्यान्यायेन तच्छरीरकपरमात्मपर्यन्तत्वानुसन्धानात् साक्षादप्यविरोधं जैमिनिः (ब्र. १. २. २९) इति न्यायेन यज्ञाग्रहराध्यायोक्त (भा, मो, ३४९) प्रक्रियया च साक्षात्प्रतिपादकत्वेन वा तत्तत्कर्मणामपि परमपुरुषाराधनत्वसंभवात् , तदनुष्ठातुरनन्याराधकत्वसिद्धेरैकान्त्यं प्रतिष्ठितमिति । एतेन कर्मयोगेऽपि नित्यनैमित्तिकानामितिकर्तव्यतात्वं सूचितम् । तथा सर्वेऽप्येते यज्ञविदः (४. ३०) इति श्लोके भाष्यम्- [दैव] द्रव्ययज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे सह यज्ञैः प्रजास्सृष्ट्वा (३.१०) इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदस्तन्निष्ठास्तत एव क्षपितकल्मषा यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोगे व्यापृतास्सनातनं ब्रह्म यान्तीति । एवं बहुविधा यज्ञाः (४.३२) इत्यत्र चोक्तम्– एवं हि बहुप्रकाराः। कर्मयोगाः ब्रह्मणो मुखे वितता:-आत्मयायाथात्म्यावाप्तिसाधनतया स्थिताः । तानुक्तलक्षणानुक्तभेदान्कर्मयोगान् सर्वान् कर्मजान् विद्धि—अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान् विद्धीति । भोक्तारं यज्ञतपसाम् (५.२९) इति श्लोकमवतारयंश्चैवमाह- उक्तस्य नित्यनैमित्तिककमें तिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकतामाहेति ।
अथ त्रयाणां योगानां परभक्तिजनने प्रत्यगात्मदर्शनरूपमवान्तरव्यापारं सहेतुकमाह- आत्मेति । योगोऽत्र समाधिरूपमन्तःकरणैकाग्रयम्, तत्साध्यसाक्षात्कारो दृष्टिः । ननु यद्यपि कर्मयोगस्य ज्ञानयोगव्यवधानमन्तरेणापि
आत्मावलोकनसाधनत्वं पूर्वमेवोक्तम् ; तथाऽपि भक्तियोगस्य तत्साधकत्वमयुक्तम्, तस्यात्मावलोकनपूर्वकत्वादिति चेत्, मैवम् ; भक्तिनिष्ठाया एव पवभेदेन सर्वोपपत्तेः ज्ञानदर्शनप्राप्तीनामविशेषेण भक्तिसाध्यत्वमुच्यते । तञ्च पर्वभेदमन्तरेण नोपपद्यते । अत एव ह्यात्मावलोकनानन्तरं मद्भक्तिं लभते पराम् (१८. ५४) इतिं परशब्देन विशेष्यते । अत आत्मावलोकनरहितस्याप्यद्यतनभक्तानामिव स्तुतिनमस्कारकीर्तनादिनिष्ठया सेवारूपत्वादभिव्यक्तया भक्तिशब्दाभिलप्यय आत्मावलोकनमुपपद्यते । दर्शितश्च परावरभक्तिविभागो वेदार्थसंग्रहै- सोऽयं परब्रह्मभूतः पुरुषोत्तमः निरतिशयपुण्यसञ्चयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदाभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपश्शौच क्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेपनित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्ठस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतियतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तम प्रसादविध्वस्तस्वान्तध्वान्तस्य अनन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः । तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपादैः- उभयपरिकर्मितस्वान्तस्य ऐेैकान्तिकात्यन्तिकभक्तियोगलभ्यः (आ. सि) इतीति ॥२५॥
निरस्तनिखिलाज्ञानो दृष्ट्वाऽऽत्मानं परानुगम् । प्रतिलभ्य परां भक्तिं तयैवाप्नोति तत्पदम् ॥ २६ ॥
एवं यथाधिकारे परिगृहीतैस्रिभिरात्मावलोकनसिद्धिद्वारा परभक्त्युत्पादनप्रकारं परभक्तेरेव प्रकृष्टायाः परमप्राप्तिसाधनत्वं च दर्शयति-निरस्तेति ।। उपायविरोधिसर्वज्ञाननिवृत्तिरिह निरस्तनिखिलाज्ञान इत्यनेन विवक्षित।। परानुगम् -परानुचरं, परशेषतैकरसमित्यर्थः । यथोच्यते नायं देवो न मर्त्यो वा न तिर्यक् स्थावरोऽपि वा । ज्ञानानन्दमयस्त्वात्मा शेपो हि परमात्मनः ।। इति । आह च सर्वज्ञो मन्त्रराजपदस्तोत्रे- दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ।। इति । प्रतिलभ्य-परमात्मसकाशात्प्राप्येत्यर्थः । तयैवपरमभक्तिरूपविपाकापन्नयेति शेषः । अत्र एकारेण नैरपेक्ष्यमव्यवहितत्वं च सूच्यते । तत्पदं तञ्चरणम् , पद्यत इति व्युत्पत्या पदं मुक्तप्राप्यतया सिद्धं परमपुरुषस्याप्राकृतं स्थानम् , स्वरूपं वा । तदेतत् श्लोकद्वयेन गीयते– ब्रह्मभूतः प्रसन्नात्मा न शोचति नो काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ।। भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ (१८. ५४, ५५) इति ॥ २६ ॥
भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधकः । आत्मार्थी चेत् त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥ २७ ॥
एवं भक्तेर्मोक्षसाधनत्वमुक्तम् , सैव मध्यमषट्कोक्तप्रकारेणाचिद्द्व्यपरिणामविशेषानुभवरूपस्यैश्वर्यस्यापि साधिकेत्याह–भक्तीति । एकस्य कथं परस्परविरुद्धयोर्बन्धमोक्षयोस्साधनत्वमित्यत्रोक्तम्-तदर्थी चेदिति । एकस्यैव तत्फलरागवशाद्विचित्रफलसाधनत्वं सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः इत्यादिष्वपि प्रसिद्धम् । ब्रह्मादिप्रदेयैश्चर्येभ्यः समधिकत्वमिह समग्रत्वम् । दृष्टं च लोके सम्राट्सामन्तसेवयोस्सिद्धितारतम्यम् । न च हिरण्यगर्भादयो हिरण्यगर्भदिपदं प्रदातुं प्रभवन्ति, स्वयमेव ह्युक्तं ब्रह्मणा प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् (रा. उ. १०४. ७) इति । अन्यत्र चोक्तम्- युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुमः ।। (इति. स. १४, ८) इत्यादि । रौद्रस्यापि पदस्य भगवत्समाराधनप्राप्तत्वमाम्नायते – अन्य देवस्य मीढुषो वया विष्णोरेपस्य प्रभृथे हविर्भः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ।। (ऋ ५ अ. ४ अ. ७. व) इति । अस्य स्वेतरसमस्तव्यावृत्तातिशयतया श्रुत्यादिप्रसिद्धस्य, देवस्य – अनितरसाधारणात्यद्भुताप्रतिहतक्रीडाविजिगीषाव्यवहारध्युतिस्तुतिप्रभृतिनित्यनिरवद्यनिरतिशयान [न्द] न्तमङ्गलगुणमहोदधेः । मीढुषः- मिह सेचने, सेक्तुः दातुः ; उदारस्येत्यर्थः । वय:– अवयवतया शाखाभूतः, शरीरतयाऽङ्गभूत इत्यर्थः । वयाश्शाखा इति यास्कः । विष्णोः-सर्वव्यापनशीलतया सर्वान्तर्यामिभूतस्य नारायणस्य । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णम् (ना.) इति हि श्रयते । एषस्य एषणीयस्य, प्रार्थनीयस्य, अभिमतफलार्थं याचनीयस्येत्यर्थः । [प्रभृथे] अवभृते हविर्भिः सर्वमेधाख्ये यागे विष्णवे समर्पितैः स्वात्मपर्यन्तैर्हविर्भिः, विदे हि, विदे-लेभे, हीति–हेतौ, प्रसिद्धौ वा । रुद्रियं-रुद्रस्य संबन्धि, स्वसंबन्धीत्यर्थः । यद्वा ब्रह्मरुद्रेन्द्रादीनां प्रवाहानादित्वात् रुद्रजातिसंबन्धितया प्रथितम् । महित्वं-महिमानमित्यर्थः । एतदुपवृह्णाभिप्रायेण चोक्तं महाभारते-* महादेवस्सर्वमेधे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव (रा. २०. १२) इति । एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टिसंहारकारिणौ ॥ (भा, मो. ३४२. १९) इत्यादिभिश्च सर्वत्रायमर्थः प्रसिद्ध, इत्यलं विस्तरेण । एवमचित्तत्त्वानुभवरूपैश्वर्यसाधकत्वं भक्तरुक्तम् , अथ चेतनरूपात्मतत्त्वानुभवरूपार्वाचीनकैवल्यस्य साधनत्वं तस्याः प्रदर्शयन् ज्ञानयोगकर्मयोगयोरप्यर्थस्वभावात्परमपुरुषप्रीतिद्वारेण तत्साधनत्वं युक्तमित्यभिप्रायेणाह-आत्मेति । अचिदनुभवादीश्वरानुभवाञ्च विविक्तस्वरूपोऽनुभव इह तकैवल्यशब्देन विवक्षितः । अत्र च वक्तव्यं सर्वं तात्पर्यंचन्द्रिकायां प्रपञ्चितमस्माभिः ॥ २७ ॥
ऐकान्त्यं भगवत्येषां समानमधिकारिणाम् । यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तमश्नुते ॥ २८ ॥
एवमतिशयितैश्वर्यकैवल्यभगवत्प्राप्तयर्थिनामधिकर्तव्याया भक्तेसारभूतं साधारणं रूप निष्कर्षयति । ऐकान्त्यमिति ॥ ऐकान्त्यमत्रानन्यदेवताकत्वम् । चतुर्विधा मम जना भक्ता एव हि ते [म]स्मृताः । तेषामेकान्तिनश्श्रेष्ठास्ते चैवानन्यदेवताः ॥ (भा. आश्व.) इत्यनुगीतावचनम् ज्ञानिनामैकान्त्यस्य नित्यत्वाभिप्रायेण । अत्र तु यावत्स्वाभिमतफललाभमैकान्त्यं समानमित्युच्यते । एतेन कर्मयोगज्ञानयोगावस्थयोरव्यैकान्त्यं सिद्धम् ; सर्वत्र भगवत्प्रपत्तिपूर्वकत्वावश्यंभावात् । एवमचिदनुभवात्स्वानुभवाञ्च विलक्षणमोश्वरानुभवमभ्यर्थयमानस्याधिकार्यन्तरव्यावृत्तात्यन्तिकत्वलक्षणभक्तिवैशिष्ट्याव्यवधानेनात्यन्तिकतत्प्राप्तिमाह- यावदिति ॥ फलान्तरसङ्गरूपान्तरायानुपहतश्चेदव्यवधानेन भगवन्तं प्राप्य पुनस्संसारं न प्राप्नोतीत्यर्थः । पदाभिप्रायेण तदिति नपुंसकत्वम् ॥२८ ॥
ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः । तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥ २९ ॥
अथ ये तु शिष्टास्रयो भक्ताः फलकामा हि ते मताः । सर्वे च्यवनधर्माणः प्रतिवुद्धस्तु मोक्षभाक् ॥ (भा. मो. ३४२. ३५) इत्यनुगीतस्य यावत्प्राप्ति परार्थी चेत् (गी. सं २८) इत्युक्तस्याधिकारिणोऽनन्यसाधारणं विशेषमनुष्ठानफलप्राप्तयोश्च प्रकारं तत्रैव च तात्पर्येणास्य शास्त्रस्यापवर्गशास्रत्वं चतुर्भिर्विवृणोति–ज्ञानी त्विति । एतेन ज्ञानी त्वात्मैव मे मतम् , (७. १८) मच्चित्ता मद्गतप्राणाः (१०. ९) इत्यादिकं स्मारितम् । परमश्चासावेकान्ती चेति परमैकान्ती, एकान्तिषु उत्तम इत्यर्थः । परम एकान्तोऽनन्यत्वमस्यास्तोति वा । न केवलमनन्यदेवताकत्वम् , अपि त्वनन्यप्रयोजनत्वमप्यस्यास्तीत्यर्थः । संश्लेषोऽत्र मनोवाक्कायसाध्यतदभिमतशास्त्रचोदितसपर्यामुखेन । वियोगोऽपि तद्विच्छेदः । यदाहुर्महर्षयः यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिदं सा भ्रान्तिस्सा च विक्रिया ।। एकस्मिन्नप्यतिक्रान्ते मुहूते ध्यानचर्जिते । दस्युभिर्मुषितेनेच युक्तमाक्रन्दितुं भृशम् ।। इति । तस्मिन्नेव धीश्चिन्ता यस्य तदेकधीः ॥ २९ ॥
भगवद्धयानयोगोक्ति वन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥ ३० ॥
| ध्यानमिहानुचिन्तनम् । योगः-तन्मूलमवलोकनम् , विशिष्टक्षेत्रादिवर्तिनः परस्याभिगमनं वा । यदाहुः- पादौ । नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ (भाग. २. ३. २२), योगस्तु द्विविधः प्रोक्तो बाह्यमाभ्यन्तरं तथा । बाह्यं बहिःक्रियापेक्षमान्तरं ध्यानमुच्यते ।। इति । उक्ति:-शुश्रुषुभ्योऽधिकारिभ्यः प्रतिपादनम् । वन्दनम् -त्रिभिः करणैः प्रणाम इत्यर्थः । स्तुतिः –गुणकथनम् । कीर्तनम् -तत्तद्गुणविभवचेष्टितादिगर्भाणां तदसाधारणनामधेयानां संकीर्तनम् । तैर्लब्धात्मा –अन्यथा अवस्तुभूतमात्मानं मन्यमान इति भावः ; प्रशिथिलकरणकलेबरादिको भवेदिति वा । प्राणादीनां क्रियायास्तद्गतत्वं तदनुभवाभावे शैथिल्यादिति भाव्यम् । अथवा यत्करोषि यदश्नासि (गी. ९. २७) इति न्यायेन स्वभावार्थशास्त्रप्राप्तानां कर्मणां भगवति समर्पणम् । मनः -संकल्पविकल्पवृत्तिकमन्तःकरणम्, तस्याध्यवसायात्मिका वृत्तिः– बुद्धिः । यद्वा, तदेवात्राध्यवसायवृत्तिविशिष्टं बुद्धिरित्युच्यते । यथोक्तं शारीरकभाष्ये अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एवबुद्धयहंकारचित्तशब्दैः व्यपदिश्यते (२. ४, ५) इति । इन्द्रियशब्दोऽत्र गोबलीवर्दन्यायाद्बाह्येन्द्रियविषयः ।। ३० ॥
निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः । उपायतां परित्यज्य न्यस्येद्देचे तु तामभीः ॥३१॥
एवंविधस्याधिकारिणः, सततं कीर्तयन्तो माम् (९. १४) इत्युक्तप्रक्रियया वर्णाश्रमधर्माणामपि लोपस्स्यादित्यत्राह–निजकर्मेति । नित्यदास्यैकस्वभावस्य मुक्तस्येवास्यापि तत्परिचरणं तदाज्ञानुवर्तनप्रीत्यैव यथाशास्त्रं यथाधिकारं यथावसरं च सर्वं घटते । अन्यथा- सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु (द. स्मृ) इत्यादिभिर्भगवदर्चनादावप्यनधिकारप्रसङ्गात् । तस्माद्योग्यतासिद्धयर्थं लब्धांशस्य शैथिल्यपरिहारार्थमुत्तरोत्तरोपचयार्थं सुदृढसिद्धोपायस्यापि स्वानुष्ठानेन परप्रवर्तनरूपभगवदाज्ञानुपालनार्थमवश्यकर्तव्यानामपि कर्मणां विधिपरामर्शमन्तरेण प्रियतमसुहृत्पुत्राद्युपलालनवत्प्रीतिरेव ज्ञानिनः प्रयोजिकेति भावः । तथा च शिष्यते- यथा युवानं राजानं यथा च मदहस्तिनम् । यथा प्रियातिथिं योग्यं भगवन्तं तथाऽर्चयेत् ॥ (शां. स्मृ) इति । यथा च पुत्रं दयितं तथैवोपचरेद्धरिम् ।। इति संहितान्तरम् ।। एवकाराभिप्रेतमन्यदपि विवृणोति–उपायतामिति। मुक्तव्यापारन्यायेन स्वयं स्वादुत्वात् क्षणिकस्य कालान्तरभाविफलसाधनत्वानुपपत्तिदर्शनाञ्च नास्य स्वव्यापारे मोक्षोपायताबुद्धिरपि स्यादिति भावः । अतस्तैस्तैराराधितो भगवानेव हि सर्वत्रोपायः, न पुनः क्षणिकं तत्क्रियास्वरूपं तत्साध्यं किंचित्तत्प्रीत्यतिरिक्तमप्रामाणिकमपूर्वादिकं वा । अतस्तस्मिन्नेव मामेकं शरणं व्रज (१८. ६६) इति वक्तर्युपायताबुद्धिः कार्येत्याह-न्यस्येदिति । अनाश्रितानां बन्धनमाश्रितानां मोचनं च भगवतः स्वमाहात्म्यानुगुणलीलयैवेत्यभिप्रायेणाह- देव इति । ते ह वै देवमिति शरण्यविषयश्रुतिसूचनार्थमत्र देवशब्दः । अपारकारुण्यसौशील्यवात्सल्यौदार्यादिगुणनिधौ मित्रभावेन संप्राप्तम् , (रा. यु. १८. ३) सकृदेव – प्रपन्नाय, (रा. यु. १८. ३३) अपि चेत्सुदुराचारः (गी. ९. ३०) (गी. ९. ३१) क्षिप्रं भवति धर्मात्मा, * मन्मना भन्न मद्भक्तः (९. ३४) * सर्वधर्मान्परित्यज्य (१८. ६६) इति वक्तरि तस्मिन्नेव अशरण्यारण्ये स्वयमुपायतयाऽवस्थिते स्वापराधतत्स्वातन्त्र्य्यतत्संकल्पकिंकरहिरण्यगर्भरुदेन्द्रादिक्षुद्रेश्वरादिनिमित्तभयं न कर्तव्यमित्यभिप्रायेणाह- अभीरिति ॥ ३१ ॥
एकान्तात्यन्तदास्यैकरतिस्तत्पदमाप्नुयात् । तत्प्रधानमिदं शास्त्रमिति गीतार्थसंग्रहः ॥ ३२ ॥
एवं व्यवस्थितस्य यथामनोरथमन्तरायानुपहतस्य फलसिद्धिमाह-एकान्तेति । उक्तं च परमैकान्तिनां परिचरणप्रकारमनुक्रम्य तस्य निर्विघ्नत्वं श्रीपौष्करे – प्रवृत्तिकालादारभ्य आत्मलाभावसानिकम् । यत्रावकाशो विघ्नानां विद्यते न कदाचन ॥ इति । एतदेवाभिप्रेत्योक्तं श्रीसाच्वते- सङ्कल्पादेव भगवान् तत्त्वतो भावितात्मनाम् । व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ।। [ज्ञात्वैवं बद्धलक्ष्येण] ज्ञात्वैव बन्धं मर्त्येन भवितव्यं सदैव हि । प्राप्तये सर्वकामानां संसारभयभीरुणा ।। इति । अतः श्रूयते खलु गोविन्दे भक्तिमुद्वहतां नृणाम् । संसारन्यूनताभीतास्त्रिदशा: परिपन्थिनः ।। सत्यं शतेन विघ्नानां सहस्रेण तथा तपः। विघ्नायुतेन गोविन्दे नृणां भक्तिर्निवार्यते ।। (वि. ध. २.२५) इत्यादिकं तु पर [म] भक्यवस्थातः प्राचीनावस्थाविषयं नेतव्यम् । अत्र भूमविद्यायामिव ऐश्वर्याद्यर्वाचीनपुरुषार्थप्रतिपादनं परमपुरुषप्राप्तिरूपप्रधानतमपुरुषार्थपारम्यसमर्थनार्थतया । उक्तं च श्रीसात्वत्ते प्रत्ययार्थं च मोक्षस्य सिद्धयस्सप्रकीर्तिताः । इति । अतो मोक्षसाधनत्वमेवास्य शास्त्रस्येत्यभिप्रायेणाह । तदिति । अत्र यथार्हं न्यासोपासनरूपप्रापकनिष्ठाप्राप्तृतया निर्दिष्टः परमैकान्ती वा तत्प्राप्यं वा तच्छब्देन परामृश्यते। अथात्र सौगतार्हतादि [मत]सगन्धानां शङ्करादिग्रन्थानां भगवदभिप्रायविरुद्धताख्यापनाय उक्तसंग्रहप्रकारेण शिष्याणां यथावस्थितसमस्तगीतार्थप्रपञ्चावगाहनाय च निगमयति- इतीति । इत्थमेव सत्त्वनिष्ठसंप्रदायपरम्परागतस्समीचीनो गीतार्थः । न पुनः कुदृष्टिभिरुन्नीतः । स चैष वयोगमहिमचुलकितपरमपुरुषविभूतियुगलभगवन्नाथमुनिनियोगानुवर्तिश्रीमद्राम मिश्रसकाशाद्बहुशास्त्रविद्भिरस्माभिर्बहुशःश्रुतस्य भगवद्गीतार्थप्रपञ्चेस्य संग्रह इति मुमुक्षुभिस्संग्राह्यतम इति भावः ॥ ३२ ॥
सारं फल्गुनसारथीयवचसां श्रीयामुनेयोद्धृतं विस्पष्टैरिति वेङ्कटेश्वरकविर्व्याचष्ट भाष्याक्षरैः । यद्वादेषु कुदृष्टिबाह्यकुहनाकोलाहलास्कन्दिभिर्जङ्घालैर्जयघोषणाघणघणैर्विद्राणनिद्रा दिशः ।।
इति वेदान्ताचार्यस्य कृतिषु श्रीगीतार्थसंग्रहरक्षा समाप्ता ॥