श्रीः
श्रीमते रामानुजाय नमः
श्रीसुन्दरजामातृमुनिकृतद्रमिडोपनिषत्सङ्गतिः
उपोद्धातः
यश्चकार सकलार्थसम्पदाम्
व्यञ्जनीम् द्रमिडवेदसङ्गतिम् ।
तम् द्वितीयशठकोपमन्वहम्
स्तौमि सुन्दरवराह्वयम् मुनिम् ॥ १ ॥
आचार्योदितपद्धत्या द्रामिडाम्नायसङ्गतिम् ।
अभिधास्ये विशेषज्ञैः आदरात् गृह्यताम् इह ॥ २ ॥
श्रीमान् गुणाम्बुनिधिः अवाप्तसमस्तकामः
शौरिः शठारिम् अनुजन्मपरिभ्रमन्तम् |
आकस्मिकेक्षणवशात् अतिनित्यमुक्तम्
बृन्दातृणीकरणशक्तिधरः चकार ॥ ३ ॥
आद्ये वयस्यपि ततोऽनुभवन् मुरारिम्
अस्तन्यपान रसिकः शठजित् मुनीन्द्रः ।
आस्थाय मौनम् अवधीर्य च लोकवृत्तम्
आषोडशाब्दम् अतिवाहितवान् दिनानि ॥ ४ ॥
ये राघवे भरतलक्ष्मणजानकीनाम्
ये घोषमुग्धसुदृशामपि नन्दसूनौ ।
भावाः रसैकवपुषः प्रथिताः शठारिः
तानेव वा तदधिकाn उत तत्र लेभे ॥ ५ ॥
प्रह्लादनारदप्रमुखप्रभवा च भक्तिः
स्नेहस्तथा दशरथार्जुनबान्धवोत्थैः ।
सर्वे च ते शठजितः पुरुषे परस्मिन्
आनन्दने पदजुषाम् अतिमात्रम् आसन् ॥ ६ ॥
इत्थम् हरेः अनुभवामृतवारिराशिः
अन्तर्मुनेः शठरिपोः अमितः शरीरे ।
सूक्त्या बहि: परिवहन् सुतराम् जगन्ति
सद्यः सिषेच घनसम्सरणानलानि ॥ ७ ॥
मातापितृप्रभृतितोऽपि च वत्सलत्वात्
सर्वोपकारचपलात् शठजिन्मुनीन्द्रात् ।
वेदः चतुर्विधतया विदितः स साक्षात्
आविर्बभूव हि निबन्धचतुष्टयात्मा ॥ ८ ॥
शब्दस्य सम्स्कृततया यदि गौरवम् स्यात्
बौद्धादिशास्त्रवचसामपि तत्प्रसङ्ग: ।
वाच्येन चेत् कथितमुत्तमवाच्यम् एषु
भाषा निकर्षः इह तेन न शक्यशङ्कः ॥ ९ ॥
पुम्स्त्वम् नियम्य पुरुषोत्तमताविशिष्टे
स्त्रीप्रायभावकथनात् जगतोऽखिलस्य ।
पुम्साम् च रञ्जकवपुः गुणवत्तयापि
शौरेः शठारियमिनःऽजनि कामिनीत्वम् ॥ १० ॥
या प्रीतिरस्ति विषयेष्वविवेकभाजाम्
सैकाच्युते भवति भक्तिपदाभिधेया ।
भक्तिस्तु काम इह तत्कमनीयरूपे
तस्मात् मुनेः अजनि कामुकवाक्यभङ्गी ॥ ११ ॥
यश्चेतसैव विशदानुभवः परस्मिन्
सम्श्लेष एष गुणरत्नमहाम्बुराशौ ।
विच्छित्तिः अस्य विरहस्तु इह या आङ्गसङ्ग
अलाभव्यथाविरचिता मुनिपुङ्गवस्य ॥ १२ ॥
तत्रार्थयत् भवशमम् प्रथमे प्रबन्धे
शौरेः गुणम् शठजित् अन्वभवत् द्वितीये ।
तृष्णाम् अवर्धयत भोक्तुमिमम् तृतीये
यावन्मनोरथम् अलब्धफलम् चतुर्थे ॥ १३ ॥
कैङ्कर्यम् अस्य नियमावधि वैर्युपाय
तत् स्वीक्रियाविषयबन्ध निराशके च |
शीलम् हरेः अधिगताधिगमम् शठारिः
तुर्य प्रबन्ध शतकैः दशभिः जगाद ॥ १४ ॥
तत्रादिमे तु शतके दशके तदाद्ये
सम्यग्गुणाकृतिविभूतिसमेतम् ईशम् ।
अध्यक्षयन् परमनुग्रहतः तदीयात्
तद्दास्ययोजितमनाः शठजित् बभूव ॥ १–१ ॥
सम्सारिणॊपि अनुजिघृक्षुः असौ दयाळुः
अल्पास्थिरॆतरपुमर्थरुचिम् निरस्यन् ।
तत्त्यागपूर्वहरिभक्तिसुधाम् बुधानाम्
उद्दीपिनीम् उपदिदॆश मुनिः द्वितीयॆ ॥ १–२ ॥
दूरस्थम् अप्यथ मुनिः कमलासहायम्
ऐच्छैः समुद्भवशतैः सुलभीभवन्तम् ।
आख्याय भक्तिमपि तत्र विधाय तस्य
सॆवाम् चकाङ्क्ष करणत्रयतः तृतीयॆ ॥ १–३ ॥
तत्काङ्क्षितानधिगमॆन मुनिः विषण्णः
प्राप्तॊ दशाम् च हरिभुक्तवियुक्तनार्याः।
सर्वापराधसहताम् अवबॊध्य दूतैः
शौरॆः स्वदॊषपरताम् अलुनात् चतुर्थॆ ॥ १–४ ॥
स्वालिङ्गनादि चपलॆ पुरुषॊत्तमॆपि
स्वायॊग्यताम् अभिदधन् विमुखः शठारिः ।
त्रैविक्रमादिचरितम् प्रतिबॊध्यतॆन
नीतः स्वशीलवशताम् अथ पञ्चमॆ अभूत् ॥ १–५ ॥
दास्यॆषु दॆशसमयाङ्गकर्तृ
द्रव्यादिना न नियमः पुरुषॊत्तमस्य ।
भक्तिः परम् बहुमता तत एव सॊयम्
स्वाराध इति उपदिदॆश मुनिस्तु षष्ठॆ ॥ १–६ ॥
पुम्सः श्रियः प्रणयिनः पुरुषार्थसीम्नः
निन्दन् फलान्तरपरान् निरवद्यगन्धात् ।
तद्रस्यतार्हगुणजातसमर्थनॆन
तत्सॆवनम् सरसमाह स सप्तमॆन ॥ १–७ ॥
कौटिल्यवत्सु करणत्रितयॆपि जन्तुषु
आत्मीयमॆव करणत्रितयैकरूप्यम् ।
सन्दर्श्य तानपि हरिः स्ववशीकरॊति
इत्याचष्ट सान्द्रकरुणॊ मुनिः अष्टमॆन ॥ १–८ ॥
आत्मार्जवानुभवकौतुकिनः अस्य शौरिः
आत्मॊपभॊगरुचिम् अभ्यधिकाम् दधानः ।
दॆव्यादिवद्रसयिता क्रमतः अखिलाङ्गानि
आशिश्रयत् तदवदत् नवमॆ शठारिः ॥ १–९ ॥
इत्थम् श्रियःपतिकृतस्वसमस्तदॆह
सम्श्लॆषलक्षणफलस्य सुदुर्लभस्य ।
भक्त्यादिवत् स्वगणनॆपि च तत्प्रसादात्
निर्हॆतुकत्वम् अवदत् दशमॆ शठारिः ॥ १–१० ॥
पूर्वानुभूतमुरवैरिगुणाभिवृद्ध-
तद्बाह्यसङ्गमरुचिः तदलाभखिन्नः ।
सर्वानपि स्वसमदुःखिन एव भावान्
आह द्वितीयशतकस्य शठारिः आद्यॆ ॥ २–१ ॥
सम्श्लिष्य दुःखशमनात् मुदितः प्रसङ्गात्
तन्मूलम् अब्जनयनस्य महॆश्वरत्वम् ।
आहान्वयात् इतरतॊपि मनुष्यभावॆ
पौराणिकॊक्तनयतः शठजित् द्वितीयॆ ॥ २–२ ॥
अन्तस्स्थसर्वरसम् अम्बुजलॊचनस्य
सम्यॊगरूपम् अवगाह्य सुखामृताब्धिम् ।
तद्दॆशिकप्रथमसूरिगणैः कदा स्यात्
सङ्गो मम इत्य कथयत् स मुनिः तृतीयॆ ॥ २–३ ॥
तत्प्रार्थितानधिगमॆन समुत्थितार्तिः
अग्रॆ हरॆः परमुखॆन यथा विधॆयम् ।
आर्तेः निवॆदनम् अपाकरणार्थनम् च
मूर्च्छाम् तथा मुनिरगात् महतीम् चतुर्थॆ ॥ २–४ ॥
आगम्य सूरिसहितः समपाकृतार्तिः
अत्युज्वलन् मरकताचलसन्निभाङ्गः।
ईशः प्रफुल्लकमलाक्षिकराङ्घ्रिः आसीत्
तत् पञ्चमॆ स कथयन् मुनिराननन्द ॥ २–५ ॥
नीचम् च माम् अधिगतः अयमिति स्वसूक्त्या
जाताम् हरेः स्वविरहागमनॆ अतिशङ्काम् ।
षष्ठॆ निरस्य दृढसङ्गगिरा शठारिः
आत्मान्वयिष्वपि तदादरतॊ अभ्यनन्दत् ॥ २–६ ॥
तॆ कॆशवाभिमतताम् अभजन्त हन्त
यॆ मामका इति वदन् अधिसप्तमम् सः ।
तस्य स्वरूपगुणचॆष्टितवाचिनाम
भूतद्विषट्कमुखरॊ मुमुदॆ मुनीन्द्रः ॥ २–७ ॥
आत्मान्वयिष्वपि हरॆः प्रियताम् अवॆक्ष्य
सर्वात्मनः स्वजनयन् मुनिः अष्टमॆन ।
मॊक्षप्रदत्वम् उपदिश्य तदाभिमुख्य
अलाभात् स्वलाभम् अधिकम् बहुमन्यतॆ स्म ॥ २–८ ॥
मॊक्षादरम् स्फुटम् अवॆक्ष्य मुनेः मुकुन्दॆ
मॊक्षम् प्रदातुम् असदृक्षफलम् प्रवृत्तॆ ।
आत्मॆष्वमस्य पदकिङ्करतैकरूपम्
मॊक्षाख्यवस्तु नवमॆ निरणायितॆन ॥ २–९ ॥
एतन्निजार्थितम् इहैव हरिः प्रदातुम्
आसॆदिवान् वनमहीधरम् इत्यवॆक्ष्य ।
प्राप्यम् तमॆव च तदन्वयिनम् च सर्वम्
प्राचीकशत् स दशमॆ दशकॆ मुनीन्द्रः॥ २–१० ॥
आद्यॆ तृतीयशतकस्य वनाद्रिभर्तुः
आपादमौळ्यवयवाभरणाभिरूप्यम् ।
ब्रह्मादिवागविषयम् च महाप्रभावम्
सौन्दर्यमग्नहृदयः शठजित् शशम्स ॥ ३–१ ॥
सङ्कॊचितस्वकरणः स हरिम् यथॆष्टम्
भुञ्जॆ न चाहमिति भिन्नमतिः शठारिः ।
आश्वासितश्च हरिणा स्वमहत्तयैव
भॊगॆषु अशक्तिरिति तत्कथितम् द्वितीयॆ ॥ ३–२ ॥
सर्वत्र सर्वसमयॆ सकलासु अवस्थासु
अभ्यर्थयन् निखिलदास्यरसान् मुनीन्द्रः।
श्रीवॆङ्कटाद्रिनिलयस्य परस्य पुम्सः
निस्सीमशीलगुणमपि अवदत् तृतीयॆ ॥ ३–३
सर्वम् जगत् समवलॊक्य विभोः शरीरम्
तद्वाचिनश्च सकलानपि शब्दराशीन् ।
तान् भूतभौतिकमुखान् कथयन् पदार्थान्
दास्यम् चकार वचसव मुनिश्चतुर्थॆ॥ ३–४ ॥
पूर्वॆण दास्यविधिना पुरुषार्थसीम्ना
हर्षप्रकर्षविवशः खलु पञ्चमॆ सः ।
आनन्दनैः अविकृतान् विनिनिन्द मूर्खान्
शौरेः गुणैस्तु विकृतान् प्रशशम्स भूयः ॥ ३–५ ॥
तान् निन्दितानपि विहातुमसौ अशक्तः
शौरेः दुरासदतया विमुखान् विचार्य ।
अर्चावतार सुलभत्वम् उवाच तॆषाम्
एवम् च तॆषु विमुखॆषु शुशॊच षष्ठॆ ॥ ३–६ ॥
तत् शॊकशान्तिविधयॆ हरिणा प्रसादात्
आविष्कृतान् स्वगुणचॆष्टितभॊगशीलान् ।
आलॊक्यवैष्णवजनान् मुनिः आत्मनाथान्
आख्याय तान् अतिजहर्ष च सप्तमॆ सः॥ ३–७ ॥
अत्युत्कटै: इह मनोरथजालपूरैः
नीतो मुनिर्भगवता सह संगकामः ।
सर्वेंद्रियैः अपि च किंकरभावसक्तः
श्री कांतमेव सुगुणांबुधिं आप्तु० ऐच्छत् ॥ ३.८ ॥
&
षष्ठे बहिर्नयनतॊ हरिमाप्तुमाशा
जातामुनॆरथ तदीय जनावलॊकात् ।
उत्तम्भितास्वकरणैरपि कामयन्ती
शॊकातिरॆक जननी पुनरष्टमॆऽभूत् ॥ ३-८॥
अन्यस्तवॆन विषयान् अधिगन्तुम् इच्छून्
आलॊक्य विस्मृतनिजव्यसनॊ दयाळुः ।
तस्मात् निवार्य मनुजान् विफलः स शौरॆः
अन्यॆष्वनर्हकरणम् नवमॆ स्वमाख्यत् ॥ ३–९ ॥
भूयॊऽवतीर्य भुवि दिव्यवपुः स्वकीयम्
प्रत्यक्षयन्तम् अखिलाम्श्च गुणान् अनन्तम् ।
स्तुत्वा मुनिः स्वचरितार्थतया न किञ्चित्
दुःखम् मम इत्यतितराम् दशमॆ तुतॊष॥ ३–१० ॥
आद्यॆ चतुर्थशतकॆ दशकॆ शठारिः
तुष्टस्तथा परहितम् दयया विवृण्वन् ।
राज्यस्वरात्मपरिभॊगचलाल्पभावौ
सम्यक् प्रसाध्य हरिमॆव पुमर्थमाह॥ ४–१ ॥ ॥
तम् पूरुषार्थम् इतरार्थरुचॆः निवृत्त्या
सान्द्रस्पृहासमयदॆशविदूरगत्या च ।
ईप्सुः शुचा तदनवाप्तिभुवा द्वितीयॆ
स्त्रीभावनाम् समधिगम्य मुनिः मुमॊह ॥ ४–२ ॥
प्रीतः परम् हरिः अमुष्य तथा स्वभावात्
एतन्मनॊवचनदॆहकृतक्रियाभिः ।
स्रक् चन्दनप्रमुखसर्वविधस्वभॊगः
सम्श्लिष्टवान् इदम् उवाच मुनिः तृतीयॆ ॥ ४–३ ॥
तॆन प्रहर्षम् अतिमात्रभवम् स्वकीयम्
सात्म्यम् विधातुम् अथ दूरगतॆ मुकुन्दॆ ।
सम्बन्धिनश्च सदृशाम्श्च विलॊक्य शौरॆः
भ्राम्यन् तमॆव मुनिः आर्तिम् अगात् चतुर्थॆ॥ ४–४ ॥
आनन्द निर्भरम् अधीनविभूतियुक्तम्
वैकुण्ठनाथम् अथ वीक्ष्य मुनिः स्तुवन् सः ।
नान्यः समॊस्ति मम नापि अनवाप्यम् अद्य
इत्यानन्दपूरम् आधिपञ्चमम् आससाद ॥ ४–५ ॥
स्वप्नॊपमात् अनुभवात् अमुतॊऽपि अलब्ध
स्वापॆक्षितॆ शठजिति व्यसनात् विसञ्ज्ञे ।
यॆ क्षुद्रदॆवमुखतः परिहर्तुकामाः
तॆ वारिताः तदुचितज्ञगिरैव षष्ठॆ ॥ ४–६ ॥
तद्भॆषजात् स हरिनामकथाप्रसङ्गात्
सञ्ज्ञामुपॆत्य मुनिः उद्भटदुःखबॊधः ।
आपत्सखत्वमुखवाचकतः तमुच्चैः
आक्रुश्य वाञ्छितम् अयाचत सप्तमॆन ॥ ४–७ ॥
एवम् रुदन् अपि शठारिः अलब्धकामः
स्वॊपॆक्षणैकपरताम् अवधार्य शौरॆः ।
तत् शॆषतादि रहितॆ सकलॆ स्वकीयॆ
स्वस्मिन् अपि स्फुरितनिस्पृहतःअष्टमॆ अभूत् ॥ ४–८ ॥
शॊचन् मुनिः स्वसदृशम् च सहायम् इच्छन्
लॊकम् विलॊक्य विपरीतरुचिम् विषण्णः ।
अत्रत्यवासम् असहन् हरिणा स्ववासम्
वैकुण्ठke प्रकटितम् नवमॆ ददर्श ॥ ४–९ ॥
बन्धॆ समॆऽपि हरिणा निखिलात्मराशॆः
सम्सारहॆतुम् इतरत्र परत्वबॊधम् ।
वॆदॆतिहासमुखतः परिहृत्य शौरॆः
अर्चातनॊः स दशमॆ व्यवृणॊत् परत्वम् ॥ ४–१० ॥
आद्यॆ मुनिः स शतकस्य तु पञ्चमस्य
श्रॆयः स्वकीयहितबॊधनम् ईक्षमाणः।
एतद्विरॊधि बहुळस्य ममात्र हॆतुः
शौरॆः कृपैव महतीति शशम्स भूयः ॥ ५–१ ॥
आत्मॊपदॆशविभवैः शमिताघबृन्दम्
आरब्ध वैष्णवसमृद्धि समिध्यमानम् ।
आलॊकयन् क्षितितलम् कलिनाप्यधृष्यम्
आशास्त मङ्गळम् अमुष्य मुनिः द्वितीयॆ ॥ ५–२ ॥
पूर्वानुसम्हित मनॊहर शौरिमूर्तॆः
सम्श्लॆषलॊलहृदयः तदलाभखिन्नः ।
लाभॆ स्वयत्नमपि कर्तुम् इयॆष दुःखात्
भार्यादशाम् च परिगृह्य मुनिः तृतीयॆ ॥ ५–३ ॥
ताम् च त्वराम् विदधती सकलॆन्द्रियाणाम्
आच्छादिका सविधगाम्श्च विसञ्ज्ञयन्ती ।
वॆलातिगा विरहिणीत्व जुषॊ मुनॆस्तु
मॊहाह्वया रजनिः अभ्युदिता चतुर्थॆ ॥ ५–४ ॥
तादृक् स्वमॊहगळनॆ सति भावनायाः
भूम्ना हरॆः अवयवाभरणादिदृष्ट्या ।
प्रत्यक्षतः तदनुभूत्यानवाप्तितश्च
प्रीत्या शुचा मुनिरयुज्यत पञ्चमॆ सः ॥ ५–५ ॥
शॊकम् च तम् परिजिहीर्षुः इवाखिलानाम्
सर्गादि कर्तुः अनुकाररसॆन शौरॆः ।
तस्य प्रवृत्तिः अखिलाचरिता मयॆति
तद्भावभावितमनाः मुनिराह षष्ठॆ ॥ ५–६ ॥
एवम् च सः अनधिगताभिमतः तदाप्तौ
नारायणात् इतरसाधनशून्यताम् स्वाम् ।
तस्मै निवॆद्य तदुपायधियैव किञ्चित्
आश्वस्तवान् अथ मुनिः किल सप्तमॆन ॥ ५–७ ॥
आश्वास लब्धधृतिना मनसा समॆत्य
श्रीकुम्भघॊणशयम् अप्रतिमाभिरूप्यम् ।
आलॊक्य सान्त्वनवचः परिरम्भणादीन्
अप्राप्तवान् मुनिः अखिद्यत सॊऽष्टमॆन ॥ ५–८ ॥
अन्यम् मुनिः प्रतिहतः तत एव खॆदात्
गन्तुम् प्रवृत्तमनसापि तु दिव्यदॆशम् ।
तद्भॊग्यताम् अभिदधत् तदधीशपादौ
यायाम् कदा इत्यकथयत् नवमॆ सदैन्यम्॥ ५–९ ॥
आर्चाम् च मौननियताम् अपहाय शौरॆः
आलापभॊग्यविभवॆ पुनरागतॊऽसौ ।
चित्तस्य तद्गुणगणस्मरणॆ निजस्य
शैथिल्यविघ्नशमनम् तम् अयाचतन्त्यॆ ॥ ५–१० ॥
आद्यॆ तु षष्ठशतकस्य मुनिस्तथार्तॊ
नारीसमाधिम् अधिगम्य निजाम् अवस्थाम् |
अर्चा हरिम् कमपि पक्षिभिः अन्तिकस्थैः
आपन्नरक्षणसदीक्षम् अबॊधयत् सः ॥ ६–१ ॥
तावद्विलम्बम् असहन् प्रणयॆन रॊषात्
कृष्णम् समागतम् अपि त्वरया विनिन्द्य ।
तॆन स्वसङ्गममनॊरथिना द्वितीयॆ
सान्त्वॊक्तिभिः समनुनीय समाहितॊऽभूत् ॥ ६–२ ॥
कोपम् मम प्रणयजम् प्रशमय्य कृष्णः
स्वाधीनताम् अतनुत इति स विस्मयः सः |
स्वीयाम् विरुद्धजगदाक्रुतिताम् च तेन
सन्दर्शितम् अनुबभूव मुनिः तृतीये || ६–३ ||
आनन्द शीतळितवागनुसन्दधीय
कृष्णस्य वीर्यचरितानि अहमादरॆण ।
इत्थम् पुरास्वयम् अपॆक्षितवान् मुनिः तत्
लब्ध्वा समॊऽस्ति न मम इति अवदत् चतुर्थॆ ॥ ६–४ ॥
तस्यापि मानसतयाऽनुभवस्य बाह्य-
सम्श्लॆषणैकपरचित्तमनःशरीरः ।
आत्मानुरक्तजनम् आत्मनि निःस्पृहत्वम्
निन्यॆऽधिपञ्चमम् अतिप्रवणॊच्युतॆ सः ॥ ६–५ ॥
तस्मात् मुनिः प्रवणता विभवात् परस्मिन्
पुम्स्यॆव पुङ्खितमतिः पुरुषार्थसारॆ ।
स्वस्य स्वकीयविषयॆषु अखिलॆषु षष्ठॆ
स्वीयत्वबुद्धिः अवशात् गळिता इत्यवॊचत्॥ ६–६ ॥
कृष्णॆन धारयितृपॊषकभॊग्ययॊगी
प्राप्तौ अतित्वरितधीः अखिलान् विहाय ।
स्यादप्यलब्ध फलः इत्यवहीयमानः
पार्श्वस्थितैर्मुनिरभूत् अधिसप्तमम् सः ॥ ६–७ ॥
अप्यॆवम् आत्मफलदानविलम्बवन्तम्
आलॊक्य शौरिम् अथ यत्र च कुत्र चापि ।
आवॆद्य मत् स्थितिम् अधीनविभूतियुग्माः
स्यात इति अयाचत सतः मुनिः अष्टमॆन॥ ६–८ ॥
आलॊकनॆपि विषयस्य भृशम् विभग्नः
रूपॆ हरेः सकललॊकमयॆ निराशः ।
अप्राकृतॆ वपुषि लॊलमनाः तमुच्चैः
आकारयत् प्रलपितैः नवमॆ शठारिः ॥ ६–९ ॥
आर्तॆः तथागततया मुनिः अब्जवासाम्
आश्रित्य सङ्घटनकर्मणि जागरूकाम् ।
आवॆद्य चाधिदशमम् स्वम् अकिञ्चनत्वम्
श्री वॆङ्कटॆशचरणौ शरणम् प्रपेदे ॥ ६–१० ॥
आद्यॆ मुनिः स शतकस्य तु सप्तमस्य
तस्मिन् अपि प्रपदनॆ विफलॆ विषण्णः ।
ईशॆन पातितम् इव स्वम् अवॆक्ष्य गर्तॆ
तस्मै स्वभीतिम् अवदत् विषयॆन्द्रियॆभ्यः॥ ७–१ ॥
आत्मप्रबन्धम् असमाप्य हितम् जनानाम्
आत्मॆष्टम् अक्षमतया हरिणा प्रदातुम् ।
श्रीरङ्गिणाप्यसुशकप्रशमार्थचिन्ताम्
भूयस्तराम् अरतिमाप मुनिः द्वितीयॆ ॥ ७–२ ॥
श्रीरङ्गभर्तुः अशरण्यशरण्य भाव
प्रस्तावलब्धध्रुतिः अस्य गतौ स भूयः।
स्वस्मिन् हितप्रियतरॆतर निर्विशॆषम्
आसीत् आवार्य बहुळाभिरुचिः तृतीयॆ ॥ ७–३ ॥
आतन्वता हितमथात्मदशानुरूपम्
आविष्कृतान् अनुपमान् पुरुषॊत्तमॆन ।
आत्मापदानविभवान् अतिलॊभनीयान्
अध्यक्षयन् शठजित् अन्वभवत् चतुर्थॆ॥ ७–४ ॥
आत्मैक रक्षणपरान् अवतार हॆतून्
अन्यादृशान् गुणगणान् अपहाय शौरॆः ।
अन्यत् कथम् मतिमताम् अवबॊधनीयम्
इत्यान्यपर्यम् अलुनात् अधिपञ्चमम् सः ॥ ७–५ ॥
तादृग्गुण प्रविशदानुभवप्रवृद्ध-
स्वापॆक्षिताभिरुचितार्ति महार्णवः सन् ।
प्राप्यम् शरण्यमपि वीक्ष्य कदानुगः स्याम्
अङ्घ्र्योः तव इति विललाप मुनिः स षष्ठॆ ॥ ७–६ ॥
तत्प्रार्थितानधिगमॆऽपि च भावनायाः
भूम्नः पुरः स्थितमिवाननम् अच्युतस्य ।
आलॊकयन् अपि करॆण न सम्स्पृशन् सः
पीडाम् अवापमहतीम् अथ सप्तमॆन ॥ ७–७ ॥
सङ्गम् निवर्त्य मम सम्सृतिमण्डलॆ माम्
सम्स्थापयन् कथम् असीत्यनुचॊदितॆन ।
आश्चर्यलॊकतनुताम् अपि दर्शयित्वा
विस्मारितः किल शुचम् हरिणाऽष्टमॆन ॥ ७–८ ॥
पृष्टः फलम् स्ववसतॆरिह दुःशकायाः
स्वॆन प्रबन्धरचनाम् फलमाह शौरिः ।
अन्यॆषु सत्स्वपि तदा स्वम् अपॆक्षमाणम्
अप्रत्युपक्रियम् अमुम् नवमॆ जगौ सः ॥ ७–९ ॥
आनन्दम् आकलयितुम् कमलासखस्य
सम्श्राव्य तत्करुणया स्वकृतम् प्रबन्धम् ।
अर्हॆ तदादरणशालिनि दिव्यदॆशॆ
यात्रामनॊरथम् असौ दशमॆ चकार ॥ ७–१० ॥
आद्यॆऽष्टमस्य शतकस्य यथॆष्टसिद्धिम्
अप्राप्य खिन्नमतिः आश्रितपारतन्त्र्यम् ।
सर्वॆश्वरत्वम् अपि शङ्कितवान् शठारिः
ईशस्य तॆन पुनरॆव विबॊधितश्च ॥ ८–१ ॥
सम्प्रापकॆपि च विभौ निजवाञ्छितार्थ
प्राप्तेः विघातः इतरॆषु च पाशलॆशः ।
स्वन्यॆति शङ्कितमनाः स्वहितॆपि वर्गॆ
स्वस्मिन् अपि प्रवणताम् मुमुचॆ द्वितीयॆ ॥ ८–२ ॥
प्रॆमाधिकॆन विवशः सुकुमारमूर्तॆः
क्षॆमाय खिन्नहृदयः पुरुषॊत्तमस्य ।
तद्दर्शित आत्मपरनित्यमुमुक्षुमुक्तैः
किञ्चित् समाहितमनाः शठजित् तृतीयॆ ॥ ८–३ ॥
क्षॆमम् स्वशौर्यम् अधिकम् विमतैः अधृष्यम्
ग्रामम् च कञ्छन निजावसथायमानम् ।
तत्र द्विजान् अरिजितः स्वसमान् प्रदर्श्य
निर्भीः अकारि नितराम् स मुनिः चतुर्थॆ ॥ ८–४ ॥
सुक्षॆम सुन्दरतनुम् परिलिप्सुरीशम्
शॊचन्मुनिः दहनलीढः इवातितप्तः ।
एहि एवम् इत्युपगतस्य बहुप्रकारान्
आख्याय शौरिः अधिपञ्चमम् आजुहाव ॥ ८–५ ॥
सद्यः स्व सङ्गमकृतौ भविता न सात्म्या
प्रीतिः समॆति हरिराप्तुमनाः शनैः माम् ।
वैकुण्ठतॊऽधिगतवान् मतिमित्यवन्याम्
स्थानः क्वचित् बहुमतिम् विधदॆ स षष्ठॆ ॥ ८–६ ॥
मद्विप्रयॊगम् असहन् स्वयमॆव चार्थी
मामल्पकैकनिलयम् बहुमन्यमानः ।
शौरिः समाश्लिषत् इदम् मतिविभ्रमः किम्
इत्यात्मनॊ मुदम् अभाषत सप्तमॆन ॥ ८–७ ॥
स्वायॊग्यतातिनिवर्तन लॊलुपॆन
श्रीकौस्तुभॆन कमलास्तनतॊपि तुल्यम् ।
आत्मैकशॆषम् अवबॊधितम् ईश्वरॆण
स्वस्य स्वरूपम् अवदत् मुनिः अष्टमॆ सः ॥ ८–८ ॥
अन्यार्हताश्रवणमप्यथ शॆषतायाः
सॊढुम् न शक्यतॆ इति स्वदशाविशॆषम् ।
अन्यापदॆशम् अवलम्ब्य तदोपयुक्तम्
नारायणैकपरधीः नवमॆ जगाद ॥ ८–९ ॥
ताम् शॆषताम् अपि तदीय तदीय सीमा
शॆषत्व पर्यवसिताम् पुरुषार्थ सीमाम् ।
आविष्कृताम् भगवता मुनिः आत्मरुच्याम्
आचष्ट धिक् कृततदन्य पुमर्थम् अन्त्यॆ ॥ ८–१० ॥
आद्यॆ चकार नवमॆ शतकॆ शठारिः
तत् शॆषतानुभवसन्मतिसम्मतॆन ।
निश्चित्य सर्वविधबन्धुतया तमीशम्
आपत्सखम् प्रणमत इति परॊपदॆशम् ॥ ९–१ ॥
बन्धुत्वतः स्वमनुकम्पितवन्तम् आदौ
आसन्नधाम्नि भुजगाधिपतौ शयानम् ।
स्वापॆक्षितम् मुनिरयाचत तम् द्वितीयॆ
तस्य एकरूपशयनॆपि च दुःखितॊभूत् ॥ ९–२ ॥
नारायणे मयि सति स्वभरार्थचिन्ता
नार्हा तव इति विभुना बहुमानभाजा ।
आविष्कृताम् निरवधिम् निजशीलवत्ताम्
अन्यादृशीम् अनुबभूव मुनिः तृतीयॆ ॥ ९–३ ॥
शीलाधिकश्रियम् उरः स्थलतॊ दधानॊपि
आत्मॆप्सितम् न दिशत्यति अतिमात्र खिन्नः ।
लब्ध्वा ततः कमपि तस्य कृपाकटाक्षम्
आद्राक्षम् ईशम् इति स प्रजहर्ष तुर्यॆ ॥ ९–४ ॥
आलॊकनम् च तदचाक्षुषम् इत्यथार्तः
दृष्ट्वा च तत् स्मरणहॆतुपदार्थजातम् ।
आसन्नहानिकतया आवसितः सुसक्तः
दुःखॆन दुःसहतरॆण स पञ्चमॆऽभूत् ॥ ९–५ ॥
स्वस्यात्मताम् अगणयन् स्वयमर्थयित्वा
स्वम् प्राप्य हर्षविवशॊ हरिरित्यधस्तात् ।
यत् शीलम् अन्वभवत् अस्य तदॆव दैवात्
सम्स्मृत्य स दृतमनाः व्यसनी च षष्ठॆ ॥ ९–६ ॥
स्वीयम् वियॊगिजन हन्तृ निजाभिरूप्यम्
विस्मृत्य सम्श्रितजनैः वसतः सहैव ।
अर्चाहरॆः क्वचन तत्प्रतिबॊधनाय
दूतीचकार विहगान् अधिसप्तमम् सः ॥ ९–७ ॥
ईशॆ समाजिगमिषति अपि दूतवाक्यैः
तावद् विलम्बम् असहन् मुनिः अस्य भौमम् ।
दॆवीजुषः कमपि दॆशविशॆषम् आरात्
यायाम् कदा इति अवधिम् अर्थयत् अष्टमॆन ॥ ९–८ ॥
स्वप्राप्तिकालम् अविभावयति इन्दिरॆशॆ
कृष्णॆ गवाम् अवनधर्मिणि गॊपिकानाम् ।
सायम् समागमविलम्बिनि यॊऽवसादः
आसीत् स एव नवमॆ स्फुरितः शठारॆः ॥ ९–९ ॥
प्राप्तिप्रदानसमयॊयम् इति प्रकाश्य
स्वस्य प्रियम् महति कृष्णपुरॆ वसन्तम् ।
ईशम् यथाशकनम् आश्रयत इति हर्षात्
अन्यॊपदॆशम् अकरॊत् दशमॆ मुनीन्द्रः ॥ ९–१० ॥
आद्यॆ अन्तिमस्य शतकस्य मुनिः स्वयात्राम्
निश्चित्य वर्त्मनि सहायम् अपॆक्षमाणः ।
आप्तम् हितज्ञम् अहितच्छिदम् अम्बुजाक्षम्
मॊहूरधीशमुरवैरिणम् आश्रयत् सः ॥ १०-१ ॥
वैकुण्ठम् एत्य करणीयम् अशॆषदास्यम्
अत्रैव कॆवलम् अनन्तपुरॆ विधित्सन् ।
प्राप्यत्वम् अन्यदुरितौघ निवर्तनम् च
प्राचीकशत् तनुभृताम् शठजित् द्वितीयॆ ॥ १०-२ ॥
गॊपीवियुक्तम् अपि गॊचपलम् वियुक्तम्
दास्यम् तमपि अचिरमॆव हरिम् निजॆष्टम् ।
स्वॊपॆक्षकम् तम् अतिशङ्क्य मुनिः स तॆन
विस्रम्भितॊ विपुलतृष्णतया तृतीयॆ ॥ १०-३ ॥
आसक्तिनिश्चययुतः स्वफलागमस्य
स्वार्थात् परार्थपरधीः अनुकम्पया सः ।
उज्जीवनाय जगताम् उपदिष्टपूर्वाम्
भक्तिम् हरौ फलयुताम् निजगाद तुर्यॆ ॥ १०-४ ॥
कृष्णस्य पादयुगळम् प्रतिभावनीयम्
जिज्ञासितम् जगति भक्तिसमुत्सुकानाम् ।
प्राप्तौ त्वरातिशयवान् मितसूक्तिजालैः
भक्तॆः शरीरमपि पञ्चमतॊ जगाद ॥ १०-५ ॥
वैकुण्ठधामनि विवेशयिषुम् स्वमीशम्
तच्च स्वकीयविधिनैव विधातुकामम् ।
पश्यन् मुनिः प्रमुदितॊऽनुबभूव षष्ठॆ
वाञ्छाधिकाः स्वविषयॊपकृतीः तदीयाः ॥ १०-६ ॥
अस्मिन् उपैमि अमुम् इति स्वशरीरलॊल-
तद्दॊषमुग्धमपि तत्त्यजनॆ स्वयाज्ञाम् ।
सार्थाम् चिकीर्षुम् अधिगम्य हरिम् तदीयॆ
शीलॆ मुनिः स खलु सप्तमतॊ ममज्ज॥ १०-७ ॥
व्यामॊहम् आत्मनि विलॊक्य विभॊः अवॆलम्
अत्यादरॆ मयि कथम् त्वमनादरः प्राक् ।
हॆतुम् वद उचितम् इह इत्यनुपृच्छ्य चैनम्
दत्तॊत्तरॊ मुनिः अनॆन च अष्टमॆ अभूत् ॥ १०-८ ॥
सत्कारम् अध्वनि सुरैरपि सन्निकृष्टॆ
प्रत्युद्गतिम् परमधाम्नि जनैः तदीयैः ।
तत्र स्थितिम् सुखमयीम् च हरिप्रियाणाम्
आसादितॊ मुनिरभूत् नवमॆ शठारिः॥ १०-९ ॥
तद्दर्शनम् च मनसैव न चक्षुषा इति
भक्त्यायुतः परमया भगवान् शठारिः ।
पद्माज्ञया भगवतः परिहृत्य मान्द्यम्
स्वाभीष्टम् अच्युतपदम् दशमॆ प्रपॆदॆ ॥ १०–१० ॥
आचार्यॊदितपद्धत्या द्रामिडाम्नायसङ्गतिम् ।
अभ्यधात् एव आचार्यस्तु अभिरामवराह्वयः ॥
द्रामिडाम्नायसङ्गतिम् सम्पूर्णम्
वादिकेसरि अळहिय मणवाळ जीयर् तिरुवडिगळे शरणम्
—————–