[highlight_content]

Dramidopanishat Tatparya Ratnavazhi Moolam

श्रीः

श्रीमते रामानुजाय नमः

श्रीमते निगमान्तमहादेशिकाय नमः

द्रमिडोपनिषत्तात्पर्यरत्नावळिः

 

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी

वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि

 

सारः सारस्वतानाम् शठरिपुफणितिः शान्तिशुद्धान्तसीमा

मायामायामिनीभिः स्वगुणविततिभिः बन्धयन्तीम् धयन्ती

पारम् पारम्परीतो भवजलधिभवन्मज्जनानाम् जनानाम्

प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानम् निधानम् 1

 

प्रज्ञाख्ये मन्थशैले प्रथितगुणरुचिम् नेत्रयन् सम्प्रदायम्

तत्तल्लब्धिप्रसक्तैः अनुपधि विबुधैः अर्थितो वेङ्कटेशः

तल्पम् कल्पान्तयूनः शठजिदुपनिषद्दुग्धसिन्धुम् विमथ्नन्

ग्रथ्नाति स्वादुगाथालहरिदशशतीनिर्गतम् रत्नजातम् 2

 

पाञ्चालीगात्रशोभाहृतहृदयवधूवर्गपुम्भावनीत्या

पत्यौ पद्मासहाये प्रणयिनि भजतः प्रेयसीपारतन्त्र्यम्

भक्तिः शृङ्गारवृत्त्या परिणमति मुनेः भावबन्धप्रथिम्ना

योगात् प्रागुत्तरावस्थितिरिह विरहो देशिकास्तत्र दूताः 3

 

भाषा गीतिः प्रशस्ता भगवति वचनात् राजवच्चोपचारात्

सा चागस्त्यप्रसूता त्विह परिजगृहे भूमिकाभेदयोग्या

यत्तत्कृत्यम् श्रुतीनाम् मुनिगणविहितैः सेतिहासैः पुराणैः

तत्रासौ सत्त्वसीम्नः शठमथनमुनेः सम्हिता सार्वभौमी 4

 

आदौ शारीरकार्थक्रममिह विशदम् विम्शतिः वक्ति साग्रा

सङ्क्षेपोऽसौ विभागम् प्रथयति ऋचाम् चारुपाठोपपन्नम्

सम्यक् गीतानुबद्धम् सकलमनुगतम् सामशाखासहस्रम्

सम्लक्ष्यम् साभिधेयैः यजुरपि दशकैः भात्यथर्वा रसैश्च 5

 

प्राच्ये सेवानुगुण्यात् प्रभुमिह शतकेऽमम्स्त मुक्तेरुपायम्

मुक्तप्राप्यम् द्वितीये मुनिरनुबुबुधे भोग्यताविस्तरेण

प्राप्यत्वोपायभावौ शुभसुभगतनोरित्यवादीत् तृतीये

ऽनन्यप्राप्यश्चतुर्थे समभवदितरैरप्यनन्याद्युपायः 6

 

देवः श्रीमान् स्वसिद्धेः करणमिति वदन्ने एकमर्थम् सहस्रे

सेव्यत्वादीन् दशार्थान् पृथगिह शतकैः वक्ति तत्स्थापनार्थान्

ऐकैकश्यात् परत्वादिषु दशकगुणेष्वायतन्ते तथा ते

तत्तद्गाथागुणानामनुविदधति तत्पङ्क्तयः पङ्क्तिसङ्ख्याः 7

 

सेव्यत्वात् भोग्यभावात् शुभतनुविभवात् सर्वभोग्याधिकत्वात्

श्रेयस्तद्धेतुदानात् श्रितविवशतया स्वाश्रितानिष्टहृत्त्वात्

भक्तच्छन्दानुवृत्तेः निरुपधिकसुहृद्भावतः सत्पदव्याम्

साहाय्याच्च स्वसिद्धेः स्वयमिह करणम् श्रीधरः प्रत्यपादि 8

 

ब्रूते गाथासहस्रम् मुरमथनगुणस्तोमगर्भम् मुनीन्द्रः

प्रत्येकम् चात्र गाथाः प्रथितविभुगुणाः स्पष्टमध्यक्षयामः

तत्रासङ्कीर्णतत्तद्दशकगुणशतस्थापनौचित्ययुक्तान्

ऐदम्पर्यावरुद्धान् अगणितगुणितान् तद्गुणान् उद्गृणीमः 9

 

इच्छासारथ्यसत्यापितगुणकमलाकान्तगीतान्तसिध्य

च्छुद्धान्ताचारशुद्धैः इयमनघगुणग्रन्थिबन्धानुबद्धा

तत्तादृक्ताम्रपर्णीतटगतशठजिद्दृष्टसर्वीयशाखा

गाथातात्पर्यरत्नावलिरखिलभयोत्तारिणी धारणीया 10

 

शतकम् 1

 

निस्सीमोद्यद्गुणत्वात् अमितरसतयाऽनन्तलीलास्पदत्वात्

स्वायत्ताशेषसत्तास्थितियतनभिदावैभवात् वैश्वरूप्यात्

त्र्यक्षब्रह्मात्मभावात् सदसदवगतेः सर्वतत्त्वेषु पूर्तेः

पश्यन् योगी परम् तत्पदकमलनतावन्वशादात्मचित्तम् 1-1

 

स्वामित्वात् सुस्थिरत्वात् निखिलनिरुपधिस्वात्मविद्ग्राह्यभावात्

तादृक्सर्वानुकूल्यात् च्यवनवदितरप्राप्यवैषम्यवत्त्वात्

सर्वत्राप्यक्षिपातात् शुभविभवतया मानसाद्यर्च्यभावात्

सङ्कोचोन्मोचकत्वात् जगदयनतयोपादिशत् सर्वयोग्यम् 1-2

 

बन्धार्हत्वात् स्वभक्तैः अधिकतरगुणानन्तदिव्यावतारात्

सर्वेष्वासक्तिमत्त्वात् नतसुगमतया स्वप्रबोधप्रदत्वात्

ख्याताभिख्यादिचिह्नात् स्वरुचिवितरणात् सर्वकालाश्रयत्वात्

शर्वादेः स्वाङ्गदानात् प्रहितपदतयाऽनन्तसौलभ्यमाह 1-3

 

त्राणे बद्धध्वजत्वात् शुभनयनतया स्वार्थलाभेऽर्थिभावात्

तिम्यन्मेघस्वभावात् जगदुपजननस्थापनातिप्रियत्वात्

कारुण्याप्तत्वयोगात् अनुगतमहिषीसन्निधेः सङ्गदैर्घ्यात्

नानाबन्धैः स्वरक्षावहिततमतया क्षाम्यतीत्याह कृष्णम् 1-4

 

सद्ध्रीभव्यान् सुवाचः सुचरितसुभगान् कृष्णसारूप्यसौम्यान्

स्वाहारोदारशीलान् तनुधृतभगवल्लक्ष्मणो बाल्यगुप्तान्

छात्रस्वच्छन्दस्ववृत्तीन् अभिगतशिशिरान् अन्तरङ्गोक्तियोग्यान्

आचार्यान् कृष्णलब्धाववृणुत शठजित् प्रेयसीदूतनीत्या 1-5

क्षुद्राह्वानाभिमुख्यात् निजमहिमतिरस्कारकार्चाप्रियत्वात्

सर्वत्राप्यङ्घ्रिदानात् सविधशयनतः स्वाङ्घ्रिसक्तैकरस्यात्

गोपाद्याप्तेरशेषेक्षणविषयतया भक्तवस्तुप्रसक्तेः

श्लिष्यन्नाशव्यपोहात् तदहितशमनात्प्राह नाथं सुशीलम् 1-6

 

अक्रीतैरर्च्यभावात् अनियतविविधाभ्यर्चनात् अल्पतुष्टेः

प्रह्वावर्ज्येशभावात् स्वविषयनियतेष्वादरात् स्वादुभूम्ना

पादासक्तप्रसक्तेः सकृदुपसदने मोक्षणात् धर्मसौस्थ्यात्

क्षिप्रक्षिप्ताहितत्वात् सुकरभजनताम् माधवस्याभ्यधत्त 1-7

 

सच्चित्ताकर्षहेतोरघशमननिधेर्नित्यभोग्यामृतस्य

त्यागे हेतूज्झितस्य प्रवहदुपकृतेर्दुस्त्यजस्वानुभूतेः

त्यागाकाङ्क्षानिरोदधुः श्रितहृदयपृथक्कारनित्याक्षमस्य

स्वात्मश्लिष्टस्य गायच्छ्रमहरयशसः सेवनम् स्वाद्ववोचत् 1-8

 

सूरीणाम् स्वैरसेव्ये स्वयमवतरति क्षुद्रदिव्यैकनेत्रे

गोपाद्यर्थम् धृताद्रौ श्रिततनुरसिके वामनीभावदृश्ये

सच्चित्तानन्यवृत्तौ विभवसमतनौ स्वायुधारूढहस्ते

नीचोच्चग्राह्यपादे निरुपधिमृजुताम् नीरवर्णे जगाद 1-9

 

पर्यन्तेऽत्के दृष्टम् स्वविरहविधुरम् डिम्भवत्पार्श्वलीनम्

चित्ते क्लृप्तप्रवेशम् भुजशिखरगतम् तालुसिम्हासनस्थम्

चक्षुर्मध्ये निविष्टम् स्थितमलिकतटे मस्तके तस्थिवाम्सम्

प्रत्याहारोक्तरीत्या विभुमनुबुभुजे सात्म्यभोगप्रदानात् 1-10

 

विष्वग्विक्रान्तिदृश्यम् विगणनसुलभम् व्यक्तपूर्वोपकारम्

स्वान्तस्वैकाग्र्यहेतुम् स्वयमुदयजुषम् बन्धमात्रोपयातम्

चिन्तास्तुत्यादिलक्ष्यम् नतजनसततश्लेषिणम् दर्शितार्चम्

स्मृत्यै चित्ते मिषन्तम् स्ववितरणमहौदार्यतुष्टोऽभ्यचष्ट 1-11

 

आदावित्थम् परत्वादखिलसमतया भक्तसौलभ्यभूम्ना

निःशेषागःसहत्वात् कृपणसुघटनात् शक्यसम्राधनत्वात्

स्वादु स्वोपासनत्वात् प्रकृतिऋजुतया सात्म्यभोगप्रदत्वात्

अव्याजोदारभावात् अमनुत शतके माधवम् सेवनीयम् 1-12

 

शतकम् 2

 

निद्राविच्छेदकत्वात् अरतिजननतोऽजस्रसङ्क्षोभकत्वात्

अन्वेष्टुम् प्रेरकत्वात् विलयवितरणात् कार्श्यदैन्यादिकृत्त्वात्

चित्ताक्षेपात् विसञ्जीकरणत उपसम्शोषणावर्जनाभ्याम्

दृष्टास्वादस्य शौरेः क्षणविरहदशादुस्सहत्वम् जगाद 2-1

 

पूर्णैश्वर्यावतारम् भवदुरितहरम् वामनत्वे महान्तम्

नाभीपद्मोत्थविश्वम् तदनुगुणदृशम् कल्पतल्पीकृताब्धिम्

सुप्तम् न्यग्रोधपत्रे जगदवनधियम् रक्षणायावतीर्णम्

रुद्रादिस्तुत्यलीलम् व्यवृणुत ललितोत्तुङ्गभावेन नाथम् 2-2

 

चित्रास्वादानुभूतिम् प्रियमुपकृतिभिः दास्यसारस्यहेतुम्

स्वात्मन्यासार्हकृत्यम् भजदमृतरसम् भक्तचित्तैकभोग्यम्

सर्वाक्षप्रीणनार्हम् सपदि बहुफलस्नेहमास्वाद्यशीलम्

सभ्यैः साध्यैः समेतम् निरविशदनघाशेषनिर्वेशमीशम् 2-3

 

प्रह्लादार्थे नृसिम्हम् क्षपितविपदुषावल्लभम् क्षिप्तलङ्कम्

क्ष्वेलप्रत्यर्थिकेतुम् श्रमहरतुलसीमालिनम् धैर्यहेतुम्

त्राणे दत्तावधानम् स्वरिपुहतिकृताश्वासनम् दीप्तहेतिम्

सत्प्रेक्षारक्षितारम् व्यसननिरसनम् व्यक्तकीर्तिम् जगाद 2-4

स्वप्राप्त्या सिद्धकान्तिम् सुघटितदयितम् विस्फुरत्तुङ्गमूर्तिम्

प्रीत्युन्मेषातिभोग्यम् नवघनसुरसम् नैकभूषादिदृश्यम्

प्रख्यातप्रीतिलीलम् दुरभिलपरसम् सद्गुणामोदहृद्यम्

विश्वव्यावृत्तिचित्रम् व्रजयुवतिगणख्यातनीत्याऽन्वभुङ्क्त 2-5

 

स्वास्वादख्यापकत्वात् श्रितनियतदृशेः नैकभोगप्रदानात्

त्यागानर्हप्रकाशात् स्थिरपरिचरणस्थापनात् पापभङ्गात्

दुस्साधार्थस्य सिद्धेः विरहभयकृतेः दुर्विभेदात्मयोगात्

नित्यानेकोपकारात् स्वविरहचकितम् प्रेक्षताम्भोरुहाक्षम् 2-6

 

सर्वादिः सर्वनाथः त्रिभुवनजननीवल्लभः स्वाश्रितार्थी

विष्वग्व्याप्त्याऽतिदीप्तः विमतनिरसनः स्वाङ्घ्रिसद्भक्तिदायी

विश्वाप्त्यै वामनाङ्गः स्वविभवरसदः स्वान्तनिर्वाहयोग्यः

स्वार्थेहो बन्धमोक्ता स्वजनहिततया द्वादशाख्याभिरूचे 2-7

 

प्राप्याकारोपपत्त्या जनिपरिहरणात् विश्वसृष्ट्यादिशक्तेः

निस्सीमानन्ददेशान्वयत उपजगौ रक्षणार्थावतारात्

सुप्रख्यातानुभावात् विविधविहरणात् व्याप्तिवैचित्र्यवत्त्वात्

भक्तैः द्राग्दृश्यभावात् अखिलफलकृतेः मुक्तिसौख्यम् मुकुन्दे 2-8

 

श्रद्धेयस्वाङ्घ्रियोगम् शुभमतिकरदम् स्तोत्रसामर्थ्यहेतुम्

स्वार्थीकारोपकारम् स्मृतिरसशमितान्यादरम् प्रीतिवश्यम्

प्राप्तौ कालाक्षमत्वप्रदममृतरसध्यानमात्मार्पणार्हम्

वैमुख्याद्वारयन्तम् वृतपरिचरणम् चक्रपाणिम् जगाद 2-9

 

दीप्ताश्चर्यस्वभावम् मुखरितजलजम् वर्षुकाम्भोदवर्णम्

शैलच्छत्राभिगुप्ताश्रितमतिविलसद्धेतिमापीतगव्यम्

सम्रम्भोत्क्षिप्तभूमिम् प्रणमदनुगुणम् पूतनाचेतनान्तम्

पूर्वाचार्यम् श्रुतीनाम् शुभसविधगिरिस्थानतो निर्विवेश 2-10

 

इत्यब्रूतात्यसह्यक्षणविरहतया मानुषत्वे परत्वात्

सर्वास्वादत्वभूम्ना व्यसनहरतया स्वाप्तिसम्प्रीतिमत्त्वात्

वैमुख्यत्रासयोगात् निजसुहृदवनात् मुक्तिसारस्यदानात्

कैङ्कर्योद्देश्यभावात् शुभनिलयतया चातिभोग्यम् द्वितीये 2-11

 

शतकम् 3

 

सुश्लिष्टाकल्पमङ्गैः अनुपमसुषमम् वक्ति निस्सीमदीप्तिम्

स्वान्तस्वादुस्वदेहम् सुखभजनपदम् मण्डिताङ्गम् महिष्या

स्तोत्रातिक्रान्तकीर्तिम् मलिनिमरहितौज्ज्वल्यमिष्टौपवाह्यम्

वीताश्चर्यत्रिणेत्रप्रभृतिसुरनुतिम् चित्रसौन्दर्यविद्धम् 3-1

 

स्रष्टा क्रान्ता लोकान् हृतधरणिभरोऽनन्यभोग्याङ्घ्रियुग्मः

चित्तोद्यन्नीलरूपः निरवधिरसद स्वाङ्घ्रिरध्यक्षमूर्तिः

नित्योपास्यस्वपादः निखिलवसुमतीगोपनस्वाङ्घ्रिवृत्तिः

मुष्णन् मूर्तिप्रतीत्या यमपरवशताम् प्रैक्षि लोकैकनाथः 3-2

 

स्थानोत्कर्षात् सुदीप्तम् श्रमहरवपुषम् स्वाङ्गपर्याप्तभूषम्

तेजिष्ठम् नीचयोगात् प्रणमितभुवनम् पावनम् सन्नतानाम्

प्राप्त्यर्हस्थानमम्हःप्रशमनविषयम् बन्धविच्छेदिपादम्

भेजे शीघ्राभियानक्षमशुभवसतिम् लम्भितार्चाभिमुख्यः 3-3

 

भूतैस्तत्कार्यभूतैः शुभनिजवपुषा दीप्तिमद्भिः पदार्थैः

पथ्यास्वादोपपन्नैः श्रुतिमुखसुभगाशेषशब्दप्रपञ्चैः

नानाकारैः पुमर्थैः जगदधिपतिभिः चेतनाचेतनौघैः

जुष्टम् दोषैरदुष्टम् निखिलतनुतया सम्प्रतुष्टाव तुष्टः 3-4

ग्राहग्रस्तेभमोक्षे सुररिपुदमने गोकुलत्राणकार्ये

गोदार्थोक्षावमर्दे सदहितमथने सिन्धुपर्यङ्कयोगे

क्षोणीभारव्यपोहे क्षितिधरवसतौ निर्जराराध्यतायाम्

विश्वारम्भे शौरेः शुभतनुसुषमोन्मादकत्वम् जगाद 3-5

 

पद्माक्षीम् पापहन्त्रीम् मणिरुचिम् अमराधीशचिन्त्याङ्घ्रिपद्माम्

तत्तादृक्कुन्तलश्रीसुघटितमकुटाम् भावुकप्राप्यपादाम्

शुद्धास्वाद्यस्वभावाम् यमभटमथनीम् भक्तधीवृत्तिभव्याम्

नीचोच्चाभीष्टवृत्तिम् हरितनुमवदत् निर्मलार्चानुरक्तः॥ 3-6

 

स्फीतालोकातिभूम्ना पृथुबहुभुजया दिव्यमाल्यास्त्रभाजा

सद्वस्त्राकल्पक्लृप्त्या त्रिदशरसकृता रक्षणौन्मुख्यवत्या

मुक्तैरुत्तम्सिताङ्र्घ्या स्थिरधृतरमया श्यामया नित्यसत्या

शौरेः कान्त्या जितानाम् स्वबहुमतजनस्वामितामन्वमम्स्त 3-7   

 

चित्ताकृष्टिप्रवीणैः अभिलपनसुखैः स्पर्शवाञ्छाम् दुहानैः

आतन्वानैः दिदृक्षाम् श्रुतिहितसहितैः आत्मनित्यादरार्हैः

विश्लेषाक्रोशकृद्भिः स्मरदरतिकरैः दत्तसायुज्यसङ्गैः

कुर्वाणैः बाललौल्यम् मिलितगुणगणैः नित्यदृश्याङ्गमाह 3-8

 

रम्यस्थानादियोगात् अमितविभवतः सत्पथप्रापकत्वात्

सम्यक्सायुज्यदानात् अनघवितरणात् सर्वशेषित्वचिह्नात्

प्रख्याताख्यासहस्रैः अवतरणरसैः भुक्तिमुक्त्याभिमुख्यात्

त्रैलोक्योत्पादनाच्च स्तुतिविषयतनुम् व्याहरन्निन्दितान्यः 3-9   

 

प्रादुर्भावानुभावात् परिजनविभवात् पावनालङ्क्रियत्वात्

जैत्रव्यापारयोगात् अघटितघटनात् देवभावप्रसिद्धेः

आश्चर्यक्रीडनत्वात् सरसिजनिलयानन्दनात् छन्दवृत्तेः

ऐश्वर्यव्यक्तिमत्वात् अघशमनतनुम् केशवम् व्याजहार 3-10

 

एवम्  सौन्दर्यभूम्ना तनुविहितजगत्कृत्यसौभाग्ययोगात् 

स्वेच्छासेव्याकृतित्वात् निखिलतनुतयोन्माददानार्हकान्त्या

लभ्यार्चावैभवत्वात् गुणरसिकगुणोत्कर्षणात् अक्षकृष्ट्या

स्तुत्यत्वात् पापभङ्गात् शुभसुभगतनुम् प्राह नाथम् तृतीये 3-11

 

शतकम् 4

 

श्रीमान्नारायणः स्वाम्यनुगुणमकुटः वीरदामाङ्कमौळिः

 

दुर्दान्तारातिहन्ताऽद्भुतनियततनुः कल्पपाथॊधितल्पः ।

 

विश्वाद्यम् ज्यॊतिरुर्वीधरफणिशयनॊ वॆदरूपस्वकॆतुः

 

निर्धूताशॆषदॊषः प्रभुरथ कथितः सुस्थिरैश्वर्यसीमा ॥ 4-1

 

 

शैत्यात् सौगन्ध्यभूम्ना रुचिरुचिरतया पॊषणादाभिरूप्यात्

 

सन्दर्भात् पुष्प सङ्गात् महिततुलसिकामालया शङ्खतश्च ।

 

चक्राधीशस्य यॊगात् वटदळशयनाद्यर्हणीयापदानैः

 

सम्पन्नानॆकभॊग्यम् निरविशदजितम् कृष्णमूर्तिम् शठारिः ॥ 4-2

 

चॆतॊगन्धानुलॆपः स्तुतिवचनकृतस्रक्पटॊऽञ्जल्युपात्ता

 

लङ्कारः प्राणवासी कलितवरशिरॊभूषणश्चॆतनॆन ।

 

शीर्ष्णा सत्पादपीठः स्वतनुसदनतामात्मरूपॆ वितन्वन्

 

अन्यॊन्यात्मत्वयॊगात् प्रभुरगणि मिथःश्लिष्टभावॊऽथ तॆन 4-3

 

भूम्याद्यैः सागराद्यैः ज्वलनशशिमुखैः वस्तुभिर्वत्सपूर्वैः

 

नृत्यद्भिः स्वैश्च लॊकादिभिरथ पृथिवीक्षिद्भिरात्मीयदासैः ।

 

सौलभ्यैश्वर्यवर्गैरपि च गुणगणैः वासुदॆवॊ वियॊगॆ

 

स्वीयैस्तुल्यैश्च भक्तान् व्यथयति मधुहॆत्यब्रवीत् कारिसूनुः ॥ 4-4

 

आपन्नानन्यबन्धौ सरसिजनिलयावल्लभॆ सान्द्रमॊदॆ

 

भक्ताघध्वम्सशीलॆ तदुचितसमयाश्वासदानप्रवीणॆ ।

 

कर्पूरालॆपशॊभॆ समधिकरहितॆ तॊषकॆ सर्वपूर्णॆ

 

कृष्णॆ स्तुत्यादिभाजाम् शठरिपुरवदत् धन्यताम् निन्दितान्यः ॥ 45

 

इच्छासारथ्ययॊगात् प्रहरणनवनात् श्रीतुलस्याढ्यमौळॆः

 

स्तुत्याङ्घ्र्यॊः पादधूल्या स्वजनभजनतत्पादधूलीनमॊभिः ।

 

तन्मूलस्वाङ्घ्रिनुत्या तदितरभजनत्यागपूर्वॊपसत्त्या

 

दॆवम् प्राचिख्यपत् स्वप्रणयिषु भिषजम् कॆसरस्रग्विभूषः 46

 

आपद्बन्धुत्वदीप्तम् निरवधिकमहानन्ददम् क्रान्तलॊकम्

 

दुर्दर्शम् दॆवतानाम् पितरमनुपधिम् सर्वभूतान्तरस्थम् ।

 

पूर्णज्ञनैकमूर्तिम् ध्रुतशुभतुलसीम् चक्रनाथम् श्रुतीनाम्

 

विश्रान्तिस्थानमीशम् विशदबहुगुणम् प्राह खिन्नः शठारिः ॥ 47

 

दुश्शीलॊ माम्सचक्षुः निरवधिदुरितॊ वीतलज्जॊ विलॊलः

 

प्रॆक्षाहीनॊऽन्यसङ्गात् कृतमपि लघयन् श्रीशमन्तर्दधानः ।

 

कर्मज्ञानादिशून्यः निरुपधिविहिताम् ज्ञानदृष्टिम् विनिन्दन्

 

प्रख्याप्यैवम् स्वदॊषान् पतिगुणरसिकः तद्दिद्रुक्षाम् चचक्षॆ ॥ 47

 

सौन्दर्यादौ स्वकीयॆ हृदि च खनिकरॆ पूर्णतायाम् च कान्तौ

 

सम्यग्ज्ञानॆ प्रकाशॆ वलयरशनयः वर्ष्मणि स्वस्वरूपॆ ।

 

स्यादिष्णॊर्यद्युपॆक्षा तदिदमखिलमून्मूलनीयम् तदीयैः

 

इत्यूचॆ कारिसूनुः तदुपरि कथयम्स्तम् शिवाद्याश्रिताङ्गम् ॥ 4-8

 

कारुण्यादब्धिमाथी तदुपरि शयितः तत्समानाङ्गवर्णः

 

ख्यातौदार्यः स्वदानॆ रुचिरमणिरुचिः वॆषतॊऽतीव भॊग्यः ।

 

आत्मत्वॆनानुभाव्यः दुरधिगमपदः बन्धमॊक्षस्वतन्त्रः

 

स्वान्यप्रॆमॊपरॊधी स्वदत इह विभुः तत्पदॊत्कण्ठिताय ॥ 4-9

 

तापैः सम्बन्धि दुःखैः स्वविभवमरणैः तापकृद्भॊग्यसङ्गैः

 

दुर्गत्याज्ञातिवृत्तॆः अनितरविधुतॆरण्डकारानिरॊधात् ।

 

प्रह्वीभावॊज्झितत्वात् प्रलघुसुखपरिष्वङ्गतश्चातिशॊच्यम्

 

विश्वम् द्रष्टुम् न शक्तॊ निजपदनयनॆ नाथति स्म स्वनाथम् ॥ 4-9

 

स्वानाम् निर्वाहकत्वात् अहिपतिशयनात् अब्धिवर्णस्वभावात्

 

अत्यन्तॊदारभावात् वलभिदुपलवत् दर्शनीयत्वयॊगात् ।

 

सन्मौळित्वात् तुलस्या प्रियकरणमुखैरण्डसृष्टौ पटुत्वात्

 

सुप्रापत्वादिभिः तम् फलमतुलमवैत् भेजुषामॆष नाथम् ॥ 4-9

 

कल्पान्तॆऽपि स्थितत्वात् सकलसुरगण स्रष्टृभावात् जनानाम्

 

रक्षाद्यापादकत्वात् शिवविधिभरणात् सर्वदॆवात्मभावात् ।

 

तत्तत्कर्मानुरूपम् फलवितरणतॊ वैनतॆयध्वजत्वात्

 

मार्कण्डॆयावनादॆः प्रभुमथ शठजित् प्राह सर्वामरॊच्चम् ॥ 4-10

 

नित्यैश्वर्यम् तु तुर्यॆ सहजबहुलसद्भॊग्यमन्यॊन्यसक्तम्

 

क्लॆशापादिस्वतुल्यम् स्वजनकृतकृतार्थीकृतिम् स्नॆहिवैद्यम् ।

 

सम्युक्तम् सद्गुणौघैः स्वजनपरिहृतॊपॆक्ष्यमिष्टार्थरूपम्

 

श्रॆष्ठम् निश्शॆषभॊग्यादमनुत शतकॆ दॆवतासार्वभौमम् ॥ 4-11

 

शतकम् 5

 

चक्रस्फायत्करत्वात् स्वजनवशतया रक्षणॊद्युक्तभावात्

 

भव्यत्वात् स्वात्मदानात् विमलतनुतया श्रीगजॆन्द्रावनाच्च ।

 

नानाबन्धुत्वयॊगात् विपदि सखितया व्याजमात्राभिलाषात्

 

कारुण्याधीनवृत्तिम् कमलदृशमवैत् कारिसूनुः कृतार्थः ॥ 5-1

 

पाथॊधिप्रौढकान्तौ सरसतुलसिकालङ्कृतौ धातृभावॆ

 

वैकुण्ठत्वॆ च चक्रप्रहरणवशितादॆवतास्थापनादौ ।

 

स्वानामच्यावनादौ सकलनियमनॆ सकलकर्मॆज्यभावॆ

 

नित्यासक्तैः स्वभक्तैः जगदघशमनम् प्राह कृष्णम् शठारिः ॥ 5-2

 

ज्यॊतीरूपाङ्गकत्वात् सरसिजनयनाविष्टविध्वम्सकत्वात्

 

मॆघौघश्यामळत्वात् श्रितसरसतया उत्कृष्टसौलभ्ययॊगात् ।

 

रक्षायाम् सावधानात् सुभगतनुतया सॊपकारास्त्रवत्त्वात्

 

स्वानाम् प्रॆमातिमात्रम् जनयति भगवानित्यवादीत् शठारिः ॥ 5-3

 

आपद्बन्धुत्वकीर्त्या यदुकुलजननात् धीरवीरत्वकीर्त्या

 

लॊकानाम् विक्रमाच्च आश्रितदुरितहृतेः अद्भुतैश्चॆष्टितैश्च ।

 

चक्राद्यस्त्रान्वितत्वात् कमलनयनसम्पदा वामनत्वात्

 

क्षीराब्धौ शॆषशायी जगदवनमहादीक्षितॊऽज्ञायि तॆन ॥ 5-4

 

शङ्खाद्यैः यज्ञसूत्रादिभिरपि च तथा शार्ङ्गमुख्यैः तुलस्या

 

बिम्बॊष्ठाद्यैः सुनासाव्रतति निरवधि ज्यॊतिरूर्जस्विमूर्त्या ।

 

नॆत्राब्जाद्यैरशॆषाभरणसुषमया स्वैश्च भक्तैर्मनॊज्ञः

 

दॆवः स्वानामजस्रम् स्मृतिविषयतया भाति चॆत्यभ्यधायि ॥ 5-5

 

स्रष्ट्रुत्वाद्यैः जगत्याः सकलविधकलावर्तकत्वॆन भूता

 

न्तर्यामित्वॆन कृत्युद्धरणपरतया भूभरापाकृतॆश्च ।

 

शैलॆन्द्रॊद्धाराणाद्यैः स्वजनहिततया ब्रह्मरुद्रॆन्द्रभावात्

 

दुष्कर्मॊन्मूलनाद्यैः प्रभुरनिशमहम्बुद्धिबॊध्योन्वभावि ॥ 5-6

 

सर्पाधीशॆशयत्वात् अरिदरभरणात् सानुकम्पत्वयॊगात्

 

सत्साहाय्यादशॆषान्तरनिलयतया भूसमुद्धृत्युदन्तैः ।

 

सर्वॆषाम् तातभावात् इतरजनदुराधर्षतादेः शरण्यम्

 

दीनानाम् प्राह विष्णुम् शठजनमथनॊ दॆवतासार्वभौमम् ॥ 5-7

 

निस्सौहित्यामृतत्वात् स्ववशजनितया अनन्यभावप्रदानात्

 

मर्यादातीतकीर्त्या नळिननयनतॊ नायकत्वात् सुराणाम् ।

 

सर्वश्रैष्ठ्यादियॊगात् अनितरगतिताद्यावहासन्नभावात्

 

दास्यॆ स्वॆ स्थापयॆत् स्वान् हरिरिति शठजित् स्थापयामास कृष्णम् ॥ 5-8

 

स्वामित्वात् सम्श्रितानाम् उपकरणरसात् स्वॆष्टसम्श्लॆषकत्वात्

 

सर्वास्वादत्वभूम्ना कपटवटुतया दारुणापत्सखत्वात् ।

 

दिव्यस्थानॊपसत्त्या भ्रमदरिभरणाच्चापि नारायणत्वात्

 

अत्यासन्नः श्रितानाम् भवति हरिरिति प्राह कारॆस्तनूजः ॥ 5-9

 

प्रादुर्भावादिवृत्तैः वृषगणदमनात् पूतनाशातनाद्यैः

 

मॊहार्थम् बौद्धकृत्यैः गिरिवरभजनस्वीकृतॆः स्थानभेदैः ।

 

तॆजॊध्वान्तादिभावात् जलनिधिशयनात् भिक्षणाद्यैस्त्रिपद्याः

 

पीयूषस्पर्शनाद्यैः शिथिलयति हरिः स्वीयहृच्चॆत्यथॊचॆ ॥ 5-10

 

इत्थम् कारुण्यनिघ्नम् दुरितहरजनम् प्रॆम तीव्रम् दुहानम्

 

लॊकानाम् रक्षितारम् स्मृतिविषयमहम्भावनागॊचरम् च ।

 

दीनानाम् सच्छरण्यम् स्वरसकृतनिजप्रॆष्यतावाञ्छमूचॆ

 

प्राप्तम् शक्तिपदम् श्रीपतिमिह शतकॆ श्रॆयसामॆकहॆतुम् ॥ 5-11

 

शतकम् 6

 

चक्रित्वात् स्वामिभावात् विपदि सखितया बिम्बदृश्याधरत्वात्

 

अब्धिश्यामात्मकान्त्या धृततुलसितया निर्जराधीशभावात् ।

 

रक्ताभास्याङ्घ्रिभावात् पृथुमकुटतया आश्चर्यचर्याविशॆषैः

 

लङ्काध्वम्साच्च कृष्णम् शठजिदकथयत् दॆशिकद्वारगम्यम् ॥ 6-1

 

पूर्णत्वात् गॊपनारीजनसुलभतया लॊलनादम्बुराशॆः

 

न्यग्रॊधाग्रॆशयत्वात् अरिसुभगतया श्रीमहीवल्लभत्वात् ।

 

निर्दॊषॊत्तुङ्गभावात् निरवधिक यशस्सद्वशीकारिद्रुक्त्वात्

 

मॊक्षस्पर्शॆच्छया च स्वयमभिसरतीत्याह कृष्णम् शठारिः ॥ 6-2

 

सम्पद्दारिद्र्यभावात् असुखसुखकृतेः पत्तनग्रामभावात्

 

पुण्यापुण्यादिभावात् कपटऋजुतया सर्वलोकादिभावात्

 

दिव्यादिव्याङ्गवत्त्वात् सुरदितिजगणस्निग्धशत्रुत्वकीर्त्या

 

छायाच्छायादिभावात् अघटितघटनम् प्राह कृष्णम् शठारिः॥ 6-3

 

रासक्रीडादिकृत्यैः विविधमुरलिकावादनैः मल्लभङ्गैः

 

गॊपीबन्धार्हभावात् व्रजजननमुखैः कम्सदैत्यादिभङ्गैः ।

 

प्रादुर्भावैः निहीनेष्वसुरभुजवनच्छेदमुख्यैः चरित्रैः

 

आकर्षॆत् सर्वचित्तम् हरिरिति कथयामास कारॆरपत्यम् ॥ 6-4

 

शङ्खाच्चक्रादितश्च त्रिदशसुरतया सिन्धुशायित्वभूम्ना

 

दॆवानाम् स्वामिभावात् अतिसुभगतयाऽलङ्कृतॆः कुन्दभङ्गात् ।

 

तद्वच्चॊदारभावात् अरुणसरसिजाक्षत्वचिह्नाभिधानैः ।

 

दॆवीभिः सेव्यभावात् अतिसुलभतया स्वॆष्वतिस्निग्धभावात्

 

बन्धुभ्यः स्वान् मुरारिः विघटयति हठादित्यवॊचत् शठारिः ॥ 6-5

 

पारम्याद्यैश्च पञ्चायुधविधृतिमुखैः ब्रह्मणः स्रष्ट्रुभावात्

 

प्रादुर्भावैश्च सर्वान्तरनिलयतयाऽहम्ममॆत्यादिधैर्यम्

 

चातुर्यादीनि नॄणामपहरति हरिः चेत्यभाणीत् शठारिः ॥ 6-6

 

पारम्यात् भव्यभावात् स्रगभिहितिमुखैः श्रीशतैश्वर्यभूम्ना

 

स्नॆहित्वादाभिरूप्यात् श्रितपरवशतासर्वलॊकॆशताद्यैः ।

 

धृत्यादॆरादिहॆतुम् मुरमथनमथ व्याहरत्  सम्श्रितानाम्

 

वॆदानागस्त्यभाषावपुष उदधरत् श्रॆयसॆ दॆहिनाम् यः ॥ 6-7

 

लॊकस्रष्टृत्वशक्त्याऽऽयुधसुभगतया जिष्णुसारथ्ययॊगात्

 

स्रग्भ्राड्दॆवॆशभावात् गरुडरथतया स्वाश्रितॆ पक्षपातात् ।

 

कान्त्या साम्राज्ययॊगात् अवतरणदशास्पष्टपारम्यतश्च

 

स्वीयायत्तस्वभूतिद्वयमथ कथयामास दॆवम् शठारिः ॥ 6-8

 

सर्वात्मत्वात् जगत्याः क्रमणत उत सम्रक्षणात् विष्टपानाम्

 

शत्रुध्वम्सात् परत्वाद्यभिमतदशया पञ्चधाऽवस्थितत्वात् ।

 

निर्वाहादण्डकॊट्या बुधदयिततया सर्वशीर्ष्ण्यङ्घ्रिदानात्

 

मॊक्षॆच्छॊत्पादकत्वात् हरिमथ शठजित् वक्त्यनर्हद्वियॊगम् ॥ 6-9

 

आपत्सम्रक्षणादर्युपकरणतया मॆघसाम्यादिभूम्ना

 

स्वानाम् विश्वासदानात् सुरगणभजनात् दिव्यदॆशॊपसत्त्या ।

 

प्राप्याप्राप्यत्वयॊगात् स्वजनविजनयॊः सत्प्रपत्तव्यभावात्

 

ऊचॆ नाथम् शरण्यम् श्रुतिशतविदितम् वॆङ्कटॆशम् शठारिः ॥ 6-10

 

इत्थम् सद्वारगम्यम् स्वयमितम् असहस्थायिनाम् यॊजनार्हम्

 

कर्षन्तम् स्वैः चरितैः विघटितविजनम् स्वान्वितस्तॆयदक्षम् ।

 

धृत्यादीनाम् निदानम् घटकवशमहाभूतियुग्मम् शठारिः

 

वैघट्यस्याप्यनर्हम् प्रपदनसुलभम् प्राह षष्ठॆ शरण्यम् ॥ 6-11

 

शतकम् 7

 

निस्सङ्ख्याश्चर्ययॊगात् अतिमधुरतयाऽथॊ जगत्कारणत्वात्

 

न्यग्रॊधार्हत्वभूम्ना त्रिदशपतितया वाङ्मनस्सन्निधानात् ।

 

पीयूषस्पर्शनाद्यैरखिलपतितया लॊकसम्रक्षणाद्यैः

 

शाठ्याशङ्काम् सहॆत त्रितनुरसुरहॆत्याह चिञ्चान्तिकस्थः ॥ 7-1

 

श्रीरङ्गॆ सन्निधानात् निखिलजगदनुस्रष्टृताद्यैः शुचित्वात्

 

विध्वस्तानिष्टभावात् उरगशयनतः पुम्सु कर्मानुरूपम् ।

 

शर्माशर्मप्रदानात् जलदतनुतयॊपक्रियातत्परत्वात्

 

स्वामी स्वानाम् विगर्हामुपशमयति चॆत्याह धीमान् शठारिः ॥ 7-2

 

पद्माक्षत्वॆन हृत्स्थः परमखनिलयः स्वोपकारी विगर्ज

 

च्छङ्खॊनिष्टप्रहर्ताऽऽदरविलसनकृत् रक्षकॊऽबॊधिदृश्यः ।

 

आपत्सम्रक्षकः श्रीमकरवरलसत्कुण्डलः स्वाङ्गकान्त्या

 

स्वॆषु स्वम् गॊप्तृभावम् प्रकटयति हरिः चॆत्यशम्सत् शठारिः ॥ 7-3

 

विक्रान्त्या विष्टपानाम् अमृतमथनतः चोद्धृतॆर्भूतधात्र्याः

 

कल्पॆ लॊकादनाच्च क्षितिभरहरणात् दैत्यराजप्रहारात् ।

 

लङ्कासङ्कॊचकत्वात् असुरभुजवनच्छॆदनात् लोकसृष्टॆः

 

धृत्या गॊवर्धनाद्रेः स्फुटजगदवनप्रक्रियम् श्रीशमाह ॥ 7-4

 

साकॆतॆ मुक्तिदानात् स्थिरचरजनुषाम् सर्वशॊ रक्षकत्वात्

 

चैद्यॆ सायुज्यदानात् जगदुदयकृतॆः उद्धृतॆः भूमिदॆव्याः ।

 

याञ्चार्थम् वामनत्वात् शिवभजकमुनेः मोक्षदानाद्युदन्तैः

 

स्नॆहम् सर्वाश्रयम् स्वम् प्रकटयति हरिः चॆत्यथाज्ञायि तॆन ॥ 7-5

 

नाभीपद्मॊज्ज्वलत्वात् विधिशिवभजनीयाङ्घ्रिभावात् गवाम् च

 

त्राणाद्यैः सर्वभूतान्तरनियमनतः सम्श्रितॆ भव्यभावात् ।

 

ब्रह्माद्यापद्विमॊक्षात् असुरनिरसनात् त्रातरक्षॊऽनुजत्वात्

 

स्वीयाक्रन्दापहारी भवति च भगवान् इत्यवादीत् शठारिः ॥ 7-6

 

दृग्भ्याम् पद्माकृतिभ्याम् अमरतरुलतानासिकातॊऽधरॆण

 

भ्रूचापॆन स्मितॆनाप्यथ मकरलसत्कुण्डलाभ्याम् विशिष्टः ।

 

फालॆनार्धेन्दुभासाऽमलमुखशशिना नॆत्रशॊभादिभाजा

 

श्रीमान् दॆवः किरीटी स्मृतिविशदतनुः भाति चॆत्यभ्यधायि ॥ 7-7

 

भूतैश्चन्द्रार्यमाद्यैः सकलयुगगतैः वस्तुभिः चॆतनाद्यैः

 

स्वैर्लॊकानाम् नियत्या स्मरणतदितरॊत्पादनात् माननाद्यैः ।

 

दुर्ज्ञॆयत्वात् स्वभाजाम् बहुशुभकरणात् वॆदसम्वॆद्यभावात्

 

श्रीमानाश्चर्यनानाविभव इति ततः श्रीधरः प्रत्यपादि ॥ 7-8

 

स्वामित्वाश्चर्यभावादपि च करुणया दत्तवाग्जृम्भणत्वात्

 

उज्जीवापादकत्वा अघटितघटनाशक्तिवैकुण्ठयॊगात् ।

 

शुद्धस्वान्तत्व चक्रायुध जलधिसुतावल्लभत्वात् पितृत्वात्

 

स्वॆ स्तॊत्रॆ विष्णुरप्रत्युपकृतिविषयॆ स्वान् युनक्तीत्यगायत् ॥ 7-9

 

वैकुण्ठॆ नित्ययॊगात् श्रितविवशतया अनन्तकीर्त्युज्ज्वलत्वात्

 

शॆषॆ शायित्व रुक्मिण्यभिमतसुरजिद्बाणदॊःखण्डनाद्यैः ।

 

ग्राहग्रस्तॆभरक्षाभिरुचितविषयॆ सन्निधानात् शुचित्वात्

 

स्तॊतॄणाम् दुःखजातम् विघटयति हरिः तीर्थपादॊऽभ्यदायि ॥ 7-10

 

शाठ्याशङ्कासहिष्णुम् प्रशमितजनतागर्हणम् स्पष्टरक्षम्

 

व्याकुर्वन्तम् स्वरक्षाक्रममखिलजनस्नॆहिताम् दर्शयन्तम् ।

 

स्वीयाक्रन्दच्छिदॊत्कम् स्मरणसुविशदम् विस्मयार्हद्विभूतिम्

 

स्तॊत्रॆ युञ्जन्तमाह स्तुतिकृदघहरम् सप्तमॆऽनिष्टचॊरम् ॥ 7-11

 

शतकम् 8

 

श्र्याद्यैः पत्न्यादिमत्त्वात् रघुयदुकुलयॊरुद्भवात् स्वाश्रितॆच्छा

 

धीनॆहाविग्रहत्वात् सकलचिदचितामन्तरात्मत्वभूम्ना ।

 

स्वामित्वात् स्वाश्रितावॆध्यखिलगुणतया ज्ञानिनामप्यदुःख

 

स्थानॆच्छापादनाद्यैः हरिरकथि परम् दर्शनॆच्छोः सुदृश्यः ॥ 8-1

 

तार्क्ष्यॊद्यद्वाहनत्वात् शुभनयनतया नीलमॆघाकृतित्वात्

 

आश्चर्यॊच्चॆष्टितत्वात् दुरवधरतया यॊगिभिः निर्जरैश्च ।

 

स्वॆषु व्यामुग्धभावात् प्रतिहतिविरहात् दुर्जनादृश्यभावात्

 

निस्सङ्गानाम् जनानाम् सुलभतम इति प्राह नाथः शठारिः ॥ 8-2

 

श्रीभूमिनायकत्वात् अरिसुरकरतया कल्पसिन्धौ शिशुत्वात्

 

श्रीस्थानॆ सन्निधानात् सुरहितकरणात् श्रीनिवासत्वयॊगात् ।

 

विक्रान्त्या विष्टपानाम् विधिदुरधिगमात् स्वॆषु सौलभ्यभूम्ना

 

चैकाकी स्वाश्रितानाम् विहरणसमयॆ श्रीधरः प्रत्यपादि ॥ 8-3

 

दुर्दान्तॆभॆन्द्रभङ्गात् शुभनिलयतया साम्यतः चॆतरॆषाम्

 

स्वायत्तत्वॆन भानात् श्रितहृदि सततम् दॆवतद्द्वॆषिसङ्घॆ ।

 

मित्रामित्रत्वयॊगात् जगदुदयकृतॆः दॆवतात्मत्वमुख्यैः

 

श्रीमान् वैकुण्ठनाथः श्रितविहितसमग्रत्वभूमाऽन्वभाषि ॥ 8-4

 

आश्चर्यॆहान्वितत्वात् शुभमकुटतया स्वामितोऽब्धौ शयित्वात्

 

जीमूतश्यामलत्वात् श्रितसुलभतया पद्मसूर्यॊपमाङ्गात् ।

 

सारथ्यात् पाण्डुसूनॊः अवनिभरहृतॆः अन्तरात्मत्वयॊगात्

 

जीवापॆक्षाप्रतीक्षॊ भवति तदवनॆ श्रीधरः चॆत्यभाणि ॥ 8-5

 

भातत्वात् श्रीतुलस्या श्रितहृदि शयनात् श्रीद्धवक्षस्कभावात्

 

आश्चर्यॊपक्रियत्वात् सुरगणभजनात् वैरिविध्वम्सकत्वात् ।

 

गॊविन्दत्वात् अशॆषाभिमतविषयतॊऽभीष्टसच्चित्तकत्वात्

 

सर्वाकाराद्भुतत्वात् स्वपदवितरणॆ सज्ज इत्याह कृष्णम् ॥ 8-6

 

भव्यत्वात् रक्षकत्वात् त्रिजगदधिककारुण्यतॊ गॊपभावात्

 

नीलाश्माद्रिप्रभत्वात् स्वजनकृतनिजात्मप्रदानप्रभुत्वात् ।

 

मन्दस्मित्या स्थितत्वात् हृदि सुकृतिषु चातर्कितानुग्रहत्वात्

 

स्वानाम् चित्तानपायात् स्वजनहृदि रतॊ माधवः चॆत्यवॊचत् ॥ 8-7

 

प्रासाधित्येन भानात् हृदि च विभुतयाऽलम् महिम्ना परत्वात्

 

माधुर्यात् दॆहदॆह्यादिषु च गततया स्वस्वरूपप्रकाशात् ।

 

अन्त्यस्मृत्याऽऽप्यभावात् स्वपरमपुरुषैक्यभ्रमध्वम्सकत्वात्

 

ज्ञानाज्ञानप्रदत्वात् प्रकटयति हरिः पुम्सि दास्यम् स्वमूचॆ ॥ 8-8

 

वैलक्षण्यात् स्वमूर्तॆः मकुटमुखमहाभूषणैः भूषितत्वात्

 

स्वार्हानॆकायुधत्वात् प्रळयसखितयॊज्जीवनॆ कर्षकत्वात् ।

 

भव्यत्वाद्यैश्च सम्पन्निरवधिकतयाऽऽश्चर्यचॆष्टत्वयॊगात्

 

निष्ठाम् दास्यॆ स्वकीयॆ प्रकटयति हरिः चॆत्यथाज्ञायि तॆन ॥ 8-9

 

व्यामुग्धत्वात् स्वकीयॆष्वमलघनरुचा वामनत्वॆन चाप

 

द्बन्धुत्वाश्चर्यभावात् अहितनिरसनात् लोकसृष्ट्यादिशक्तॆः ।

 

अब्धौ शायित्वयॊगात् श्रितदुरितहृतॆः चातसीपुष्पकान्त्या

 

त्वाकृष्टेः स्वीयदास्यावधि विशदयतीत्याह नाथः स्वदास्यम् ॥ 8-10

 

इत्थम् सूरिर्दिदृक्षोः दृशिविषयम् निस्पृहैरॆव लभ्यम्

 

स्वानाम् विश्लॆषभॊग्यम् श्रितविहितसमग्रत्वभूतिम् शठारिः ।

 

स्वापॆक्षासव्यपॆक्षम् स्ववितरणपरम् हृद्गतम् स्पष्टयन्तम्

 

दास्यम् स्वम् तस्य निष्ठाम् तदवधिमपि चाप्यष्टमॆ स्वॆष्टवश्यम् ॥ 8-11

 

शतकम्  9

 

आपद्बन्धुत्वकीर्त्या दृढमतिजननात् दैत्यनाशाय भूमौ

 

जातत्वात्त्त् उत्तरस्याम् पुरि मधुरपदालङ्कृतायाम् दयाब्धेः ।

 

बन्धॊः कृष्णस्य पादाश्रयणमिह विना नॊ सहायः पुमर्थॊ

 

रक्षासामर्थ्यहानेः भविन इति हितम् कारिसूनुः बभाषॆ ॥ 9-1

 

लक्ष्मीसम्बन्धभूम्ना मितधरणितया पद्मनॆत्रत्वयॊगात्

 

स्थित्याद्यैः स्वैः चरित्रैः स्वहृदपहरणात् श्रीगजॆन्द्रावनाच्च ।

 

तार्क्ष्याम्सौ चाधिरुह्यारिगणनिरसनात् दॆवदुष्प्रापताद्यैः

 

दुष्कर्मॊन्मूलनाद्यैः सुचिरकृतदयः माधवः चॆत्यवॊचत् ॥ 9-2

 

नैकश्रीनामवत्वात् जगदुदयसुसम्थापनाद्यैः हरित्वात्

 

दानात् मॊक्षस्य हॆयप्रतिभटघटकश्रॆणिसम्पत्तिमत्त्वात् ।

 

प्रह्लादाह्लादकत्वात् वृषगिरिकटकॆ सन्निधानादिकृत्यैः

 

शर्वादॆः स्वाङ्गदानात् अकथि यदुपतिः शीलरत्नाकरॊऽसौ ॥ 9-3

 

लक्ष्मीवक्षस्कभावात् स्वजनसुलभता पर्वतॊद्धारणाद्यैः

 

दुर्ज्ञॆयत्वात् सुरादॆः अखिलपतितया नाकिनाम् वृद्धभावात् ।

 

स्वॆषाम् हृद्वासितायाः स्वजनवशतया तत्र चासक्तिभूम्ना

 

स्वस्वामित्वादिबन्धात् जगदवति हरिः चॆत्यभाणीत् शठारिः ॥ 9-4

 

प्राणत्वात् अद्भुतत्वात् अपि च सुविदितत्वॆन भव्यत्वयॊगात्

 

क्ष्मीवक्षस्कभावात् रघुकुलजननात् नीलरत्नाभमूर्त्या ।

 

कृष्णत्वात् अब्जद्रुक्त्वात् परमपतितया चॆश्वरम् सम्श्रितानाम्

 

ऊचॆ धीमान् शठारिः स्वगुणगरिमसम्स्मारकम् सर्वदर्शी ॥ 9-5

 

आश्चर्यॆहान्वितत्वात् अखिलपतितया चान्तरात्मत्वभूम्ना

 

अशक्यॆ शक्तत्वभूम्ना जलदतनुतया भव्यताकर्षकत्वात् ।

 

औदार्यादॆर्विशिष्टादपि च भवभ्रुताम् रक्षणॆ तीव्रसङ्गात्

 

विस्मर्तुम् नैव शक्यॊ हरिरिति शठजित् कम्सजॆतारमाह ॥ 9-6

 

रम्यत्वात् श्रीतुलस्या श्रितजनसहितत्वॆन पद्माक्षतायाः

 

स्वामित्वात् सत्परञ्ज्योतिरिति कथनतः श्रीधरत्वातिकीर्त्या

 

पुष्पश्यामत्वभूम्ना रथचरणमुखस्वायुधत्वाद्युदन्तैः

 

शौरेः धीमान् शठारिः घटकमुखसुविस्रम्भणीयत्वमाह ॥ 9-7

 

वल्लीमध्यैत्वयॊगात् जगति सुविदित श्रीवचॊवाच्यभावात्

 

भूम्याद्यैश्वर्ययॊगात् अवतरणदशासाहचर्यात् स्वाभर्तुः

 

सन्धातृत्वात् सुबॊधप्रददुरितहरत्वात् समासन्नभावात्

 

लक्ष्म्याः कान्तम् शठारिः प्रथयति च सुमज्जानिभावॆन नाथम् ॥ 9-8

 

पद्माक्षत्वप्रसिद्ध्या जगदवनतया भव्यताद्यैश्च सार

 

ग्राहित्वात् वॆणुनादैः हृषितजनतया स्वाङ्गदानादजादॆः ।

 

श्यामत्वात् गव्यचॊरत्वत उत सरसस्मॆरचॆष्टत्वभूम्ना

 

नः कूटस्थॊऽत्र सिद्ध्युन्मुखसमयतया ख्यापयामास कृष्णम् ॥ 9-9

 

सर्वश्रैष्ठ्यात् स्वकीयैरपि जगदवनात् दण्डषण्डाधिपत्यात्

 

नीलाया वल्लभत्वात् अमृतवितरणात् भक्तसुस्निग्धभावात् ।

 

दासानाम् सत्यभावात् अतिसुजनतयाऽथॊ जगत्कारणत्वात्

 

श्रीमान् वॆलाप्रतीक्षॊ भवभयहरणॆ चॆत्यभाणीत् शठारिः ॥ 9-10

 

इत्थम् सर्वैकबन्धुम् चिरकृतकरुणम् शीलसिन्धुम् पतित्वात्

 

सम्बन्धाद्रक्षितारम् स्वगुणगरिमसम्स्मारकम् प्राह कृष्णम् ।

 

विस्मर्तुम् चाप्यशक्यम् घटकमुखसुविस्रम्भणीयम् सुमत्या

 

लक्ष्म्याश्लिष्टम् विसिद्ध्युन्मुखसमयमनॆहः प्रतीक्षम् सुमित्रम् ॥ 9-11

 

शतकम् 10

 

 

दैत्यानाम् नाशकत्वात् विधृततुलसिकामौलिभावात् जयित्वात्

 

सर्पाधीशॆशयत्वात् निरवधिकपरञ्ज्योतिरुल्लास्यभावात् ।

 

लॊकानाम् स्रष्ट्रुभावात् दशरथसुतता श्रान्तिहारित्वमुख्यैः

 

आकारैः सद्गतिः स्यात् जलदतनुरुचिश्चॆति तॆनाभ्यदायि ॥ 10-1

 

ऊचॆ श्रीकॆशवत्वाद्भुतचरितखगाधीशकॆतुत्वयॊगात्

 

आसन्नत्वात् पतित्वात् अमरपरिषदाम् आदिभूतत्वभूम्ना ।

 

व्यापारैः सृष्टिमुख्यैरपि च भुजगशायित्वमुख्यैः चरित्रैः

 

अध्वक्लॆशापहर्ता भवति च भगवानित्यनन्यः शठारिः ॥ 10-2

 

अम्भॊजाक्षत्वकीर्त्या यदुकुलजतया चात्मनः श्यामलत्वात्

 

गॊविन्दत्वात् प्रियॊद्यद्वचनपरतया चक्रराजायुधत्वात् ।

 

श्रीनीलाश्मप्रभत्वात् अतिसुभगतया गॊपिनिर्वाहकत्वात्

 

अस्थानस्नॆहशङ्कास्पदरस उदितः श्रीपतिः कारिजॆन॥ 10-3

 

श्रीमद्दामॊदरत्वात् अमरपरिषदामप्यगम्यत्वभूम्ना

 

चक्राधीशायुधत्वात् वटदलशयनात् नागराजॆशयत्वात् ।

 

मॊक्षस्पर्शॊन्मुखत्वात् परमपुरुषता माधवत्वादियॊगात्

 

दुष्प्रापॊऽयम् भजद्भिः सुगम इति दृढम् माधवम् सॊऽभ्यधत्त 10-4

 

नाम्नाम् सङ्कीर्तनॆन स्वपरिबृढतया भावनातॊऽनुवॆलम्

 

सम्स्मृत्या पुष्पदानाध्ययननिवचनैः स्तॊत्रनृत्यादिकृत्यैः।

 

धर्मैर्वर्णाश्रमॊक्तैः बहुविधभजनप्रक्रियॊ दीर्घबन्धुः

 

श्रीमन्नारायणश्चॆत्यकथयदखिलद्रामिडब्रह्मदर्शी॥ 10-5

 

चक्रित्वात् केशवत्वादिभिरपि च तथा श्रीशनारायणत्वात्

 

स्नॆहित्वात् पाण्डवानाम् अभिमततुलसीपूजनीयत्वभावात्

 

अम्भॊजाक्षत्वगॊविन्दत उत सुयशः श्रीपतित्वादिभावैः

 

श्रीमान् तीव्रॊद्यमॊऽयम् स्वपदवितरणॆ चॆति तॆनाभ्यधायि 10-6

 

अत्याश्चर्यस्वभावात् हृदयगततया स्वस्तुतौ प्रॆरकत्वात्

 

स्वामित्वात् सर्वभूतान्तरनुगततया स्वस्तुतौ कर्तृभावात् ।

 

आपद्बन्धुत्वयॊगात् बहुविधसविधस्थानवत्त्वॆन दॆवः

 

श्रीमानत्यादरः स्यात् स्वजनपरिकरॆष्वित्यथॊ सञ्जगाद ॥ 10-7

 

लक्ष्मीकान्तत्वयॊगात् विपदि सखितया दिव्यदेशस्थितत्वात्

 

मॊक्षॊद्यॊगात् तदर्थम् कृतशपथतया सर्वतः सन्निधानात् ।

 

दृष्ट्यन्तःसन्निवासात् अतिवितरणतः स्वस्वभावप्रकाशात्

 

स्वामित्वात् तुष्यतीत्थम् स्वयमनुपधितः श्रीपतिश्चॆत्यगायि ॥ 10-8

 

स्वामित्वात् श्रीशनारायण इति यशसा विक्रमाद्विष्टपानाम्

 

श्रीमत्त्वात् चक्रवत्त्वात् जलनिधिशयनाच्चापि गॊविन्दभावात्

 

वैकुण्ठस्वामिभावादपि च निजजनान् अर्चिराद्याख्यगत्या

 

स्वम् लॊकम् प्रापयॆत् श्रीपतिरिति कथयाम् श्रीशठारिः बभूव 10-9

 

ब्रह्मॆशान्तःप्रवेशात् जलनिधिसुतया सन्निरॊद्धव्यभावात्

 

दिव्यश्रीविग्रहत्वात् अखिलतनुतयाऽतृप्तपीयूषभावात् ।

 

पद्माबन्धुत्व भूम्युद्धरणकरणतः पुण्यपापॆशितृत्वात्

 

मुक्तॆर्दाताऽनुभाव्यॊ हरिरिति शठजिद्दर्शयन् मुक्तिमापः ॥ 10-10

 

एवम् स्वानाम् गतिम् व्यध्वजदुरितहरास्थानशङ्कार्हरागम्

 

सुप्रापम् भक्तिभाजाम् बहुविधभजनप्रक्रियम् श्रीशठारिः।

 

तीव्रॊद्यॊगम् स्वदानॆ स्वजनतनुकृतात्यादरम् प्राह चात्र

 

स्वॆच्छातुष्टम् सुखार्चिर्मुखसरणिमुखम् मॊक्षदम् मुक्तभॊग्यम् ॥ 10-11

 

इत्थम् सॆव्यम् सुभॊग्यम् शुभसुभगतनुम् सर्वभॊग्यप्रकृष्टम्

 

श्रॆयस्तद्दॆतुभूतम् प्रपदनसुलभम् स्वश्रितानिष्टजिष्णुम्

 

भक्तच्छन्दानुरक्तम् निरुपधिसुहृदम् सत्पदव्याम् सहायम्

 

श्रीशम् प्राह स्वसिद्धॆः स्वयमिह करणम् स्वप्रबन्धॆ शठारिः ॥

 

आद्यॆ स्वीयप्रबन्धॆ शठजिदभिदधॆ सम्सृतॆर्दुस्सहत्वम्

 

द्वैतीयीकॆ स्वरूपाद्यखिलमथ हरॆरन्वभूत्स्पष्टदृष्टम्

 

तार्तीयीकॆ स्वकीयाम् भगवदनुभवॆ स्फॊरयामास तीव्राम्

 

आशाम् तुर्यॆ यथॆष्टम् भगवदनुभवादाप मुक्तिम् शठारिः ॥

 

श्रीमान्सीमातिलङ्घि स्थिरतरकरुणः सर्ववित्सर्वशक्तिः

 

स्वामी सर्वस्य जन्तॊस्स्वचरणयुगळस्वीकृतास्माकभारः ।

 

किम् नः कृत्यम् स्वहॆतॊः किमिह न सुलभम् का विपत्तिर्भवित्री

 

कस्यान्यस्याधमर्णा वयमिति विदुषामाह तुङ्गत्वमन्तॆ ॥

 

शास्त्रॆ दॆहातिरिक्तात्मनि तदधिपतौ तत्प्रसादाद्युपायॆ

 

तस्मान्निश्श्रॆयसाप्तौ तदपचरणतॊऽनन्ततापाभिभूतॆ

 

तद्भक्तानाम् प्रभावॆ तदुपसदनतः स्वान्तकालुष्यशान्तौ

 

सारम् वॆद्यम् स्ववॆदॆ सकलमकथयत्सानुकम्पः शठारिः ॥

 

इत्थम् सत्सम्प्रदायक्रमसमधिगताशॆषवर्णार्हवॆद

 

श्रद्धाशुद्धाशयानामघटयदनघम् कौतुकम् वॆङ्कटॆशः ।

 

सम्यक्त्वॆ तस्य साक्षाच्छठरिपुरथ वा सर्वसाक्षी स साक्षी

 

सावद्यत्वॆऽपि सॊढुम् प्रभवति भजतामप्रकम्प्यानुकम्पः ॥

 

श्लॊकः श्लॊकत्वमभ्यागत इति नयतः शुद्धबॊधार्णवोद्यत्

 

नानाकल्लॊलनाथानुभवरसपरीवाहतः श्राव्यवॆदात् ।

 

वॆदान्ताचार्यकश्रीबहुमतबहुविद्वॆङ्कटॆशॊद्धृतॆयम्

 

रम्या तात्पर्यरत्नावळिरनघगुणा रञ्जनी रङ्गभर्तुः ॥

 

इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य वॆदान्ताचार्यस्य कृतिषु 

द्रमिडोपनिषत्तात्पर्यरत्नावळिः समाप्ता

 

वॆदान्ताचार्य तिरुवडिगळे शरणम्

 

 

 

 

 

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.