अधिकरणसारावली
आकाशाधिकरणम्
69.अत्राकाशस्त्वशेषप्रभवविलयभूस्साम्नि दृष्टस्स्वनाम्ना
निर्दिष्टस्तैत्तिरीयेऽप्यनितरजनितस्स्वात्मनस्सम्भवोक्त्या।
मैवं सिद्धानुवादो ह्ययमथ च परप्राप्यतादिर्न तस्मिं-
स्तत्कर्तात्मा विपश्चिच्छ्रुत इति विहिता स्वात्मनस्तत्प्रसूतिः।।
********