अधिकरणसारावली
ईक्षत्यधिकरणम्
55. गौणेक्षासाहचर्यान्न तु बहुभवनप्रेक्षणं नैव मुख्यं
दृष्टान्ताद्यैरिहाभात्यनुमितिरचितस्तादृशाज्जन्म युक्तम् ।
सच्छब्दस्तेन मूलप्रकृतिमविकृतिं व्याहरेदित्ययुक्तं
श्रुत्याऽन्येषां निरोधात्त्वदभिमततिरस्कारिलिङ्गादिभिश्च ॥
56. ज्ञाते ह्येकत्र सर्वं विदितमिति भवत्यैक्यसिद्ध्यै प्रतिज्ञा
मृत्तत्कार्यादयश्च त्रय इह कथितास्तस्य दृष्टान्तभेदाः।
तेनाव्याक्तानुमानं कथितमिति वृथोत्कण्ठितं हेत्वनुक्ते-
स्सारूप्यादेश्च हेतोरुपरि परिहृतेरत्र संभावनोक्तेः।।
57.आदेशात्मस्वशब्दैरनियतशरणैस्त्वन्तदैक्योपदेशा-
ज्जीवेन स्वेन साहंकरणमनहमोऽचिद्गणस्य प्रवेशात्।
एकज्ञानेन सर्वं विदितमिति गिरा सर्वतादात्म्यवाचा
शाखाविद्यान्तरादेरपि बहुभविता विश्वविद्विश्वमूर्तिः।।
********