वेदान्ताचार्यविरचित अधिकरणसारावली
प्रथमाध्याये प्रथम: पाद:
उपोद्घातम्
1. स्वस्ति श्रीरङ्गभर्तुः किमपि दधदहं शासनन्तत्प्रसत्त्यै
सत्यैकालम्बि भाष्यं यतिपतिकथितं शश्वदद्ध्याप्य युक्तान् ।
विश्वस्मिन्नामरूपाण्यनुविहितवता तेन देवेन दत्तां
वेदान्ताचार्यसंज्ञामवहितबहुवित्सार्थमन्वर्थयामि ॥
2. श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्यां
सम्यग्दृष्टेन सर्वंसहनिशितधिया वेङ्कटेशेन क्लृप्तः ।
सेव्योऽसौ शान्तचित्तैः श्रवणरसनया शान्तिलाभार्थिभिर्वा
सिद्धश्शारीरकार्थे सहजबहुगुणः स्रग्धरादुग्धराशिः ॥
3. त्रय्यन्तस्वान्तवादिन्यधिकरणगणे पौनरुक्त्योक्तबाधौ
मन्दत्वासङ्गतत्वे विशयमफलतां मानबाधं च मन्तॄन् ।
दिङ्मोहक्षोभदीनान् दिनकरकिरणश्रेणिकेवोज्जिहाना
हृद्या पद्यावलीयं हृदयमधिगता सावधानान्धिनोतु ॥
4. गम्भीरे ब्रह्मभागे गणयितुमखिलं कः प्रवीणः प्रमेयं
दिङ्मात्रं दर्शयन्नप्यहमिह निपुणैः प्राध्वमध्यक्षणीयः ।
मा भून्निश्शेषसिद्धिस्तदपि गुणविदः स्फीतनिस्सीमरत्ने
मध्येहारं निधेयम्महति जहति किम्मौक्तिकं लब्धमब्धौ ॥
5. वेदार्थे न्यायचिन्त्ये प्रथममधिगतः कर्मवर्गः प्रमाणैः
भेदैरङ्गैः प्रयुक्त्या क्रमविरचनयाऽथाधिकृत्याऽतिदिष्ट्या ।
तत्राशेषैर्विशेषैस्तदनु तदनुवर्त्यूहतः प्राप्तबाधैः
तन्त्रेणाथ प्रसक्त्या तत उपरि चतुर्लक्षणी देवतार्था ॥
6. प्राग्धर्मेऽल्पास्थिरार्थे प्रशमितविशये तादृशाराध्ययुक्तेऽ-
थातश्शारीरकांशे बहुविधमहिम ब्रह्म मीमांसितव्यम् ।
कृत्स्नस्वाद्ध्यायसाङ्गाद्ध्ययनसमुदितापातबुद्ध्यैव कर्म
त्यक्त्वाऽऽदौ ब्रह्मचिन्तां किमिति न कुरुतान्तन्न तुल्योक्त्यबाधात् ॥
7. प्रावण्यं प्राक्त्रिवर्गे सफलयतनतोपासनाङ्गत्वतोऽपि
व्याख्यारूपेऽत्र शास्त्रे क्रमनियतिरसौ स्याच्च मुख्यक्रमेण ।
मानत्वादिर्विचार्यः पुरत इह तथा वाक्यवेद्यात्पदार्थो
दृष्टान्तश्चोपमेयाद्यदि मधु सविधे यातु चाद्रिं किमर्थः ॥
8. व्याचख्युः केऽपि तापत्रयहतिमितरे साधनानां चतुष्कं
काण्डेऽस्मिन् पूर्ववृत्तं कथयति निगमः कर्मचिन्ताफलान्तत् ।
साङ्गाधीतिर्हि सूते विशयमवसरः क्वात्र तन्त्रान्तरादे-
रौचित्यस्थापितोऽयं क्रम इह न पुनश्चोदनासंप्रयुक्तः ॥
9. नित्यप्राप्तस्य कण्ठस्थितकनकनयान्निर्विशेषस्य लब्धिः
मिथ्याभूतं निवर्त्यं श्रुतिशकलभुवः प्रेक्षणात्तन्निवृत्तिः ।
कर्मैवं क्वोपयुक्तं प्रतिभटमपि तद्वृत्ततोक्तिर्मदुक्ते
प्राप्ताऽत्रेति प्रलापे प्रतिवचनगतिर्भाषिता विस्तरेण ॥
10. मीमांसायाः कबन्धं कतिचन जगृहू राहुकल्पं शिरोऽन्ये
किन्तैरन्तर्विरोधप्रमुषितमतिभिः बाह्यकल्पैर्भ्रमद्भिः ।
स्वाद्ध्यायाद्ध्यायकार्त्स्न्ये स्वविधिपरविधिप्रेरणा तावदास्तां
कृत्स्नापातप्रतीतौ किमिति कृतधियः कृत्स्नचिन्तान्न कुर्युः ॥
11. प्राधीतस्यैकरूपप्रयतननियतादेकरूपोपकारा-
द्विद्यास्थानैक्यसिद्धौ क्रमनियतियुताकाङ्क्षयैकप्रबन्ध्यम् ।
अद्ध्यायादिष्विवावान्तरविषयफलाद्यन्यताऽत्राप्यभेत्त्री
तत्तुल्यः कर्तृभेदः कलिबलकलुषैः कल्पितोऽर्थे विरोधः ॥
12. तत्तद्वैशिष्ट्यभेदाद्यदगणि भिदुरा देवता पूर्वभागे
संज्ञावैषम्यमात्रादपि कथमियताऽधीतयष्टव्यभङ्गः ।
उद्देश्याकारभेदोऽस्त्य(ह्य)यमिह हविषामुक्तिभिन्ने प्रयोगे
दौर्बल्यं त्वक्षवेद्यान्मितिचरमतया द्रव्यतो देवतायाः ॥
13. जैमिन्युक्तं विरुद्धं यदिह बहुविधन्दर्शितं सूत्रकारै-
स्तस्मादत्रैकशास्त्र्यं हठकृतमिति, न, ब्रह्मसंवाददार्ढ्यात् ।
तत्तत्तात्पर्यभेदैर्विहतिपरिहृतिः काण्डवत्काण्डयोस्स्यात्
बाह्यक्षेपार्थगूढाशयवचनभवद्भ्रान्तिशान्त्यादिसिद्धेः ॥
14. आक्षिप्य स्थापनीयाः कतिचिदिह नयाः पूर्वकाण्डप्रणीताः
केचिद्व्युत्पादनीयाः क्वचिदपवदनं ख्याप्यमौत्सर्गिकस्य ।
इत्थं सर्वत्र चिन्ताक्रम इति समतां वीक्ष्य मध्यस्थदृष्ट्या
शाश्त्रैक्ये पौनरुक्त्यप्रभृतिपरिहृतिस्सावधानैर्विभाव्या ॥
15. वृत्तिग्रन्थे तु जैमिन्युपरचिततया षोडशाध्याय्युपात्ता
सङ्कर्षः काशकृत्स्नप्रभव इति कथं तत्वरत्नाकरोक्तिः ।
अत्र ब्रूमस्सदुक्तौ न वयमिह मुधा बाधितुं किञ्चिदर्हाः
निर्वाहस्तूपचारात् क्वचिदिति घटते ह्येकतात्पर्ययोगः ॥
16. सौत्री सङ्ख्या शुभाशीरधिकृतिगणना चिन्मयी ब्रह्मकाण्डे
तादर्थ्येऽनन्तरत्वेऽप्यधिकरणभिदा नाल्पसारैः प्रकल्प्या ।
अक्षोर्म्याशाहिकाष्ठाद्विरदमुनिवसूर्म्यद्रितत्त्वातिशक्वर्य-
क्षैरक्षैः प्रयाजैरिह भवति रसैः पादनीतिप्रबन्धः ॥
17. शास्त्रं त्वेतत्समन्वित्यविहतिकरणप्राप्तिचिन्ताप्रधानै-
रद्ध्यायैष्षोडशाङ्घ्रि द्विकयुगभिदुरं षट्कभेदादिनीत्या ।
तत्राद्यं वक्ति सिद्धं विषयमपि परन्तत्प्रतिद्वन्द्वियुग्मं
स्वप्राप्तेस्साधनं च स्वयमिति हि परं ब्रह्म तत्रापि चिन्त्यम् ॥
18. तत्राद्येऽत्यन्तगूढाविशदविशदसुस्पष्टजीवादिवाचः
पश्चात्स्मृत्यादिकैरक्षतिरहितहतिः कार्यताभ्रेन्द्रियादेः ।
दोषादोषौ तृतीये भवभृदितरयोर्भक्तिरङ्गानि चाथो-
पासारोहप्रभावोत्क्रमसरणिफलान्यन्तिमे चिन्तितानि ॥
19. स्रष्टा देही स्वनिष्ठो निरवधिमहिमाऽपास्तबाधः श्रिताप्तः
खात्मादेरिन्द्रियादेरुचितजननकृत्संसृतौ तन्त्रवाही ।
निर्दोषत्वादिरम्यो बहुभजनपदं स्वार्हकर्मप्रसाद्यः
पापच्छिद्ब्रह्मनाडीगतिकृदतिवहन् साम्यदश्चात्र वेद्यः ॥
20. विध्युक्त्याऽधीत्य वेदान्विधिबलविरतावन्यजादेव रागात्
कृत्स्नं मीमांसमानाः क्रमश इति परब्रह्मचिन्तान्तरन्ति ।
प्राप्ते तुर्ये युगेऽस्मिन् परिमितबलधीप्राणतद्विघ्नदृष्ट्या
कालक्षेपाक्षमत्वात् कतिचन कृतिनश्शीघ्रमन्ते रमन्ते ॥
21. रागान्मीमांसते चेत् स्वयमिह यततां किं गुरूक्त्येति चेन्न
ब्रह्मज्ञानाप्तये गुर्वभिगमनविधेस्तेन तत्त्वोपदेशात् ।
सद्विद्याचार्यवत्त्वे प्रथयति च परब्रह्मवित्तिन्तथान्या-
प्याचार्यादित्यधीते नियमविधिरसौ निश्चितो नीतिविद्भिः ॥
22. सिद्धे व्युत्पत्तिराद्या न भवति न च धीर्लक्षणाद्युज्यते़ऽस्मिन्
किं शास्त्रेणान्यसिद्धे न च निशमयितुस्सिद्धबोधे फलं स्यात् ।
ब्रह्मण्येवन्न मानान्युपनिषद इति स्तम्भिते तद्विचारे
शास्त्रारम्भं चतुस्सूत्र्यघटयदुचितैर्न्यायभेदैश्चतुर्भिः ॥
23. सिद्धे व्युत्पत्त्यलाभे स्वरिव फलतया लक्ष्मभङ्गे च लभ्यं
ब्रह्मान्योक्त्या़ऽनुमानप्रमितमपि भवत्वंशतश्शास्त्रवेद्यम् ।
विध्यर्थत्वेऽप्यबाधात् परविषयवचस्स्वार्थमानं भवेदि-
त्यन्वारुह्योक्तिदैन्यन्न हि सहत ऋजुस्सूत्रकृद्वावदूकः ॥
24. द्वाभ्यामादौ प्रतीतिप्रजननमुदितं सिद्धरूपे परस्मिन्
द्वाभ्यां वैफल्यशङ्का तदनु परिहृता शास्त्रतज्जन्यबुद्ध्योः ।
औचित्यानेकभाष्यस्वरसगतिमती प्राक्तनी वर्तनीयं
शास्त्रारम्भार्थमेकं त्रितय(मिह)मपि परं शास्त्रमित्याहुरेके ॥
25. यत्तत्सेनेश्वरार्यैरगणि वकुलभृत्किङ्करैरङ्ग्यकारि
व्यासार्यैर्न्यासि च(तत्) द्विश्श्रुतमिति विशदं विष्णुचित्तैर्विवव्रे ।
अश्रौषं शेषकल्पादहमपि (यदिदं) विदुषो वादिहंसाम्बुवाहात्
अद्धा निर्द्धार्यते़ऽतश्चतुरधिकरणी ब्रह्मचिन्तोपयुक्ता ॥
26. व्युत्क्रम्यात्राद्यतुर्यावभिदधति नयौ केचिदप्राप्तमेतत्
बोधासिद्धौ कथं तत्फलमिह विमृशेत् सिद्धवत्कारमान्द्यात् ।
मध्यौ द्वौ रूपनामप्रजननविषयौ यद्विदुस्तच्च मन्दं
सत्युक्तेऽपेक्षितेऽर्थे विफलविभजनं नोचितं नीतिसूत्रे ॥
*********