अधिकरणसारावली
जन्माद्यधिकरणम्
35 . जन्माद्यैश्चेद्विशेष्यं भवति बहुलताऽथोपलक्ष्यं ब्रवीषि
ज्ञाताज्ञातादिदौःस्थ्यं व्यतिषजति न चालक्षिते स्यात्परीक्षा।
उद्दिष्टब्रह्मचिन्ता तत इह कथमित्यत्र हेतुत्वलक्ष्यः
पुंसूक्तादिप्रसिद्धो गुणनिधिरघजिद्ब्रशब्दार्थ उक्तः।।
36. नाना चेल्लक्षणानि स्वरसभिदुरता ब्रह्मणि स्याद्विशेष्ये
खण़्डो मुण्डश्च गौरित्यभिलपनसमा धर्मिशब्दैकताऽत्र।
तेष्वेकं चेद्यथाऽन्यत्समुदितमफलं स्याद्व्यवच्छेद्यहानेः
खण्डत्वादिक्रमाच्चेत्यसदविहतितः खण्डतादेर्विशेषात्।।
37. तत्तत्स्वप्रत्यनीकव्युदसननियतं भेदकं नान्यबाधि
व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम्।
प्रत्येकं लक्षणत्वं सुवचमिह बहूदाहृतिर्धीमहिम्ने
संभूयाप्याहुरेके फलमपि च तदाशङ्कितार्थव्युदासः।।
38. ज्ञातं चेन्नोपलक्ष्यन्न च यदि नतरां लक्ष्मयोगाप्रतीतेः
ज्ञाताज्ञातांशभेदस्विह दुरभिलपो लक्षणेनैव वेद्ये।
ब्रह्मत्वं ब्रह्मशब्दान्वितिरपि विदितेऽन्यत्र नोचेन्न शङ्का
मैवन्नानागमोद्यद्विशयशमनतः श्रीमति ब्रह्मतोक्तेः।।
39. यावल्लक्ष्यावबोधं यदवगतिरतो लक्षणात्तद्विशेष्यं
यस्याबोधेऽपि पश्चाद्यदवगतिरिदं स्यात्कुतो नोपलक्ष्यम्।
तस्माद्द्वेधापि भाष्येऽनुमतिरनुचितेत्याशयाज्ञस्य चोद्यं
मोक्षार्थोपास्यभेदे ह्युभयमपि समन्वेति विद्याविकल्पात्।।
40. चन्द्रे शाखेव शान्ते महति तटगतं लक्षणं कारणत्वं
सत्यज्ञानादिवाक्यैरपमृदितगुणन्तद्विभातीति डिम्भाः।
एकत्रार्थो विशेष्ये प्रतिपदनियतावर्ज्यतत्तन्निमित्त-
द्वारावृत्तिं पदानामिह विदुररुणाद्युक्तिवन्न्यायवृद्धाः।।
***********