अधिकरणसारावली
जिज्ञासाधिकरणम्
27. कार्ये व्युत्पत्तिराद्या नियतमिति गिरस्तत्परा एव सर्वा
नान्या वेदेऽपि नीतिस्तत उपनिषदामूषरप्रायतैव।
नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने
सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन् ब्रह्म जिज्ञास्यमाह।।
28. अङ्गुल्या निर्दिशन्तः किमपिकिमपि तद्वाचकांशैः प्रयुक्तैः
बालान् व्युत्पादयन्ति क्रमभवमिलितज्ञापकत्वं विदन्तः।
सङ्घातास्ते पदानां विदधति च धियं क्वापि सिद्धे विशिष्टे
कर्तव्ये क्वापि चेति क्वचिदिह नियतिश्शब्दशक्तेर्न कल्प्या ।।
29. संसारेऽनादिसिद्धे मुहुरनुभवतस्सञ्चितास्संस्क्रियास्स्यु-
स्संस्कारोद्बोधकाश्च स्वयमुपनिपतन्त्यप्रकम्प्यात्प्रवाहात्।
तत्तज्जातीयभेदग्रहणसमुचिता वृत्तयस्तन्निदानाः
तद्वत्स्याच्छिक्षकादिव्यवहृतिषु शिशोरैदमर्थ्यादिबोधः।।
30. दक्षैराधोरणाद्यैरनुमितविविधस्वप्रयासोपयोगैः
शिक्षाभेदा विचित्रा गजविहगमुखान् ग्राहयद्भिः प्रयुक्ताः।
तस्मात्सार्था मनुष्यप्रभृतिषु च तथाभूतशिक्षाविशेषः
कल्पो भाष्योदितो यन्न यदि कथमसौ कल्पते़ऽन्योऽपि मार्गः।।
31. कस्मैचित्सिद्धमर्थं कमपि कथयितुं चेष्टया चोद्यमानः
तस्मै तं वक्ति तद्धीसमविषयतया शिक्षते तद्वचो़ऽन्यः।
आदिष्टो बोधनार्थं यदिह वितनुते तत्तदर्थं हि युक्तं
तद्वाक्यात्सिद्धवेदी प्रयतत इति चेदस्त्वनादेशिकन्तत्।।
32. पुत्रस्तेऽभून्न सर्पोऽयमिति वचनतः प्रीत्यभीत्यादिलिङ्गैः
तद्योग्यार्थन्तदूह्यं विषयनियतिरासक्तिपूर्वैः क्वचित्स्यात्।
आवापोद्वापभेदात् प्रतिपदनियता शक्तिरप्यत्र सिद्ध्येत्
भूयोदृष्ट्यादिसाहाय्यकमिह वचसः कार्यपक्षाविशिष्टम्।।
33. कार्ये व्युत्पत्तिराद्या भवतु तदपि किं शक्तितात्पर्यसिद्धेः
प्राग्व्युत्पत्तिः क्रियायां नृवचसि निगमे त्वन्यथेत्यभ्युपैषि।
स्थाप्याऽतोऽनन्यथासिद्ध्यनुगमनियतैस्सत्प्रयोगैर्हि शक्तिः
कोऽसौ पाञ्चाल इत्याद्युचितविरतिकं सिद्धमात्रेऽपि वाक्यम्।।
34. दुःखासंभिन्नदेशप्रभृतिफलतया चोदनास्वेव सिद्धं
श्रौतत्वादार्थवादिक्यपि भवतु फलं रात्रिसत्रे प्रतिष्ठा।
अङ्गीकुर्मो निषेधानुगुणमिति तथाऽनर्थकृत्त्वं निषेद्ध्ये
विद्ध्यर्थैरप्यतस्स्यादवितथविषया ब्रह्मधीरर्थवादैः।।
*********