अधिकरणसारावली
प्राणाधिकरणम्
70. प्राणायत्तं हि देहादिकमिह विदितं तेन तत्कारणत्वं
श्रुत्युक्तं रूढिशक्त्या सुदृढमिति न तद्व्योमवत् साधनीयम्।
तन्न प्राणस्य काष्ठादिषु महिमहतेः पूर्ववच्चानुवादात्
आकाशोक्तेरिवोक्ते भगवति निखिलप्राणनस्यापि दृष्टेः।।
71. नोक्तिं व्याहन्ति लिङ्गं किमपि भवति तु ख्याततत्त्वानुकूलं
शब्दश्चानन्यनिष्ठश्श्रुत इति न परो ज्योतिराद्युक्तिवेद्यः।
विश्वोत्पत्त्युक्त्यभावेऽप्यवगतमिह तल्लिङ्गमित्याक्षिपन्तं
रुन्धेऽथाधिक्रियाभ्यां तदुचितचिदचिद्वर्गवैशिष्ट्ययुक्त्या।।
********