अधिकरणसारावली
समन्वयाधिकरणम्
46. कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात्
प्रीत्या साफल्यक्लृप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम्।
विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावी-
त्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह।।
47. तात्पर्यं ब्रह्मतत्त्वेऽप्यविहिवीधिनाऽप्येकवाक्यत्वपक्षे
भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम्।
स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगा-
द्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद््ध्यैव हर्षः।।
48. यत्प्रीत्यर्थं वचस्तन्निखिलमनृतमित्यर्भकप्रायवाक्यं
सत्योक्त्यानन्ददृष्टेर्न च विहतिरिहाद्ध्यक्षतश्शास्त्रतो वा।
तेनानन्यार्थसिद्धोक्त्यनृतविषयताशङ्कनस्तम्भनेन
त्रय्यन्तास्सत्यनित्याद्भुतपरमपरब्रह्मनिष्ठाः प्रमाणम्।।
49. ब्रह्मैके निष्प्रपञ्चीकरणविधिपदं ध्यानविध्यर्थमन्ये
निर्धर्माद्वैतवाक्योपचरितमितरे सिध्यतीति ब्रुवन्ति।
तेषामेषां स्वपक्षस्ववचनविहतिव्याकुलानेकजल्पाः
कल्पोऽयं बाह्यकल्पः कृतमतिपरिषत्पीठमर्दैरमर्दि।।
50. अन्यार्थो ह्यर्थवादस्स्तुतिमुखमुखतः स्थापितः प्रागिदानीं
स्वातन्त्र्येण प्रमाणीक्रियत इति ततः काण्डयोस्स्याद्विरोधः।
न स्यात्सामान्यतो हि प्रथममभिदधे मानतास्थापनार्थं
केषांचित्स्वार्थतोक्ता स्वत इह सुभगे बोधमात्रात्पुमर्थे।।
51. त्रेधा सर्वत्र वेदे नियतविभजने चोदनाद्यंशभेदै-
श्चत्वारोऽप्यर्थवादा मुनिभिरभिहिता ब्राह्मणांशस्य शेषाः।
अत्रातच्छेषतोक्तौ स्मृतिहतिरिति चेद्विद्धि दत्तोत्तरन्तत्
सामान्योक्तिर्हि सेयं तत उपरि यथामन्त्रविध्यन्यतोक्तेः।।
52. आम्नातैरैहिकार्थैरविगुणसफलैश्शाकुनज्यौतिषाद्यैः
पारत्रिक्या प्रवृत्त्याऽप्यतिनिपुणधियामागमाश्वाससिद्धौ।
शब्दे तस्माच्च बोधे सति परविषये दोषबाधव्यपेते
मानं तत्र स्वतोऽसौ न कथमितरथा नैगमाध्वापलापः।।
53. शास्त्रारम्भोपपत्त्यै चतुरधिकरणी पेटिकेयं प्रवृत्ता
लक्ष्यस्योक्तं विशेषद्वयमिह घटते वक्ष्यमाणोपजीवि।
सद्ब्रह्माद्युक्तिवेद्यः पर इति हि वदेत्कारणत्वाधिकारे
वक्ष्यत्यस्य द्विलिङ्गाद्यधिकृतिषु पुनस्तादृशानन्दतादीन्।।
54. आत्मन्येवं परस्मिन्न कृत इति मिते विश्वहेतुत्वलक्ष्ये
शास्त्रैकस्थापनीये निरुपधिपरमप्रेमयोग्ये प्रसक्ते।
ईदृक्त्वं स्याद्यथार्हं प्रकृतिपुरुषयोर्नानुमानाद्ययोग्यौ
दुःखास्पृष्टौ च तावित्यथ परकथनं दोधवीति क्रमेण।।
*********