अधिकरणसारावली
अत्त्रधिकरणम्
1.2.8 अत्ता खल्वोदनादेर्भवभुगिति कठश्रुत्यधीतोऽप्यसौ स्या-
न्न स्यान्मृत्यूपसिक्तस्थिरचरनिखिलग्रासतस्तल्लयोक्तेः।
जीवव्यावर्तनं च प्रकरणविदितं भोक्तृतोक्तिर्द्वयोस्तु
प्रेर्यत्वप्रेरकत्वप्रतिनियतरसाच्छत्रिनीत्याऽथवा स्यात्।।
1.2.9 सत्त्वं स्वाद्वत्त्यनश्नन् ज्ञ इति विभजनात्पैङ्ग्यधीतन्तु सत्त्वं
बुद्धिः प्राणोऽथवेति त्वृतमिह पिबतोर्जीव एकस्तयोश्चेत्।
मैवं जन्तौ तु सत्त्वश्रुतिरियमुचिता कर्मभुङ्नाप्यनश्नन्
तत्प्रश्नप्रक्रमोऽन्याशय इदमपि चाभाषि पूर्वापराद्यैः।।
*******