अधिकरणसारावली
अदृश्यत्वादिगुणकाधिकरणम्
1.2.15 दृश्यत्वादेर्निषेधो विकृतिमति भवत्यक्षरे सन्निकर्षात्
पञ्चम्युक्ताक्षरन्तत्तदवधिकपरः पञ्चविंशोऽस्तु मा भूत्।
सर्वज्ञत्वादिदृष्टः प्रथमसमुदितं त्वक्षरं ब्रह्म शुद्धं
पश्चादुक्तन्तु जीवादिकमवधितया भेदतस्तत्परोक्तेः।।
******