अधिकरणसारावली
अन्तर्याम्यधिकरणम्
1.2.13 अन्तर्यामी स जीवो बहुविधकरणायत्तधीवृत्त्यनूक्ते-
र्नान्यो द्रष्टेति चोक्तेरिति यदि न नियन्त्रन्तरस्य व्युदासात्।
द्रष्टृत्वाद्यं च तत्तद्विषयघटितधीरूपमीशे हि मुख्यं
तद्धर्माः काण्वमाद्ध्यन्दिनपठितिगतास्तस्य चात्मा शरीरम्।।
1.2.14 स्थानैक्यादत्र शाखाद्वयपरिपठितावात्मविज्ञानशब्दा-
वेकार्थावित्यकम्प्यन्तदपि कथयतो बुद्धिमेवेत्यपार्थः।
लोकाम्नायप्रसिद्ध्योरनुगमत इमौ चेतने ह्येकतानौ
बाधः केनापि नास्मिन्भवति च सत इत्यादिभिस्सामरस्यम्।।
*******